महाकाली- महाकाल भैरवः
शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् |
महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् |
महाकालेन वै सार्धं दक्षिणा रमते सदा ||
तारा- (तार)अक्षोभ्य भैरवः
ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् |
समुद्रमथने देवि कालकूटं समुत्थितम् ||
सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः |
क्षोभादिरहितं यस्मात्पीतं हालाहलं विषम् ||
अत एव महेशानि अक्षोभ्यः परिकीर्तितः |
तेन सार्धं महामाया तारिणी रमते सदा ||
महात्रिपुरसुन्दरी- पञ्चवक्त्र भैरवः
महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् |
पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि ||
तेन सार्धं महादेवी सदा कामकुतूहला |
अत एव महेशानी पञ्चमीति प्रकीर्तिता ||
भुवनेश्वरी- त्र्यम्बक भैरवः
श्रीमद् भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् |
स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी ||
एतास्तु रमते येन त्र्यम्बकस्तेन कथ्यते |
सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः ||
त्रिपुरभैरवी-दक्षिणामूर्ति भैरवः
भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् |
पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि ||
छिन्नमस्ता- कबन्ध भैरवः
छिन्नमस्ता दक्षिणांशे कबन्धं पूजयेच्छिवम् |
कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत् ||
धूमावती * ( some times kalabhaira / aghor bhairava )
धूमावती महाविद्या विधवारूपधारिणी ||
बगलामुखी- एकवक्त्र भैरवः
बगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् |
महारुद्रेति विख्यातं जगत्संहारकारकम् ||
मातङ्गी-मतङ्ग भैरवः
मातङ्गी दक्षिणांशे च मतङ्गं पूजयेच्छिवम् |
तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् ||
कमलात्मिका-सदाशिव भैरवः
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् |
पूजयेत् परमेशानि स सिद्धो नात्र संशयः ||
Animesh’s blog
Reblogged this on prabhakaradas.
LikeLike