( अथर्वा /नारायण ऋषि । अनुष्टुप् छन्द । जगतबीजपुरुषो देवता )
ॐ नमो महते नारायणाय ।।
सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवम् |
विश्वं नारायणं देवमक्षरं परमं प्रभुम् ||१||
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् |
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ||२||
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् |
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ||३||
नारायणः परं ब्रह्मतत्त्वं नारायणः परः |
नारायणः परो ज्योतिरात्मा नारायणः परः ||४||
नारायणः परो ध्याता ध्यानं नारायणः परः |
परादपि परश्चासु तस्माद्यस्तु परात्परः ||५||
यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा |
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ||६||
अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम् |
पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् ||७||
अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति |हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ||८||
सततं तु शिराभिस्तु लम्बत्याकोशसन्निभम् |
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् ||९||
तस्यमध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः |
सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमक्षयः कविः ||१०||
सन्तापयति स्वं देहमापादतलमस्तकम् |
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ||११||
नीलतोयदमध्यस्था विद्युल्लेखेव भासुरा |नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ||१२||
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः | स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ||१३||
अथातो योग जिह्वा मे मधुवादिनी |
अहमेव कालो नाहं कालस्य ||१४||
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णर्पिङ्गलम्
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ||१५||
॥ सुसंपूर्णम् ॥
Animesh’s blog