शुक्लयजुर्वेदीय सन्ध्याप्रयोगः

     ||अथ शुक्लयजुर्वेदीयप्रातःसन्ध्याप्रयोगः ||
Hear I am giving sandhya vandan vidhi for shukla yajur veda , which is most commonly followed in north india.
     ||भस्मधारणम् ||
ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्वँ {gum)हवाऽ इदम भस्म मनऽ एतानि
चक्षूँषि भस्मानि ||

     ||गायत्रिमन्त्रः ||
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||
धियोयोनः प्प्रचोदयत् ||

ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता
अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ||

ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् ||
उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ||

ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः
भस्मधारणे विनियोगः ||

ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् ||
यद्देवेषुत्र्यायुषन्तन्नोऽ अस्तुत्र्यायुषम् ||

     ||आचमनम् ||
ॐ केशवाय नमः स्वाहा | ॐ नारायणाय नमः स्वाहा | ॐ
माधवाय नमः स्वाहा | ॐ गोविन्दाय नमः | हस्तं प्रक्षाल्य

     ||अथ देवतानमस्कारः ||
ॐ विष्णवे नमः. ॐ मधुसूदनाय नमः |
ॐ त्रिविक्रमाय नमः | ॐ वामनाय नमः |
ॐ श्रीधराय नमः. ॐ ऋषिकेशाय नमः |
ॐ पद्मनाभाय नमः | ॐ दमोदकराय नमः |
ॐ सङ्कर्षणाय नमः | ॐ वासुदेवाय नमः.
ॐ प्रद्युम्नाय नमः. ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः | ॐ अधोक्षजाय नमः.
ॐ नृसिंहाय नमः | ॐ अच्युताय नमः.
ॐ जनार्दनाय नमः. ॐ उपेन्द्राय नमः |
ॐ श्रीहरये नमः. ॐ श्रीकृष्णाय नमः |

     ||विनियोगः ||
ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री
छंदः प्राणायामे विनियोगः ||

     ||प्राणायामः||
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||धियोयोनः
प्प्रचोदयत् ||

ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ||

एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत्

     ||शिखाबन्धनम् ||
ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो
देवता शिखाबन्धने विनियोगः ||

ॐ मनस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽ अश्श्वेषुरीरिषः||
मानोव्वीरान्न्रुद्रभामिनोव्वधीर्हवीष्म्मन्तः सदामित्वाहवामहे ||

     ||अङ्गन्यासः ||
ॐ विष्णुर्विष्णुः | वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं
श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यां
यशोबलम् ||

     ||मार्जनम् ||
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ||

ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ
उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः
तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् ||

     ||सङ्कल्पः ||
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं  करिष्ये ||

     ||भूमिप्रार्थना ||||विनियोगः ||

ॐ पृथिवीत्यस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो
देवता आसने विनियोगः ||

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ||
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ||
ॐ कूर्माय नमः | ॐ शेषाय नमः | ॐ अनन्ताय नमः |

     ||भूतशुद्धिः ||
ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः |
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ||
अपक्रमन्तु भूतानि पिशाचाः सर्वतोदिशम् |
सर्वेषामविरोधेन सन्ध्याकर्म समारम्भे ||

     ||मार्जनम् ||
ॐ भुः पुनातु (शिरसि)
ॐ भुवः पुनातु (नेत्रयोः)
ॐ स्वः पुनातु (कण्ठे)
ॐ महः पुनातु (हृदये)
ॐ जनः पुनातु (नाभ्याम्)
ॐ तपः पुनातु (पादयोः)
ॐ सत्यं पुनातु (पुनः शिरसि)
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||धियोयोनः
प्प्रचोदयत् ||(सर्वाङ्गं पुनातु)

     ||करन्यासः ||
ॐ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् |
मध्यमायां ऋषिकेशमनामिक्यां त्रिविक्रमम् ||
कनिष्ठिक्यान्न्यसेद्विष्णुं करमध्ये त् माधवम् |
करपृष्ठे हरिं विद्यन्मणिबन्धे जनार्दनम् ||

     ||गायत्रीषडङ्गन्यासाः ||
ॐ भुः हृदयाय नमः |
ॐ भुवः शिरसे स्वाहा |
ॐ स्वः शिखायै वषट् |
ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् |
ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट्.
ॐ धियोयोनः प्प्रचोदयत् अस्त्राय फट् |

     ||प्रणवन्यासाः ||
ॐ अकारम् नभौ |
ॐ उकारम् हृदये |
ॐ मकारम् मूर्ध्नि |
ॐ भुः पादयोः |
ॐ भुवः जान्वोः |
ॐ स्वः ऊर्वोः |
ॐ महः जठरे |
ॐ जनः कण्ठे |
ॐ तपः मुखे |
सत्यम् शिरसि ||
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||धियोयोनः
प्प्रचोदयत् ||(सर्वाङ्गे)

     ||गायत्र्यावाहानम् ||
ॐ गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् |
रक्तवस्त्रां चतुर्हस्तां हंसवाहन्संस्थिताम् ||
ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकानिवासिनीम् |
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ||
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि |
गायत्रि छन्दसां मातर्ब्रह्मयोनि नमोऽस्तु ते ||

     ||अम्बुप्राशनम् ||||विनियोगः ||

ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः
अम्बुप्राशने विनियोगः ||

ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ||

     ||मार्जनम् ||||विनियोगः ||

ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः
आपोदेवता मार्जने विनियोगः ||

     ||मार्जनम् ||
ॐ आपोहिष्ठ्ठामयो भुवस्तानऽ ऊर्ज्जेदधातन | महेरणाय
चक्षसे ||
योवः शिवतमोरसस्तस्य भाजयतेहनः | उशतीरिवमातरः ||
तस्म्माऽ अरङ्ग मामवोयस्य क्षयायजिन्न्वथऽ आपो जनयथाचनः

     ||अघमर्षणम् ||
     ||विनियोगः||
ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो
देवता अघमर्षणे विनियोगः||

     ||अघमर्षणम् ||
ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव ||
पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ||
(अनेन मन्त्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्)

     ||अर्घ्यम् ||
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||
धियोयोनः प्प्रचोदयत् ||

ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः |
इदमर्घ्यं दत्तं न मम ||

(एवम त्रिवारं अर्घ्यं दद्यात्)

ॐ असावादित्यो ब्रह्म

     ||सूर्योपस्थानम् ||
ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् ||देवन्देवत्र
सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ||
उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ||दृशेव्विश्श्वायसूर्य्यम् ||

ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः ||
आप्प्राद्ध्यावापृथिवीऽ अन्तरिक्षँ सूर्य्यऽआत्क्मा
जगतस्तस्थुषश्च ||

ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ||
पश्श्येमशरदः शतञ्जीवेमशरदः
शतँशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः
स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ||

     ||विनियोगः||
ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिः आज्यं देवता जगती
छन्दः यजुर्गायत्र्यावाहने विनियोगः

     ||गायत्र्यावाहनम् ||

तेजोसिशुक्क्रमस्यमृतमसिधामनामासिप्प्रियन्देवानामनाधृष्ट्टन्देवयजनमसि
     ||

     ||अथ मुद्रप्रदर्शनम् ||
ॐ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा |
द्विमुखं त्रिमुखं चैवचतुष्पञ्चमुखं तथा ||
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा |
शकटं यमपाशं च ग्रथितं चोन्मुखोन्मुखम् ||
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम्.
सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा||

     ||शापविमोचनम् ||
ॐ भो गायत्रि देवि त्वं ब्रह्मशापाद्विमुक्ता भव ||
ॐ भो गायत्रि देवि त्वं वसिष्ठशापाद्विमुक्ता भव ||

(महामुद्रं (योनिमुद्रां) प्रदर्श्य त्रिवारं मनसि गायत्रीमन्त्रं जपेत्)
ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||
धियोयोनः प्प्रचोदयत् ||

ॐ भो गायत्रि देवि त्वं विश्वामित्रशापाद्विमुक्ता भव ||
ॐ भो गायत्रि देवि त्वं शुक्रशापाद्विमुक्ता भव ||

     ||अथ गायत्रीध्यानम् ||
मुक्ताविद्रुमहेमनीलधवलाच्छायैर्मुखैस्त्रीक्षणै
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् |
गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ||

     ||पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ||
ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् |
लिङ्गं निर्वाणेति जपेत् ||

     ||जपार्णम् ||
ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ||

     ||प्रार्थना ||
ॐ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ||
उत्तरे शिखरे देवि भूम्यां पर्वतमूर्धनि |
ब्रह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ||

     ||गोत्रप्रवरोच्चारणपूउर्वकमभिवादनम् ||
अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि
माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ||

भो आचार्य ! त्वामभिवादयामि |
भो वैश्वानर ! त्वामभिवादयामि |
भो सूर्यचन्द्रमसौ ! युवामभिवादयामि |
भो मातापितरौ ! युवामभिवादयामि |
भो याज्ञवल्क्य ! त्वामभिवादयामि |
भो ईश्वर ! त्वामभिवादयामि |

     ||सन्ध्यार्पणम् ||
ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी
परमेश्वरः प्रीयतां न मम ||

ॐ तत्सद् ब्रह्मार्पणमस्तु ||

(त्रिराचमेत्)

     ||हस्तौ बद्धवा ||
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु |
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ||

ॐ विष्णवे नमः | ॐ विष्णवे नमः | ॐ विष्णवे नमः |

ॐ तत्सद् ब्रह्मार्पणमस्तु

     ||इति प्रातः सन्ध्याप्रयोगः ||

     ||अथ शुक्लयजुर्वेदीयमध्याह्नसन्ध्याप्रयोगः ||
     ||सङ्कल्पः ||
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
रुद्रावाप्तये मध्याह्नसन्ध्योपासनमहं  करिष्ये ||

     ||सावित्र्यावाहनम् ||
ॐ सावित्रीं युवतीं शुक्लां शुक्लवस्त्रां त्रिलोचनाम् |
त्रिशूलिनीं वृषारूढां रुद्ररूपिणीसंस्थिताम् ||
रुद्राणीं रुद्रदैवत्यां रुद्रलोकानिवासिनीम् |
आवहयाम्यहं देवीमायान्तीं रुद्रमण्डलात् ||
आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि |
सावित्रि छन्दसां मातर्रुद्रयोनि नमोऽस्तुते ||

     ||अम्बुप्राशनम् ||
     ||विनियोगः ||
ॐ आपः पुनन्त्विति मन्त्रस्य नारायण ऋषिः आपो देअवता गायात्री
छन्दः अम्बुप्राशने विनियोगः ||

     ||अम्बुप्राशनम् ||
ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् | पुनन्तु
ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ||
यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम, सर्वां पुनन्तु
मामापो सताञ्च प्रतिग्रहँस्वाहा ||

     ||अर्घ्यम् ||(एकवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ आकृष्ण्णेनरजसाव्वर्त्तमानो निवेशयन्नमृतम्मर्त्यञ्च ||
हिरण्ण्ययेनसवितारथेनादेवोयाति भुवनानिपश्श्यन् ||

ॐ मध्याह्नसन्ध्यायां रुद्र स्वरूपिणे सवित्रे सूर्यनारायणाय नमः |
इदमर्घ्यं दत्तं न मम ||ॐ असावादित्यो ब्रह्म ||

     ||जपार्णम् ||
ॐ अनेन मध्याह्नसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ||

     ||सन्ध्यार्पणम् ||
ॐ अनेन मध्याह्नसन्ध्योपासनाख्येन कर्मणा भगवान् रुद्रस्वरूपी
परमेश्वरः प्रीयतां न मम ||

ॐ तत्सद् ब्रह्मार्पणमस्तु ||

त्रिराचमेत् |

     ||इति मध्याह्नसन्ध्याप्रयोगः ||

     ||अथ शुक्लयजुर्वेदीयसायंसन्ध्याप्रयोगः ||

     ||सङ्कल्पः ||
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
विष्णुवाप्तये सायंसन्ध्योपासनमहं करिष्ये ||

     ||सरस्वत्यावाहनम् ||
ॐ वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् |
शङ्खचक्रगदापद्महस्तां गरुडवाहिनीम् ||
वैष्ण्वीं विष्णुदैवत्यां  विष्णुलोकनिवासिनीम् |
आवाहयाम्यहं देवीमायान्तीं विष्णुमण्डलात् ||
आग्च्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि |
सरस्वति छन्दसा मातार्विष्णुयोनि नमोऽस्तुते ||

     ||अम्बुप्राशनम् ||||विनियोगः ||
ॐ अग्निश्चमेत्यस्य नारायणः ऋषिः अग्निर्देवता अनुष्टुब्छ्न्दः
अम्बुप्राशने विनियोगः ||

ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ||

     ||अर्घ्यम् ||(त्रिवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ सायंसन्ध्यायां विष्णु स्वरूपिणे सवित्रे सूर्यनारायणाय नमः |
इदमर्घ्यं दत्तं न मम ||

     ||जपार्णम् ||
ॐ अनेन सायंसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ||

     ||सन्ध्यार्पणम् ||
ॐ अनेन सायंसन्ध्योपासनाख्येन कर्मणा भगवान् विष्णुस्वरूपी
परमेश्वरः प्रीयतां न मम ||

ॐ तत्सद् ब्रह्मार्पणमस्तु ||

त्रिराचमेत् |

     ||इति सायंसन्ध्याप्रयोगः ||

Animesh’s blog