तारोपनिषत्

अथ तारोपनिषत्


तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम्
महत्सत्यन्तदहंह्रींकारं
रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कारंविशदाभम्मद्धृदयरूपं
भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल्
अद्रूपम्मन्मस्तकंवेदा मद्धस्ताश्चन्द्रार्कानला
मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ संवत्सरो
मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो
मदङ्गुल्यो विद्याम्न्नखाः पावको
मन्मुखम्महीमद्रसना
द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म
रसम्मद्रुधिरंवान्नंवासांसि फलानि निरहङ्कारा
अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ
मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः
क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि | एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं
बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मंविद्धि शिरःउग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्रकृतिम्मांविदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्रंयो
जपति मद्रूपकल्पितांयो जपति भगम्भजति निर्विकल्पः
साधकः सदा मद्रूपो भवति || सर्वाणि कर्माणि साध्यानि
निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा
इमामुपनिषद्विद्याम्प्राप्य माम्यो जपति स जीवन्मुक्तो
भवति ||

|| इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता
||

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s