॥ अथर्ववेदीय त्वरित रूद्र सुक्त ॥

( रुद्रदेवत्या । आथर्वणस्य वा नारायणस्य अर्षम् ॥ )

image
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकरस्त्वं विष्णोः परमं पदम् ।

ॐ सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु  ।  पुरुषो वै रुद्रस्तन्महो नमो नमः  । 
विश्वं भूतं भव्यं भुवनं चित्रं बहुधा जातं जायमानं च यत्  ।  सर्वो ह्येष रुद्रस्तस्मै
रुद्राय नमो अस्तु  ॥१॥

कद्रुद्राय प्रचेतसे मीह्ळुष्टमाय तव्यसे  ।  वोचेम शन्तमं हृदे  ।  सर्वो ह्येष
रुद्रस्तस्मै रुद्राय नमो अस्तु  ॥२॥

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये  ।  अम्बिकापतय उमापतये नमो नमः  ॥३॥

Animesh’s Blog