|| अथर्व विधानम् ||

पुष्कर उवाच-

शान्तातीतं गणं हुत्वा शान्तिम् आप्नोति मानवः | भैषज्यं च गणं हुत्वा सर्वान् रोगान् व्यपोहति || ( २,१२७.१ )

त्रिषप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते |
क्वचिन् नाअप्नोति च भयं हुत्वा चैवाभयं गणम्  || (२,१२७.२ )

न पराजायते राम गणं हुत्वापराजितम्  |
आयुष्यं च गणम् हुत्वा चापमृत्यूं व्यपोहति ||  (२,१२७.३ )

स्वस्तिम् आप्नोति सर्वत्र हुत्वा स्वस्त्ययनं गणं | श्रेयसा योगम् आप्नोति
तुदोषान्व्यपोहतिव्यपोहति ||   (२,१२७.४)

तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति | एतैर्दशगणैर्होमोह्य् अष्टादशसु शान्तिषु || (२,१२७.५)

वैष्णवी शान्तिर् ऐन्द्री च ब्राह्मी रौद्री तथैव च | वायव्या वारुणी चैव कौबेरी भार्गवी तथा || (२,१२७.६ )

प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता | मारुद्गणा च गान्धर्वी शान्तैर्नैऋतकी तथा || (२,१२७.७)

शान्तिर् आङ्गिरसी याम्या पार्थिवी च भृगूत्तम | एतास् तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा || (२,१२७.८)

यस् त्वा मृत्युर् इति ह्य् एतज्जप्तं मृत्युविनाशनं | हुत्वा च मातृनामानि कामान् एवम् अवाप्नुयात् || ( २,१२७.९)

सुपर्णस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते |
यस्येदं भूम्याम् इति च भूमिकामो जपेत् सदा || (२,१२७.१० )

पृथिव्याम् उत्तमो ऽसीति हुतं श्रैष्ठ्यप्रदं सदा |
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् || (२,१२७.११)

इन्द्रेण दत्तम् इत्य् एतत् सर्वबाधाविनाशनम् | हिरण्यवर्णा इति च स्नानं पापहरं भवेत || (२,१२७.१२ )

असितस्येति सर्वाणि विषघ्नानि भृगूत्तम | सरस्वतीति मन्त्रांश् च विषघ्नान्निर्विशेद् बुधः || (२,१२७.१३ )

शरभादीनि सर्वाणि पिशाचक्षपणानि च |
इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः || (२,१२७.१४ )

देवा मरुत इत्य् एतत्सर्वकामकरं भवेत् |
यमस्य लोकाद् इत्य् एतद्दुःस्वप्नशमनं परं || (२,१२७.१५ )

अग्नेर्व इति चाप्य् एतत्कथितं मन्युनाशनम् |
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः || (२,१२७.१६ )

इन्द्रं वयं वणिजम् इति पण्यलाभकरं परम् | कामो मे राज्ञञइत्य् एतत्स्त्रीणां सौभाग्यवर्धनम्  || (२,१२७.१७ )

भद्राय कर्णम् इत्य् एतत्कर्णप्रस्यन्दने जपेत् | भद्रास्य् अक्षिरोधे जाता कर्णप्रस्यन्दने तथा || (२,१२७.१८ )

तुब्यम् एव जरिमन्न् आयुष्यं तु हुतं भवेत् | आयातु मित्र इत्य् एतन् मित्रलब्धिकरं हुतम् || (२,१२७.१९ )

आशासानम् इदं जना मिश्रधान्येन होमयेत् | आधिपत्यम् अवाप्नोति सर्वत्र मनुजोत्तम || (२,१२७.२०)

अग्ने गोभिर्न इत्य् एतद् गवां वृद्धिकरं परम् | द्वादशाहं तु जुहुयात्पराकेण विशेषतः|| (२,१२७.२१)

शान्तो अग्निर्इतीत्य् एतद् ग्रामस्वास्थ्यकरं भवेत् | तस्माद् ग्रामान्मृदा कृत्वा वेदिसाम्यं समश्नुते || (२,१२७.२२)

विद्मास्य सर्वा चित्तानि राष्ट्रस्वीकरणानि तु | त्रिभ्यो रुद्रेभ्य इत्य् एतद् वास्तोष्पतम् उदाहृतम् || (२,१२७.२३)

ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् |
अच्युता द्यौस्तथा राम कथितं स्थानलाभदम् || (२,१२७.२४)

पयो देवेष्व् इति हुतं रायस्पोषकरं परम् |
युनक्रसीरेति शुना कृषिलाभकरं भवेत् || (२,१२७.२५ )

अयं ते योनिर् इत्य् एतत् पुत्रलाभकरं भवेत् | शुनं वत्सान् तथा ह्य्एतद्गवां वृद्धिकरं हुतं || (२,१२७.२६)

… मेति कथितं सर्वत्श्रैष्ठ्यकारकम् | अहं ते भग इत्य् एतद् भवेत्सौभाग्यवर्धनं || (२,१२७.२७)

ये ते पाशास् तथाप्य् एतद् बन्धनान्मोक्षकारकम् | यो न स्व इति चाप्य् एतच्छत्रुनाशकरं परम् || (२,१२७.२८)

सपत्नहनम् इति तथा नात्र कार्या विचारणा | त्वम् उत्तमम् इतीत्य् एतद् यशसो वर्धनं परम्  || (२,१२७.२९ )

यथा मृगो गोपयसि स्त्रीणां सौभाग्यवर्धनम् |
आ नो अग्न इत्य् एतच् च कथितं पतिलाभदम् || (२,१२७.३०)

येन वेहद् इषं चैव गर्भलाभकरं भवेत् |
इमं तपस्विन्न् इति तथा भवेत् सौभाग्यवर्धनम् || (२,१२७.३१ )

यत् पृथिव्या अनावृत्तं हुतम् एतद् यथाविधि | कृत्वा तु शंसनं ज्ञेयं नात्र कार्या विचारणा || (२,१२७.३२ )

शिवः शिवाभिर् इत्य् एतद् भवेच् छ्रेयस्करं परम् || (२,१२७.३३ )

कृत्यादूषण इत्य् एतत् कृत्यादूषणम् उच्यते |
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् || (२,१२७.३४)

मनोन्व् एदम् अभयदं पथि स्वस्त्ययनं भवेत् | अयं नो अग्निर् अध्यक्षो भवेद् अग्निप्रसादत: || (२,१२७.३५ )

संवत्सरं तु शिरसा धारयेद् यो हुताशनम् |मन्त्रम् एतज्जपेन्नित्यम् आग्नेयाशामुखः स्थितः | अनग्निज्वलनं कुर्याद् राम संवत्सरे गते || (२,१२७.३६ )

दूष्या दूषीत्त्य् एतज्जपेन्मन्त्रम् अनुत्तमम् | कुर्यात् प्रतिसराबन्धं सर्वदोषनिबर्हणम् || (२,१२७.३७ )

प्राणसूक्तञ् च कथितं तथा प्राणविवर्धनम् | मुञ्चामि त्वेति कथितम् अपमृत्युविमोक्षणम् || (२,१२७.३८)

अथर्वशिरसो ऽध्येता सर्वपापैः प्रमुच्यते |
परमं पावनं तद्धि सर्वकल्मषनाशनम् || (२,१२७.३९ )

एवम् एते शुभा मन्त्राः प्रतिवेदं मया तव | समासात् कथिता राम समुद्धृत्य प्रधानतः || (२,१२७.४० )

एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः | कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः || (२,१२७.४१ )

न ते शक्या महाभाग वक्तुं वर्षशतैर् अपि | प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम् || (२,१२७.४२)

होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव |
हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु || (२,१२७.४३ )

वृक्षाणां यज्ञियानान् तु समिधः प्रथमं हविः | आज्यञ् च व्रीहयश् चैव तथा वै गौरसर्षपाः || (२,१२७.४४)

अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव | दर्भास्तथैवदूर्वाश्च बिल्वानिकमलानि च || (२,१२७.४५ )

शान्तिपुष्टिकराण्य् आहुर्द्रव्याण्य् एतानि भार्गव | तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम् | समिधः कण्टकोपेता अभिचारेषु योजयेत्  || (२,१२७.४६ )

आर्षं वै दैवतं छन्दस्त्व् अविज्ञाय भृगूत्तम | मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् || (२,१२७.४७ )

छन्दसि ब्राह्मणे सूक्ते यद् अव्यक्तं प्रदृश्यते | विद्वद्भिः सह निश्चित्य तद्यज्ञम् अवतारयेत् || (२,१२७.४८ )

सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः | शाखां प्रति तथा तत्र तत्प्रमाणम् इति स्थितिः || (२,१२७.४९ )

यः स्वसूत्रम् अतिक्रम्य परसूत्रेण वर्तते |
अप्रमाणम् ऋषिं कृत्वा सो ऽप्य् अधर्मेण युज्यते || (२,१२७.५० )

तस्मात् सर्वप्रयत्नेन स्वसूत्रं न विलङ्घयेत् | प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यये द्विज | सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते || ( २,१२७.५१ )

आथर्वणो ऽयं कथितो विधिस् ते संक्षेपतो भार्गवांशमुख्य |
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष || (२,१२७.५२ )

|| इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने ऽथर्वविधिकथनं नाम सप्तविंशत्युत्तरशततमो ऽध्यायः ||

Animesh’s blog

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s