|| अथर्ववेदः ||

अभिचारक्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते । अथर्ववेदे २० काण्डानि, ७३१ सूक्तानि, ५९८७ मन्त्रा विद्यन्ते । एषु मन्त्रेषु द्वादशशतमन्त्रा ऋग्वेदेऽपि दृश्यन्ते । विंशतिकाण्डे १५३ सूक्तानि सन्ति, तेषु द्वादशसूक्तानि अतिरिच्य शेषाणि सर्वाण्यपि ऋग्वेद स्य दशममण्डले समुपलभ्यन्ते । अथर्ववेदस्य    सम्प्रति शौनकपिप्पलादसमाख्ये द्वे एव शाखे प्राप्येते । प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता, पिप्पलादशाखासंहिताऽपि अनतिचिरेणैव मुद्रिता ।

अथर्ववेदस्य उपलब्धेषु अनेकाभिधानेषु अथर्ववेद-ब्रह्मवेद-अंगिरोवेद-अथर्वागिरेवेदादीनि नामानि प्रमुखतां भजन्ते । “थर्व” धातुः कौटिल्यार्थकः तथा हिंसावाचकः अस्ति । अत एव “अथर्व” शब्दस्य अर्थोऽस्ति यत् अकुटिलवृत्या अहिंसवृत्या च मनसः स्थैर्यप्राप्तकर्ता व्यक्तिः । अथर्वांगिरस्पदस्य व्याख्याकरणे सति प्रतीयते यत् ॠषिद्वयेन दृष्टानां मन्त्राणां समूहरूपः एव अथर्ववेदः । अथर्वदृष्टाः मन्त्राः शान्तिप्रपुष्टिकर्मयुक्ताः सन्ति, परन्तु अंगिरेदृष्टाः मन्त्राः आभिचारिकाः सन्ति । वेदेऽस्मिन् मारणमोहनोच्चाटनादीनां ज्वरापस्मारादिरोगविनाशकानाञ्च मन्त्राणां संग्रहोस्ति ।

ब्रह्मपुत्रेण अथर्वेण समाहृता इति अथर्ववेदः अन्वर्थं नाम । अथर्वाङ्गिराः, ब्रह्मवेदः इति नामान्तराणि । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति ।

भूर्जपत्रेषु शारदालिप्या लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरीयैः सम्पादितम् अस्ति । तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थसङ्ग्रहे अस्ति | अथर्ववेदीयमेकएव गोपथब्राह्मणं समुपलभ्यते | अथर्ववेदानुबन्धि आरण्यकं किमपि न समुपलभ्यते |

|

Animesh’s blog

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s