The very following sAmaveda sandhyA prayoga is prevalent among the sAmagas of north ( belonging to kauThuma shAkhA and rAyAyanIya shAkhA ) especially among srImAli brAhman community . Sources of this prayoga are chhAndOga parishishTha of kAtyAyana maharshi , subhodhinI paddhatI and kaukila-mata. First two works don’t need any introduction let me throw some light on last , kaukila-mata an authoritative smrUtI text of sAmaveda by kaukila rAjaputra rishI which is lost , as claimed by srImAlI brAhman community .This brAhman community have disregard towards gautama maharshI and his smrutI work i.e. gautama smrutI due to an old age dispute of settlement in srImAla desha , kankola nAga is patron deity to this sAmavedins and kaukila maharshI is main authority for them. kaukila maharshI ( or specifically kaukila rAjaputra rishI ) as his original name suggest he was a prince ( belonging to kshatriya cast ) who was later raised to position mantradrUshtA rishI ( bramrIshI ) . I remember he is seer for mantras regarding the sautrAmanI sacrifice and is seer of famous ‘draupadA gAyatrI’ or ‘draupadI gAyatrI’ of vAjasaneya yajur veda. This prayoga seems to deviate with those prevalent among sAmavedIns of south India ( having authority of gautama maharshI ). A dense influence of vAjasaneya yajur veda is there on kauThumas of north , among there rituals too . This sandhya prayoga differs slightly with suklayajurveda one otherwise it is same . Probably kaukila maharshI and his sAmaveda followers ( i.e. srImAli brAhmans ) have some pseudo relationship with vAjasaneyIs .
(तत्र सव्यहस्ते कुशत्रयं दक्षिणहस्ते कुशद्वयं धृत्वा आचम्य )
“मम् उपात्तदुरितक्षयार्थं ब्रह्मवर्चसतेजकामार्थं प्रातः सन्ध्योपासनमहं करिष्ये”
( इति संकल्प्य, दक्षिणहस्तेन जलामादय, प्रदक्षिणं परितः सिंञ्चनात्मरक्षां कुर्यात्।
ततः ऋष्यादीन् संस्मृत्य मार्जनं कुर्यात्।)
ॐकारस्यब्रह्मा ऋषिः दैवी गायत्री छन्दः अग्निर्देवता सर्व कर्मारम्भे विनियोगः। व्यहृतीनां विश्वामित्र-जमदग्नि-भरद्वाजा गायत्र्युषि्णगनुष्टुवग्निवायुसूर्याः, तत्सवितुर्विश्वामित्रो गायत्री सविता, आपोहिष्ठेति तिसृणां सिन्धुद्वीपो गायत्र्यायः मार्जने विनियोगः।’
( ततो दक्षिणहस्ते कुशत्रयमादाय, जलाशयस्थं स्थले पात्रस्थं वामहस्तस्थं वा कुशाग्रैर्ज्जलमादाय, मार्जनं कुर्यात्। )
ॐभूर्भुवःस्वःतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।
ॐ आपो हि ष्ठा मयो भुवः।
ॐ ता न ऊर्जे दधातन।
ॐ महे रणाय चक्षसे।
ॐ यो वः शिवतमो रसः।
ॐ तस्य भाजयते हनः।
ॐ उशतीरिव मातरः।
ॐ तस्मा अरङ्गमामवो।
ॐ यस्य क्षयाय जिन्वथ।
ॐ आपो जनयथा च नः।
( एभिर्मन्त्रैःशिरसि मार्जनं कृत्वा ध्यानावाहन कुर्यात् )
गायत्री रक्तांगी रक्तवाससा । अक्षसूत्रधरादेवी कमण्डलुसमन्विता ॥
हंसस्कंधसमारूढातथाचब्रह्मदेवता। कुमारी ऋग्वेदमुखी ब्रह्मणा सहआवह॥
आयाहि वरदे देवी त्र्यक्षरे ब्रह्मवादिनी । गायत्रिच्छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते ॥
ततः प्राणायामः
भूरादीनां विश्वामित्रजमदग्निभरद्वाज गौतमाऽत्रिवसिष्ठकश्यपाः ऋषयः, गायत्र्युषि्णगनुष्टुप्वृहतीपंक्तित्रिष्टुब्जगत्योऽग्निवायुसूर्यबृहस्पतिवरुणेन्द्र विश्वेदेवाः,
तत्सवितुर्विश्वामित्रो गायत्री सविता, आपो ज्योतिः प्रजापतिर्यजुर्ब्रह्माग्निवायुसूर्याः प्राणायामे विनियोगः। (ततोऽअँगुष्ठतर्जनीभ्यां नासापुटद्वयं धृत्वा, मुखनासासंञ्चारिणंवायु निरुन्ध्य, मनसा भूरादि जपन्प्राणायामं कुर्यात् )
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि । धियोयोनःप्रचोदयात । ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूऽर्भुवः स्वरोम् ॥
( एवं त्रिरावृत्या एकः प्राणायामः । इत्थं प्राणायाम त्रयं कृत्वा आचमनं कुर्यात )
सूर्यश्चेति नारायण ऋषिः प्रकृति छन्दः सूर्यो देवता आचमने विनियोगः ।
( ततो हस्ते जलमादाय )
ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकारिषं मनसा वाचा हस्ताभ्यां पद्भ्या मुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ॥
(इति मन्त्रेणाचम्य तूष्णीं द्विराचामेत् । ततोऽञ्जलीमक्षेपः। हस्तेनैकेन जलमादाय )
ऋतंञ्चेघमर्षणोंऽनुष्टुब्भाववृतः अघमर्षणे विनियोगः ।
ॐऋतञ्चसत्यंचाभीद्धात्तपसोऽध्यजायत । ततो रात्र्थजायत ततः समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायतः । अहोरात्राणिविदधद्विश्वस्य भिषतो वशी ॥
( इमं मन्त्रमायतासुः सकृदनायतासुर्वा त्रिःपठित्वा, जलं प्रक्षिप्योत्थाय,हस्ताभ्यां जलामादाय, सप्रणवव्याहृतिकां गायत्रीमुञ्चार्य सूर्याभिमुखोऽञ्जलित्रयं प्रक्षिपेत् । ततः प्रदक्षिणमवृत्त्याचम्य, स्वस्तिका कृतिकृतहस्तः सूर्यमुपतिष्ठेत् ।)
उदुत्यं प्रस्कण्वो गायत्री सूर्यः,चित्रङ्कुत्सस्त्रिष्टुप् सूर्यः उपस्थाने विनियोगः ।
ॐ उदुत्यंजातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यंम्॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याऽग्नेः। आप्राद्यावा पृथिवी अंतरिक्ष ग्वं सूर्यं आत्मा जगतस्तस्थुषश्च॥
ततः प्रणवव्याहृति गायत्रीणामृष्यादिन्पूर्ववत्स्मृत्वा ‘जपे विनियोगः’ इत्युक्त्वा, करमालया नाभौ उत्तानघृतकरो मौनी प्रणवव्याहृति युतां गायत्रीमष्टोत्तरशतमष्टाविंशति वा सजप्य संकल्पं कुर्यात्। ‘अनेन गायत्र्यामत्कृतेन जाप्येन ब्रह्मात्मा रविः प्रीयताम् न मम्’।
उत्तर शिखरे जाता भूम्यां पर्वतवासिनी। ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम् ॥
इति विसृज्य द्विराचामेत् ।
Animesh’s Blog