rUdrayAmalokta navavarsha kritya

rUdrayAmala is one of densely discussed tantric treatise. It is used as a source by many other Agamas but the original and complete treatise appears to be lost. First patal of rUdrayAmala Uttara khanda mentions complete index to treatise.
( kindly refer to foot note )
It indicates rUdrayAmala was a vast treatise but in present, we have only Uttara khanda of it and some fragments of purva khanda preserved in various manuscripts and tantrik nibhanDha granthas.The following is a fragment of rUdrayAmala preserved among tradition of kashmIrI brAhmans.It have description of how to celebrate new year ( nava varsha ) and what should be done on this specific day.
image

image

image

Foot note:-

Following sholkas from rUdrayAmala uttara tantra, first patala describes of all subjects covered in this tantra.But this list don’t mention specific portions like vigyAna bhairava tantra , parAtrimshikA , rasa tantra, vishvasAra tantra , gaurI tantra , haragaurI tantra etc which claims to be portions of rUdrayAmala.

आदौ बालाभैरवीणां साधनं षट्कलात्मकम् |
पश्चात् कुमारीललितासाधनं परमाद्भुतम् || १-१० ||

कुरुकुल्लाविप्रचित्तासाधनं शक्तिसाधनम् |
योगिनीखेचरीयक्षकन्यकासाधनं ततः || १-११ ||

उन्मत्तभैरवीविद्या–कालीविद्यादिसाधनम् |
पञ्चमुद्रासाधनञ्च पञ्चबाणादिसाधनम् || १-१२ ||

प्रत्यङ्गिरासाधनञ्च कलौ साक्षात्करं परम् |
हरितालिकास्वर्णविद्याधूम्रविद्यादिसाधनम् || १-१३ ||

आकाशगङ्गा विविधा कन्यकासाधनं ततः |
भ्रूलतासाधनं सिद्धसाधनं तदनन्तरम् || १-१४ ||

उल्काविद्यासाधनं च पञ्चतारादिसाधनम् |
अपराजितापुरुहूताचामुण्डासाधनं ततः || १-१५ ||

कालिकासाधनं कौलसाधनं घनसाधनम् |
चचीकासाधनं पश्चात् घर्घरासाधनं ततः || १-१६ ||

विमलासाधनं रौद्रीत्रिपुरासाधनं ततः |
सम्पत्प्रदासप्तकूटासाधनंचेटीसाधनम् |
शक्तिकूटादिषट्कूटानवकूटादिसाधनम् || १-१७ ||

कनकाभाकाञ्चनाभावह्न्याभासाधनं ततः |
वज्रकूटापञ्चकूटासकलासाधनं ततः || १-१८ ||

तारिणीसाधनं पश्चात् षोडशीसाधनं स्मृतम् |
छिन्नादि–उग्रप्रचण्ड्यादिसाधनं सुमनोहरम् || १-१९ ||

उल्कामुखीरक्तमुखीसाधनं वीरसाधनम् |
नानाविधाननिर्माणशवसाधनमेव च || १-२० ||

कृत्वा देवीसाधनञ्च कृत्वाहिसाधनं ततः |
नक्षत्रविद्यापटलं कालीपटलमेव च || १-२१ ||

श्मशानकालिकादेवीसाधनं भूतसाधनम् |
रतिक्रीडासाधनञ्च सुन्दरीसाधनं तथा || १-२२ ||

महामालासाधनञ्च महामायादिसाधनम् |
भद्रकालीसाधनञ्च नीलासाधनमेव च || १-२३ ||

भुवनेशीसाधनञ्च दुर्गासाधनमेव च |
वाराहीगारुडीचान्द्रीसाधनं परमाद्भुतम् || १-२४ ||

ब्रह्माणीसाधनं पश्चाद् हंसीसाधनमुत्तमम् |
माहेश्वरीसाधनञ्च कौमारीसाधनं तथा || १-२५ ||

वैष्णवीसाधनं धात्रीधनदारतिसाधनम् |
पञ्चाभ्राबलिपूर्णास्या नारसिंहीसुसाधनम् || १-२६ ||

कालिन्दीरुक्मिणीविद्याराधाविद्यादिसाधनम् |
गोपीश्वरीपद्मनेत्रापद्ममालादिसाधनम् || १-२७ ||

मुण्डमालासाधनञ्च भृङ्गारीसाधनं ततः |
सकलाकर्षणीविद्याकपालिन्यादिसाधनम् || १-२८ ||

गुह्यकालीसाधनञ्च बगलामुखीसाधनम् |
महाबालासाधनञ्च कलावत्यादिसाधनम् || १-२९ ||

कुलजाकलिकाकक्षाकुक्कुटीसाधनं महत् |
चिञ्चादेवीसाधनञ्च शाङ्करीगूढसाधनम् || १-३० ||

प्रफुल्लाब्जमुखीविद्याकाकिनीसाधनं ततः |
कुब्जिकासाधनं नित्यासरस्वत्यादिसाधनम् || १-३१ ||

भूर्लेखाशशिमुकुटा–उग्रकाल्यादिसाधनम् |
मणिद्वीपेश्वरीधात्रीसाधनं यक्षसाधनम् || १-३२ ||

केतकीकमलाकान्तिप्रदाभेद्यादिसाधनम् |
वागीश्वरीमहाविद्या अन्नपूर्णादिसाधनम् || १-३३ ||

वज्रदण्डारक्तमयीमन्वारीसाधनं तथा |
हस्तिनीहस्तिकर्णाद्यामातङ्गीसाधनं ततः || १-३४ ||

परानन्दानन्दमयीसाधनं गतिसाधनम् |
कामेश्वरीमहालज्जाज्वालिनीसाधनं वसोः || १-३५ ||

गौरीवेतालकङ्कालीवासवीसाधनं तथा |
चन्द्रास्यासूर्यकिरणारटन्तीसाधनं ततः || १-३६ ||

किङ्गिनी पावनीविद्या अवधूतेश्वरीति च |
एतासां सिद्धविद्यानां साधनाद्रुद्र एव सः || १-३७ ||

अलकाकलियुगस्थाशक्तिटङ्कारसाधनम् |
हरिणीमोहिनीक्षिप्रातृष्यादिसाधनं तथा || १-३८ ||

अट्टहासाघोरनादामहामेघादिसाधनम् |
वल्लरीकौरविण्यादिसाधनं परमाद्भुतम् || १-३९ ||

रङ्किणीसाधनं पश्चाद् नन्दकन्यादिसाधनम् |
मन्दिरासाधनं कात्यायनीसाधनमेव च || १-४० ||

रजनीराजतीघोनासाधनं तालसाधनम् |
पादुकासाधनं चित्तासाधनं रविसाधनम् || १-४१ ||

मुनिनाथेश्वरीशान्तिवल्लभासाधनं तथा |
मदिरासाधनं वीरभद्रासाधनमेव हि || १-४२ ||

मुण्डालीकालिनीदैत्यदंशिनीसाधनं ततः |
प्रविष्टवर्णालघिमामीनादिसाधनं महत् || १-४३ ||

फेत्कारीसाधनं भल्लातकीसाधनमद्भुतम् |
उड्डीयानेश्वरीपूर्णागिरिजासाधनं तथा || १-४४ ||

सौकरीराजवशिनीदीर्घजङ्घादिसाधनम् |
अयोध्यापूजितादेवीद्राविणीसाधनाद्भुतम् || १-४५ ||

ज्वालामुखीसाधनञ्च कृष्णजिह्वादिसाधनम् |
पञ्चवक्त्रप्रियाविद्यानन्तविद्यादिसाधनम् || १-४६ ||

श्रीविद्याभुवनेशानीसाधनं कायसाधनम् |
रक्तमालामहाचण्डीमहाज्वालादिसाधनम् || १-४७ ||

प्रक्षिप्तामन्त्रिकाकामपूजिताभक्तिसाधनम् |
श्वासस्थावायवीप्राप्तालेलिहानादिसाधनम् || १-४८ ||

भैरवीलसितापृथ्वीवाटुकीसाधनं तथा |
अगम्या–आकुलीमौलीन्द्राञ्जनमन्त्रसाधनम् || १-४९ ||

कुलावतीकुलक्षिप्तारतिचीनादिसाधनम् |
शिवाक्रोडादितरुणीनायिकामन्त्रसाधनम् || १-५० ||

साधनं शैलवासिन्या अकस्मात् सिद्धिवर्धनम् |
मन्त्रयन्त्रस्वतन्त्रादिपूज्यमानाः परात्पराः || १-५१ ||

एताः सर्वाः कलियुगे कालिका हरकोमलाः |
मन्त्राद्या येन सिद्धयन्ति सत्यं सत्यं न संशयः || १-५२ ||

महाकाल शिवानन्द परमानन्दपारग |
भक्तानामनुरागेण विद्यारत्नं पुनः शृणु || १-५३ ||

आदौ वैष्णवदेवस्य मन्त्राणां नित्यसाधनम् |
ततस्ते मङ्गलं मन्त्रसाधनं परमाद्भुतम् || १-५४ ||

अकस्माद्विहिता सिद्धिर्येन सिद्ध्यति भूतले |
बालभैरवयोगेन्द्रसाधनं शिवसाधनम् || १-५५ ||

महाकालसाधनञ्च तथा रामेश्वरस्य च |
अघोरमूर्त्ते रमणासाधनं शृणु यत्नतः || १-५६ ||

क्रोधराजभूतराजएकचक्रादिसाधनम् |
गिरीन्द्रसाधनं पश्चात् कुलनाथस्य साधनम् || १-५७ ||

बटुकेशादिश्रीकण्ठेशादिसाधनमेव च |
मृत्युञ्जयस्य रौद्रस्य कालान्तकहरस्य च || १-५८ ||

उन्मत्तभैरवस्यापि तथा पञ्चास्यकस्य च |
कैलासेशस्य शम्भोश्च तथा शूलिन एव च || १-५९ ||

भार्गवेशस्य सर्वस्य महाकालस्य साधनम् |
सुरान्तकस्य पूर्णस्य तथा देवस्य शङ्कर || १-६० ||

हरिद्रागणनाथस्य वरदेश्वरमालिनः |
ऊर्ध्वकेशस्य धूम्रस्य जटिलस्यापि साधनम् || १-६१ ||

आनन्दभैरवस्यापि बाणनाथस्य साधनम् |
करीन्द्रस्य शुभाङ्गस्य हिल्लोलमर्दकस्य च || १-६२ ||

पुष्पनाथेश्वरस्यापि वृषनाथस्य साधनम् |
अष्टमूर्त्तेः कालमूर्त्तेश्चन्द्रशेखरसाधनम् || १-६३ ||

क्रमुकस्यापि घोरस्य कुबेराराधितस्य च |
त्रिपुरान्तकमन्त्रस्य कमलाक्षस्य साधनम् || १-६४ ||

इत्यादिसिद्धमन्त्राणां मन्त्रार्थं विविधं मुदा |
उदितं तद्विशेषेण सुविस्तार्य शृणुष्व तत् || १-६५ ||

इन्द्रादिदेवता सर्वा येन सिद्ध्यन्ति भूतले |
तत्प्रकारं महादेव सावधानोऽवधारय || १-६६ ||

उपविद्यासाधनञ्च मन्त्राणि विविधानि च |
नानाकर्माणि धर्माणि षट्कर्मसाधनानि च || १-६७ ||

श्रीरामसाधनं यक्षसाधनं योगसाधनम् |
सर्वविद्यासाधनञ्च राजज्वालादिसाधनम् || १-६८ ||

मन्त्रसिद्धिप्रकारञ्च हनुमत्साधनादिकम् |
विषज्वालासाधनञ्च पाताललोकसाधनम् || १-६९ ||

भूतलिपिप्रकारञ्च तत्तत्साधनमेव च |
नवकन्यासाधनञ्च अष्टसिद्धिप्रकारकम् || १-७० ||

आसनानि च अङ्गानि साधनानि बहूनि च |
कात्यायनीसाधनानि चेटीसाधनमेव च || १-७१ ||

कृष्णमार्जारसिद्धिश्च खड्गसिद्धिस्ततः परम् |
पादुकाजङ्घसिद्धिश्च निजजिह्वादिसाधनम् || १-७२ ||

संस्कारगुटिकासिद्धिः खेचरीसिद्धिरेव च |
भूप्रवेशप्रकारत्वं नित्यतुङ्गादिसाधनम् || १-७३ ||

स्तम्भनं दारुणं पश्चादाकर्षणं मुनेरपि |
नानाविधानि देवेश औषधादीनि यानि च || १-७४ ||

हरितालादिसिद्धिश्च रसपारदसाधनम् |
नानारससमुद्भूतं रसभस्मादिसाधनम् || १-७५ ||

वृद्धस्य तरुणाकारं साधनं परमाद्भुतम् |
वैजयन्तीसाधनञ्च चरित्रं वासकस्य च || १-७६ ||

शिवाचरित्रमश्वस्य चरित्रं वायसस्य च |
कुमारीणां प्रकारं तु वज्राणां वारणं तथा || १-७७ ||

सम्पत्तिसाधनं देशसाधनं कामसाधनम् |
गुरुपूजाविधानञ्च गुरूसन्तोषसाधनम् || १-७८ ||

निजदेवाराधनञ्च निजसाधनमेव च |
वारुणीपैष्टिकीगौडीकैतकीमाध्विसाधनम् || १-७९ ||

स्वदेहगमनं स्वर्गे मर्त्ये मर्त्यैश्च दुर्लभम् |
शरीरवर्धनञ्चैव कृष्णभावस्य साधनम् || १-८० ||

नयनाकर्षणञ्चैव कालसर्पस्य दर्शनम् |
रणक्षोभप्रकारञ्च पञ्चेन्द्रियनिवारणम् || १-८१ ||

योगविद्यासाधनञ्च भक्षप्रस्थनिरूपणम् |
चान्द्रायणव्रतञ्चैव शृणु तद्योगसिद्धये || १-८२ ||

यामलाग्रेण शंसन्ति यानि सर्वाणि कानि च |
ब्रह्माण्डे यानि वस्तूनि सर्वत्र दुर्लभं शिवम् || १-८३ ||

येऽभ्यस्यन्ति महातन्त्रं बालाद्वा मन्त्रतोपि वा |
यामलं मम वक्त्राम्भोरुहसुन्दरसंभवम् || १-८४ ||

अतिगुह्यं महागुह्यं शब्दगुह्यं निराकुलम् |
नानासिद्धिसमुद्राणां गृहं योगमयं शुभम् || १-८५ ||

शास्त्रजालस्य सारं हि नानामन्त्रमयं प्रियम् |
वाराणसीपुरपतेः सदामोदं सुखास्पदम् || १-८६ ||

सरस्वतीदैवतं यत् कालीषु शिखरे वृतम् |
महामोक्षं द्वारमोक्षं सर्वसंकेतशोभितम् || १-८७ ||

वाञ्छाकल्पद्रुमं तन्त्रं शिवसंस्कारसंस्कृतम् |
अप्रकाश्यं क्रियासारं सहस्रस्तुतिराजितम् || १-८८ ||

अष्टोत्तरशतं नाम सहस्रनाममङ्गलम् |
नानाद्रव्यसाधनादिविधृताञ्जनरञ्जितम् || १-८९ ||

कालीप्रत्यक्षकथनं कालीषोढादिसंपुटम् |
महाचमत्कारकरं स्थितिसंहारपालकम् || १-९० ||

अष्टादशप्रकारञ्च षोढायाः सौख्यमुक्तये |
ये जानन्ति महाकालं यामलं कलिपावनम् || १-९१ ||

आब्रह्मस्तम्बपर्यन्तं करे तस्य न संशयः |
तत्प्रकारमहं वक्ष्ये निगमागममङ्गलम् || १-९२ ||

यस्माद्रुद्रो भवेज्ज्ञानी नानातन्त्रार्थपारगः |
यामिनीविहितं कर्म कुलतन्त्राभिसाधनम् || १-९३ ||

महावीरहितं यस्मात् पञ्चतत्त्वस्वरूपकम् |
लंघनं नास्ति मे नाथ अस्मिन् तन्त्रे सुगोपनम् || १-९४ ||

ततो यामलमाख्यातं चन्द्रशेखर शङ्कर |
रुद्राक्षं साधनोत्कृष्टं शतयागफलप्रदम् || १-९५ ||

मनःसन्तोषविपुलं यामलं परिकीत्तीतम् |
रुरुकादिभैरवाणां ब्राह्मीदेव्याश्च साधनम् || १-९६ ||

जाम्बूनदलताकोटिहेमदासाधनं यतः |
मनसासाधनं यत्र लङ्कालक्ष्मीप्रसाधनम् || १-९७ ||

देवतानाञ्च कवचं नानाध्यानव्रतं महत् |
अन्तर्यागविधानानि कलिकालफलानि च || १-९८ ||

भाति यत्नप्रभाकारं प्रायश्चित्तविमर्षणम् |
पटलं त्रिंशता व्याप्तं ये पठन्ति निरन्तरम् || १-९९ ||

अवश्यं सिद्धिमाप्नोति यद्यदिच्छति भूतले |
कर्मणा मनसा वाचा महातन्त्रस्य साधनम् || १-१०० ||

करोति कमलानाथकरपद्मनिषेवितम् |
ज्ञात्वा सर्वधरं तन्त्रं सम्पूर्णं लोकमण्डले || १-१०१ ||

प्राप्नोति साधकः सिद्धिं मासादेव न संशयः |
नानाचक्रस्य माहात्म्यं नानाङ्कमण्डलावृतम् || १-१०२ ||

सर्वज्ञसिद्धिशतकं खण्डकालीकुलालयम् |
तरुणादित्यसंकाशं वनमालाविभूषितम् || १-१०३ ||

दैवतं परमं हंसं कालकूटाशिनं प्रभुम् |
आदौ ध्यात्वा पूजयित्वा नमस्कुर्याद् महेश्वरम् |
प्रथमारुणसङ्काशं रत्नालङ्कारभूषितम् |
वरदं वारुणीमत्तं परमहंसं नमाम्यहम् || १-१०४ ||

भैरव उवाच

यदि न पठ्यते तन्त्रं यामलं सर्वशङ्करम् |
तदा केन प्रकारेण साधकः सिद्धिभाग्भवेत् || १-१०५ ||

केचिच्च बुद्धिहीनाश्च मेधाहीनाश्च ये जनाः
मन्दभाग्याश्च धूर्ताश्च मूढाः सर्वापदावृताः || १-१०६ ||

प्राप्नुवन्ति कथं सिद्धिं दया जाता कथं वद |
तेषु मूर्खेषु हीनेषु शास्त्रार्थवजीतेषु च || १-१०७ ||

Advertisements