महाकाल भैरव ध्यान

अवन्तिनगर सम्राट जयतु महाकाल

image

श्रीमच्चन्द्रकलावतंसिमुकुटां ज्वालापरीताननं शङ्खाब्जासि गदाधरं त्रिनयनं ब्रह्मादि देवैः
स्तुतम् । देवीं तुर्यदले स्थितां भगवतीं श्यामां स्मरन्तं हृदाध्यायेद्भैरवनाथमग्नि सदृशं देवीं
महाकालकम् ॥१॥

बालार्ककोटि द्युतिमिन्दुवक्त्रां किरीटहारैरुपशोभितं प्रभुम् । कालं प्रियं भक्तजनैकमित्त्रं हृदि स्मरे भैरवनायकं तम् ॥२॥

श्यामवर्णं महाकायं महाकालं त्रिलोचनम् ।नीलकण्ठं सुतेजस्कं नेत्रत्रय विभूषितम् ॥३॥

खड्गचर्मधरं देवं वरदाभयपाणिकम् । शूलहस्तं च खट्वाङ्गधारिणं मन्त्रनायकम् ॥४॥

पिनाकहस्तं देवेशं तोमरं विभ्रतं विभुम् । प्राशपट्टि सहस्तं च भैरवं तु सदा स्मरेत् ॥५॥

एवं विधेन ध्यानेन मनसा चिन्तयेद्विभुम् ।श्मशानस्तो महारुद्रो महाकालो दिगम्बरः ॥६॥

कपालकर्तृके वामे शूलखट्वाङ्ग दक्षिणे । भुजङ्गभूषिताङ्गोपि भस्मास्थि मणिमण्डितः ॥७॥

ज्वलत्पावक मध्यस्थो भस्मशय्याव्यवस्थितः ।
विपरेतरतां तत्र कालिकां हृदयोपरि ॥८॥

Advertisements