” वेदो$खिलो धर्ममूलम् “

संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । सनातन धर्मस्य प्राणवत्, विश्वस्य महानतम: आदिग्रन्थ: वेद न केवलं हिन्दुधर्मस्य अपितु सर्वेषां धर्माणां मूलम् अस्ति । वेदोखिलो धर्ममूलम् अर्थात् समेषां धर्माणां उत्पत्ति: अनेन एव अभवत् इति ।
सनातनधर्मः प्रामुख्येन वेदान् अवलम्बते । वेदः नाम ज्ञानमिति । ऋषयः ध्यानानन्दे लीनाः सन्तः श्रुतवन्तः इत्यनेन शिष्याः गुरुमुखेन इदम् अभ्यस्यन्ति स्म इत्यनेन च अस्य श्रुतिः इति नाम प्रसिद्धम् अस्ति ।
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् ।
प्रत्यक्षेणानुमेत्या वा यस्तूपायो न विद्यते ।
एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥
आम्नायः, आगमः श्रुतिः, वेदः, इति सर्वे शब्दा पर्यायाः ।
ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् ।
सोऽयं वेदस्त्रयीति पदेनापि व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते, तदुक्तं चैमिनिना –तेषामृग् यत्रार्थवशेन पादव्यवस्था । गतिषु सामाख्या । शेषे यजुः शब्दः’ इति । द्वितीयाध्याये प्रथमपादे ३२-३३-३४ सूत्राणि यास्कस्तु –‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्चेति भेदात् त्रिविधाः । ऋकशब्दोऽत्र मन्त्रवचनः । यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः, यासु मध्यमपुरुषक्रियास्ताः प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्ता आध्यात्मिक्यः ’ इति । अतः यत्र कुत्रापि प्राचीनग्रन्थे वेदार्थे ‘त्रयी तिं पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् । यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’

अग्नेरऋचो वायोर्यजूषि सामादित्यात् । ( छा. ब्रा.६/१७ )
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥ ( मनु. १/१३)
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि|
प्रधानतया वेदो द्विविधः मन्त्ररुपो ब्राह्मणरुपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरुपो वेदभागस्तु संहिताभागस्य व्याख्यारुप एव । स चायं ब्राह्मणभागो यागस्वरुपबोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरुपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रुपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरुपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च सन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।
अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् |
यज्ञे चत्वारो ऋत्विजो भवन्ति –
१ होता
२ अध्वर्युः
३ उद्गाता
४ ब्रह्मा
होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः ।

अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः|

उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः ।

ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते ।

ऋग्वेदः

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आरण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥
ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति – यथा इन्द्रः, अग्निः, वायुः इत्यादय: । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डले विभाजिता: सन्ति । महामुनि व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् । यज्ञेषु देवताह्वानेऽयं वेदभाग उपयुज्यते । यज्ञेषु ऋग्वेदमन्त्रपठनकर्ता “होता” इत्युच्यते । आयुर्वेदः ऋग्वेदस्य उपवेदः |
ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । महाभाष्य (पश्पसाह्निक) अनुसारं ऋग्वेदस्य एकविंशति: (21) शाखा: आसन् । एताषु शाखासु चरणव्यूह ग्रन्थानुसारं पंच (5) शाखा: (शाकल, बाश्कल, आश्वलायन, शांखायन, माण्डूकायन) मुख्या: सन्ति । यासु साम्प्रतं केवलं शाकल शाखा एव प्राप्यते । ऋग्वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्टक क्रमेण, मण्डल क्रमेण च कृतं अस्ति । अष्टक क्रमे , अष्ट अष्टकेषु अष्ट-2 अध्याया: , प्रत्येकस्मिन् अध्याये केचन् वर्गा: , प्रत्येकवर्गे केचन ऋचा: सन्ति |
स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।
ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) ।
मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।
द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति ।
ऋग्वेदस्य एकविंशतिः शाखाः सन्ति कालक्रमेण तद्विलुप्य याः शाखाः सन्ति तासु आश्वलायन –शाकल-बाष्कलशाखाः प्रसिध्दाः । अत्र शाकलस्ंहितायां दशमण्डलानि प्रतिमण्डले नानासूक्तानि प्रत्येकं सूक्ते नानाऋचः च सन्ति । एवं ऋग्वेदे आहत्य १०२६ सूक्तानि ९९००० मन्त्राश्च वर्तन्ते ॥
अत्र मन्त्रद्रष्टारः ऋषयः गृत्समद-विश्वामित्र –अत्रि-भरद्वाजवसिष्ठादयः भवन्ति । शाकलसंहितायाः नवमण्डलं पवमाननाम्ना प्रसिध्दम् । अत्र सोमविषयकमन्त्राणां सङ्कलनमस्ति । प्रथमाष्टमण्डलयोः कण्ववंशीयनामाङ्गिरसगोत्रजानामन्येषां च ऋषीणां मन्त्राः दृश्यन्ते । अनुसन्धानकुशलैस्तु द्वितीयमण्डलमारभ्य अष्टमण्डलपर्यन्तं प्राचीनतमो भागः नवममण्डलं तदनन्तरभूतं प्रथमाष्टाममण्डले अर्वाचीने दशममण्डलं अर्वाचीनतममिति निर्धारितम् ॥
ऋग्वेदस्य ब्राह्मणभागद्वयं ऐतरेयकौषीतकीति, आरण्यकानि ऐतरेय-कौषीतकि-शाङ्खायनादीनि त्रीणि, दश उपनिषदश्च विद्यन्ते ॥

यजुर्वेदः

यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च | यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते
यजुर्वेदस्य प्रमुखतया शाखाद्वयम् – शुक्लयजुर्वेदः कृष्णयजुर्वेदः च । कृष्णयजुर्वेदः संहिताभागः ब्राह्मणभागः इति समग्रतया विभक्तः नास्ति । ब्राह्मणभागः संहिताभागेन सह युक्तः विद्यते । वैदिककर्मणां विषये आचरणानाञ्च समीचीनविवरणं यजुर्वेदस्य विशेषः । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां दर्शपूर्णमास, सोमयाग, वाजपेय, राजसूय, अश्वमेध इत्यादीनां यज्ञानां सूक्ष्मविवरणम् उपलभ्यते । पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।
वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवला मन्त्रा विद्यन्ते, कृष्णयजुर्वेदे तु विनियोग वाक्यानि मन्त्राश्च । अतोऽमिश्रितरूपतया शुक्लयजुर्वेदः, मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि लोकाः कथयन्ति ।
सोऽयं यजुर्वेदः ४० अध्यायान्, ३०३ अनुवाकान्, १९७५ कण्डिका (मन्त्रान्), २९६२५ शब्दान्, ८८८७५ अक्षराणि च बिभर्ति । अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीयेऽग्निहोत्रं चातुर्मास्येष्टिः, चतुर्थाध्यायादष्टादशाध्यायपर्यन्तम् अग्निः चयनम्, उखाभरणम्, चितयः रुद्रहः, शतरुद्रियम् वसोर्धारा, राष्ट्रभृच्च । एकोनविंशतितमाध्यायात् परिशिष्टमारभ्यते, विशे एकविंशे च सोमसम्पादनविधिः, तदनु पञ्चविंशतिपर्यन्तमश्वमेधः ततः शेषे भागे पुरुषमेधसर्वमेधपुतृमेधादिविवरणञ्च प्रपञ्चितम् । अन्तिमश्चाध्याय ईशावास्योपनिषद्रूपः ।
शुक्लयजुर्वेदस्य वाजसनेयिसंहिता कथ्यते । तादृशनामकरणे बीजं त्विदं कथ्यते यत् याज्ञवल्क्येनाराधितः सूर्यो वाजी भूत्वा तस्मै वेदं प्रोक्तवान् अतस्तदुक्ता संहिता वाजसनेयी संहिता समाख्याता । शुक्लयजुर्वेदस्य माध्यन्दिनशाखा कण्वशाखा चेति द्वे शाखे । प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे । अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः , बहुष्वंशेषु तुल्यता वर्त्तते । कृष्णयजुर्वेदस्य चतस्रः शाखा-प्राप्यन्ते
तैत्तिरीयशाखा –इयं प्रधानशाखा, अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्याया, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठका बहुष्वनुवाकेषु विभक्ताः सन्ति ।
मैत्रायणीसंहिता इमे द्वे अपि संहिते तैत्तिरीय –संहितामनुकुरुतः,
काठकसंहिता केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते ।
आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । ऋग्वेदे अविद्यमानाः स्तुतिमन्त्राः अस्मिन् उपलभ्यन्ते । उदाहरणाय अद्य पठ्यमानं ‘श्रीरुद्रम्‘ यजुर्वेदमात्रे एव दृश्यते । ‘पञ्च रुद्रम्’ इत्येतत् यद्यपि ऋग्वेदे उपलभ्यते किन्तु तदस्ति पञ्चमन्त्रात्मकमात्रम् । अतः एव महान् शिवभक्तः अप्पय्यदीक्षितः कदाचित् अवदत् – ‘अहं यजुर्वेदवंशे न जातः इति मे मनः खिद्यते । यदि स्यात् तर्हि शिवं यजुर्वेदेन एव शिवम् अपूजयिष्यम्’ इति । सः सामवेदानुयायिनां कुटुम्बे जातः आसीत् । अद्यत्वे यजुर्वेदिनः सन्ति बहवः । कृष्णयजुर्वेदस्य अध्ययनं विशेषतया दक्षिणभारते भवति । ऋग्वेदे दृश्यमानः पुरुषसूक्तः कैश्चित् परिवर्तनैः सह यजुर्वेदे अपि दृश्यते |

सामवेदः

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः ।
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च । पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्),
ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ),
पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च ।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम् । तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा: आसन् । प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽपि सप्तस्वराः एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः । सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।
वेदानां सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति । अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति |

Animesh’s blog

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s