Atmaradhan- Chandan dharan vidhi among nambothiris

Some sandalwood paste is put on the palm of the left hand, a little water is poured on it and the two are mixed with the middle finger of the right hand. With the middle and ring fingers of the right hand, a mark (kuri) is then made on the following places on the body:
(1) the forehead
(2) on the Adam’s apple i.e. on the throat
(3) in the middle of the chest (4)  just below the shoulder (bāhumūlam) on the right arm
(5) just below the shoulder on the left arm
(6) far down on the back
(On some occasions, a mark is made also on the back of the legs, on the calves.)
Then the hands are washed, because the body has been touched, and a flower is taken with the right hand and tucked under the hair-braid on the crown . This ends the ātmārādhana. This description above covers only a portion of the Kerala Tantric ātmārādhana described by Kakkāṭu̇ Nārāyaṇan Nampūtiri .( I have gained the above information in a research paper about jaimineya samaveda nambuthiri tradition.The mula text is given below ).
… candanaṁ raṇṭu kayyiluṁ ākki mūrddhādi pādāntaṁ vyāpakaṁ mūnnu prāvaśyam ceyyuka. … candanaṁ raṇṭu kayyil ākki mūlaṁ colli dēhaṁ muluvan tēkkuka. kai kaḻuki raṇṭāmatuṁ candanaṁ eṭuttu̇ mūlaṁ colli neṯṯi, kaḻuttu̇, māṟu̇, raṇṭu kaikaḷ iviṭaṅṅaḷil kuṟi yiṭuka. śivanu̇ ī sthānaṅṅaḷil pañca brahmattil ōrō mantraṅṅaḷ colli kuṟi yiṭuka. viṣṇuvinnu dvādaśa nāmaṅṅaḷe kkoṇṭu̇ dēhaśuddhiyil parañña sthānaṅṅaḷil mēlppōṭṭu̇ (gōpikkuṟi yāyi) kuri yiṭuka…) and Kuḻikkāṭṭu̇ Maheśvaran Bhaṭṭatirippāṭu̇ (1974, pp. 183-4: … pūjiccāl kayyil candanaṁ puraṭṭi mūlaṁ koṇṭu̇ oru vyāpakaṁ ceytu̇ viṣṇuvinuṁ durggaykkuṁ kēśavādi sthānattu̇ kēśavādi koṇṭu̇ ūrddhvapuṇḍravuṁ; śivannu̇ neṯṯi, kaḻuttu̇, valatu cumal, iṭatu cumal, māṟu̇ ī sthānaṅṅaḷil pañca brahmaṁ koṇṭu tiryakpuṇḍravuṁ, maṯṯ uḷḷavarkku̇ śivanu paṟañña sthānaṅṅaḷil mūlaṁ koṇṭu̇ tiryakpuṇḍravuṁ āyi candanaṁ kuṟi yiṭṭu̇ …)

{ Name of that research paper is
Codification of Vedic domestic ritual in Kerala: Pārvaṇa-sthālīpāka – the model of rites with fire-offerings – in Jaiminīya-Gṛhyasūtra 1,1-4 and in the Malayāḷam manual of the Sāmaveda Nampūtiri Brahmins of Kerala,  the Sāma-Smārtta-Caṭaṅṅu
By :̇ ASKO PARPOL }

Animesh’s blog

|| अथर्ववेदः ||

अभिचारक्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते । अथर्ववेदे २० काण्डानि, ७३१ सूक्तानि, ५९८७ मन्त्रा विद्यन्ते । एषु मन्त्रेषु द्वादशशतमन्त्रा ऋग्वेदेऽपि दृश्यन्ते । विंशतिकाण्डे १५३ सूक्तानि सन्ति, तेषु द्वादशसूक्तानि अतिरिच्य शेषाणि सर्वाण्यपि ऋग्वेद स्य दशममण्डले समुपलभ्यन्ते । अथर्ववेदस्य    सम्प्रति शौनकपिप्पलादसमाख्ये द्वे एव शाखे प्राप्येते । प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता, पिप्पलादशाखासंहिताऽपि अनतिचिरेणैव मुद्रिता ।

अथर्ववेदस्य उपलब्धेषु अनेकाभिधानेषु अथर्ववेद-ब्रह्मवेद-अंगिरोवेद-अथर्वागिरेवेदादीनि नामानि प्रमुखतां भजन्ते । “थर्व” धातुः कौटिल्यार्थकः तथा हिंसावाचकः अस्ति । अत एव “अथर्व” शब्दस्य अर्थोऽस्ति यत् अकुटिलवृत्या अहिंसवृत्या च मनसः स्थैर्यप्राप्तकर्ता व्यक्तिः । अथर्वांगिरस्पदस्य व्याख्याकरणे सति प्रतीयते यत् ॠषिद्वयेन दृष्टानां मन्त्राणां समूहरूपः एव अथर्ववेदः । अथर्वदृष्टाः मन्त्राः शान्तिप्रपुष्टिकर्मयुक्ताः सन्ति, परन्तु अंगिरेदृष्टाः मन्त्राः आभिचारिकाः सन्ति । वेदेऽस्मिन् मारणमोहनोच्चाटनादीनां ज्वरापस्मारादिरोगविनाशकानाञ्च मन्त्राणां संग्रहोस्ति ।

ब्रह्मपुत्रेण अथर्वेण समाहृता इति अथर्ववेदः अन्वर्थं नाम । अथर्वाङ्गिराः, ब्रह्मवेदः इति नामान्तराणि । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति ।

भूर्जपत्रेषु शारदालिप्या लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरीयैः सम्पादितम् अस्ति । तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थसङ्ग्रहे अस्ति | अथर्ववेदीयमेकएव गोपथब्राह्मणं समुपलभ्यते | अथर्ववेदानुबन्धि आरण्यकं किमपि न समुपलभ्यते |

|

Animesh’s blog

प्रश्नोपनिषत्

प्रश्नोपनिषत्  अथर्ववेदीया उपनिषत् । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते ।
तानुद्दिश्य
पिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयन्तः वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रद्धया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगत्य षट् प्रश्नान् पृच्छन्ति । कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।

प्रथमप्रश्नः
तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते – सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एकोऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं (चैतन्य-जड) शक्तिद्वयं असृजत् । इन्द्रियाणां गोचराः स्थूलसूक्ष्मादीनि वस्तूनि सर्वाणि जडरूपाणि एव । एतेषु सञ्चलनं यत् कारयति तदेव चैतन्यम् । चन्द्रमाः जडस्वरूपं सूर्यः चैतन्यस्वरूपम् इति ऋषिभिः कल्पितम् । सूर्यः स्वस्य उदयेन चराचरवस्तुषु चैतन्यं जागरयति । चन्द्रलोकः नाम स्वर्गलोकः । यज्ञयागादीनि परोपकारकर्माणि यैः क्रियते ते चन्द्रलोकं प्राप्नुवन्ति । इमं मार्गं पितृयानमिति निर्दिशन्ति । सूर्यलोकः नाम पुनर्जन्मरहितानां मुक्तानां स्थानम् । ज्ञानश्रद्धादिभिः सूर्यलोकः प्राप्यते । अयं मार्गः देवयानमिति निर्दिश्यते । संवत्सरः प्रजापतिः इति प्रकल्प्य दक्षिण-उत्तरायणौ जड-चैतन्यमार्गौ इति, मासः प्रजापतिः इति प्रकल्प्य निशा-दिवे च जड-चैतन्ये इति च मुनयः निर्णीतवन्तः । अन्ते अन्नमेव प्रजापतिः ततः एव रेतः ततः एव प्रजाः इति निर्दिष्टम् ।

द्वितीयप्रश्नः

द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । ‘पञ्चभूतानि इन्द्रियाणि च शरीरस्य निजः आधारः न, प्रमुखः आधारः भवति प्राणः । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः प्राणः एव विश्वपतिः । सः सर्वस्य आधारभूतः । सः एव सर्वस्य प्रेरकः’ इति उत्तरति मुनिः ।

तृतीयप्रश्नः

तृतीयेन प्रश्नेन आश्वलायनः पृच्छति, प्राणः कुतः आयाति, देहप्रवेशः कथम्, पञ्चधा कथं विभक्तः भवति, देहादूर्घ्वोत्क्रमणं कथम् इति । तदा पिप्पलादः ब्रूते-आत्मनः एव प्राणः जायते । मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति । विविधकर्माणि कर्तुं जीवं धारयितुं च एषः स्वयं पञ्चधा विभक्तः सन् पञ्चसु स्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ तथा । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् । आदित्यः, पृथिवी, आकाशः, वायुः, तेजः च क्रमेण प्राण-अपान-समान-व्यान-उदानरूपेण बाह्यपदार्थानाम् आधाररूपाः भवन्ति । देहान्तर्गततत्त्वानां प्राणः आधारभूतः भवति ।

चतुर्थप्रश्नः

चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् सर्वाः शक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाः शक्तयः मनसि सम्मिल्य स्वपन्ति । प्राणाग्नयः जागरिताः सन्तः सततं कार्यरताः भवन्ति । स्वप्नान् पश्यति देवः मनः एव । विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । पूर्णज्ञानस्य प्राप्त्या आत्मा सुखी भवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्ति । आत्मा एव द्रष्टा, श्रोता, वक्ता च । सः परमश्रेष्ठे अक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव सर्वेषां प्रतिष्ठारूपम् ।

पञ्चमप्रश्नः

पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं वदति – परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । ओङ्कारः मात्रात्रयेण युक्तः । अकारः, उकारः, मकारः एव ताः मात्राः । प्रथममात्रस्य अकारस्य ध्यानं नाम ऋग्वेदोपासनम् । अस्य लोकस्य महिम्नः अनुभवः एव ध्यानस्य फलं भवति । द्वितीयमात्रस्य उकारस्य ध्यानं नाम यजुर्वेदविहितानां यज्ञयागादीनां पुण्यकर्मणाम् आचरणम् । पुण्यस्य समाप्तिपर्यन्तं स्वर्गलोकस्य सुखानि अनुभूय प्रत्यागमनमेव उकारध्यानस्य फलम् । मात्रात्रयमपि संयुज्य यः ओङ्कारस्य ध्यानं कुर्यात् तेन पुनर्जन्मरहितः सूर्यलोकः ब्रह्मलोकः वा प्राप्यते । तदेव अमृतपदम् ।

षष्ठः प्रश्नः

षष्ठे प्रश्ने सुकेशाः भारद्वाजः पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः रथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते षोडशकलाः संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणतः श्रद्धाम् असृजत । ततः पञ्चभूतानि । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । एते एव षोडशकलाः । एते सर्वे पुरुषे लीनाः सन्तः विनष्टाः भवन्ति । सर्वाः देवताः, प्राणाः, भूतानि च परमपुरुषे प्रतिष्ठितानि सन्ति । अयमेव षोडशकलाभिः युक्तः पुरुषः ।
तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।

Animesh’s blog