pAncharAtra svastIvAchana mantra

image

स्वस्तयेऽस्तुसदाविष्णुः स्वस्तयेऽस्तु चतुर्मुखः | स्वस्तयेऽस्तुसदावह्निः स्वस्तयेऽस्तु यमस्सदा || १ ||

स्वस्तयेऽस्तु निऋर्त्याख्यः स्वस्तये वरुणोऽस्तु नः | स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः || २ ||

स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः | स्वस्तये सन्तु वसवो रुद्राश्च स्वस्तये तथा || ३ ||

आदित्यास्स्वस्तये सन्तु मुनयस्स्वस्तये तथा | गन्धर्वास्स्वस्तये सन्तु स्वस्तये सन्तु किन्नरः || ४ ||

स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः | स्वस्तये सन्तु विश्वेशाः स्वस्तयेऽप्सरसस्सदा || ५ ||

स्वस्तये सन्तु नद्यश्च स्वस्तये सन्तु सागराः | स्वस्तये सन्तु शैलश्च वेदाश्च स्वस्तये तथा || ६ ||

स्वस्तये मातरस्सन्तु पितरस्स्वस्तये तथा | देवपारिषदास्सर्वे स्वस्तये सन्तुनस्सदा || ७ ||

स्वस्ति भागवतानाम्तु स्वस्ति चाप्यग्रजन्मनाम् | स्वस्ति वैष्णवानां तु स्वस्ति चैव गवामपि || ८ ||

स्वस्ति वै स्थावराणां तु जङ्गमानां तथैव च | स्वस्तिचैवाथ मन्त्राणां स्वस्तिवैकर्मणां अपि || ९ ||

(सनत्कुमारे ऋषिरात्रे ६;४०-४९)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s