निरुपमनित्यनिरंशकेऽप्यखण्डे
मयि चिति सर्वविकल्पनादिशून्ये .
घटयति जगदीशजीवभेदं
त्वघटितघटनापटीयसी माया .. १..
श्रुतिशतनिगमान्तशोधकान-
प्यहह धनादिनिदर्शनेन सद्यः .
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया .. २..
सुखचिदखण्डविबोधमद्वितीयं
वियदनलादिविनिर्मिते नियोज्य .
भ्रमयति भवसागरे नितान्तं
त्वघटितघटनापटीयसी माया .. ३..
अपगतगुणवर्णजातिभेदे
सुखचिति विप्रविडाद्यहंकृतिं च .
स्फुटयति सुतदारगेहमोहं
त्वघटितघटनापटीयसी माया .. ४..
विधिहरिहरविभेदमप्यखण्डे
बत विरचय्य बुधानपि प्रकामम् .
भ्रमयति हरिहरभेदभावा-
नघटितघटनापटीयसी माया .. ५..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
मायापञ्चकम्
संपूर्णम् .
Animesh’s blog