अथर्ववेद पैप्पलादशाखीय अन्नप्राशन प्रयोग ( aTharva veda paippalAda shAkhIya annaprAshana prayoga )

ततः तम् ओदनं कांस्यभाजने  घृतपायसपूपदधिगुडादिनानाव्यञ्जनसहितं  कृत्वा  तस्य  समीपे हिरण्यपुस्तकमृत्तिकादीन्  यथाकुलधर्मेणोपकल्पयेत्  शान्त्युदकेनाचमनाभ्युक्षण च  ॐ  शिवौ तेस्तां  (PS-१६.४.८-९)  व्रीहियवौ ऋग्भ्यां  प्रथमप्राशनेन  कुमारं  प्रशयेत्  |  ॐ  शिवौ  ते  स्तां  व्रीहियवौ अबलासाव्  अधोमधौ |  एतौ  यक्ष्मं  वि  बाधेते  एतौ  मुञ्चतो  माश्हसः    ||१||  (PS  १६.४.८)  यद्  अश्नासि  यद् पिबसि  धान्यं  कृष्याः  पयः  |  यद्  आद्यं  यद्  अनाद्यं  सर्वं  ते  अन्नम् अविषं  कृणोमि  ||२||  (PS  १६.४.९)  ततः  अह्ने  चत्वा  (PS  १६.४.१०)  इत्य्  ऋचा  अहोरात्राभ्यां  त्वा तु  परिददामीति  उक्त्वा  अहोरात्राभ्याम्  अग्रम्  अन्नं  प्राशयेत्  |    द्वितीयं  प्राशनं  इदं  |  ॐ  अह्ने  च  त्वा  रात्रये    चोभाभ्यां  परि  दध्मसि  | अरायेभ्यो  जिघत्सुभ्य  इमं नः परि  रक्षता    (PS  १६.४.१०)  |  ततः    शरदे  त्वा  (PS  १६.५.२)  मन्त्रेण  ऋतुभः  परिददामीत्य्  उक्त्वा  | ददाति  |  प्राशनम्  इदं  तृतीयम्  |  शरदे  त्वा  हेमन्ताय  वसन्ताय  ग्रिष्माय  परिदध्मसि | वर्षाणि  तुभ्यं  स्योनानि  येषु  वर्द्धन्त  ओषधिः  |  (PS  १६.५.२)  ततः  यथामुखं बालकं  प्राशयेत्  |  तदनन्तरं  बालकं  हिरण्यादीन्  उपढौकयेत्  |  बालकः    यद्वस्तुं संगृह्नाति  स  तस्य  भाजनम्  इति  जानीयात्  |  ततः नक्षत्रकल्पोक्तं  उत्तरतन्त्रं  स्वस्तिवाचनञ्च  कुर्य्यात्  |  लोकस्तु व्रीहियवान् एव  कांस्यादिपत्रे  निधाय  ॐ  शिवौ  ते  स्ताम्  इति  मन्त्रेण  प्राशनं  कारयति |

||  इति कर्मसमुच्चये   सप्तजातसंस्थाध्याये अन्नप्राशनं  ||

Next  he  mixes in  a  copper  pot  this  rice  with  various  flavours  such  as  ghee,  milk,  wheat,  sour  milk,  and molasses.  Near  this pot  he  gets  ready  a  piece  of  gold,  a  book,  clods  of  earth,  etc,  as  per the  family’s  custom,  and having  done the  sipping  and  the  sprinkling  with  pacifying  water he  should  feed  the  child  with  the  first  solid  food  while  reciting  the  two  verses  of  the  hymn “Propitious  to  thee  be  the  rice  and  barley”  (PS  16.4.8-9).  “Propitious  to  thee  be  rice  and barley,  free  from  balAsa,  causing  no  burning;  these  drive  off  the  yakshama;  these  free  from distress.  What  thou eatest,  what  thou drinkest,  of  grain,  milk of  the  ploughing what  should be  eaten,  what  should  not  be  eaten all  food  I  make  for  thee  poisonless.”  (PS  16.4.8-9)  Next,  with  the  verse  “Both  to  day  and  to  night”  (PS  16.4.10),  having  uttered “I  commend  you  to  day  and  night!”,  he  should  feed the  child the  first  bite for the  sake of  the  day and  night.  This  is  the  second  feeding.  “Both  to  day  and  to  night,  to  them  both we  commit  thee.  Defend  ye  this  man  for  me  from  the Arayas  that  seek  to  devour him .” (PS  16.4.10) Next,  with  the  mantra  “Unto  autumn  thee”  (PS  16.5.2),  having uttered  “I  commend  you  to  the  seasons!”  he  gives the  child  a  bite.  This  is  the  third feeding.  “Unto  autumn,  unto  winter,  unto  spring,  unto  summer,  we  commit  thee;  [be]  the rains  pleasant  to  thee,  in  which  the  herbs  grow.”  (PS  16.5.2)  Next,  he  should feed  the  child  as  per  the  latter’s  capacity.  Afterwards  he  should  offer  the  child  gold,  etc. The  thing  that  child  grasps,  that  is  his  share,  thus  it  is  known.  Next,  he  should  perform  the second  part  of  the  tantra,  which  is  prescribed  by  the  nakshatra kalpa ,  and  the  recitation  of auspicious verses.  Nevertheless  people  put  only  rice  and  barley  in  a  copper  pot  and  so  on and  with  the  hymn  “Propitious  to  thee  be  the  rice  and  barley”  (PS  16.4.8-9)  perform  the first  feeding. 

|| Hence concludes in karmasamuchhaya , jAtasaMsTha chapter , the annaprAshana ||

@ Google drive
paippalAda annaprAshana

Animesh’s Blog

Advertisements

shukla yajurveda agnimukhaM prayoga

यजमानहस्तप्रमाणं चतुरस्त्रं चतुरंगुलोन्नतं स्थंडिलं विरच्य आचय पवित्रपाणिः देशकालौ संकीर्त्य अमुकहोमं कर्तुं स्थंडिलादिसर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलं गोमयेन प्रदक्षिणमुपलिप्य उल्लिखेदुदगायामामिति यज्ञीयशकलमूलेन षडलेखा लिखित्वा तच्छकलं लेखासु निधाय स्थंडिलमद्भिरभ्युक्ष्य शकलमाग्नेय्यां निरस्य पाणिं प्रक्षाल्य वाग्यतो भवेत् । ततस्तैजसेन मृन्मयेन वा पात्रद्वयेन संपुटीकृत्य सुवासिन्या स्वगृहात्समृद्धं निर्धूममग्निमानीतं स्थंडिलादाग्नेय्यां निधाय – एह्येहि सर्वामरहव्यवाह मुनिप्रवर्यैरभितोऽभिजुष्ट तेजोवता लोकगणेन सार्द्धं ममाध्वरं पाहि कवे नमस्ते । इत्यक्षतैरावाह्य आच्छादनं दूरीकृत्य आत्माभिमुखं कृत्वा अमुकनामानमग्निं प्रतिष्ठापयामि इत्यग्निं प्रतिष्ठाप्य [ अग्नयानीतपात्रे साक्षतोदकं निषिच्य ] प्रोक्षितेंधनानि निक्षिप्य वेणुधमन्या प्रबोध्य ध्यायेदेवम् – सप्तहस्तश्चतुः शृंग० त्रिपात् प्रसन्न० स्वाहां तु० बिभ्रद्दक्षिणहस्तैस्तु० तोमरं व्यजनं० आत्माभिमुख० अग्ने वैश्वानर शांडिल्यगोत्र मेषध्वज प्राड्मुखो देव मम संमुखो वरदो भव इति ध्यायेत् । ततोऽन्वाधानं कुर्यात् । तद्यथा – समिद्द्वय – मादाय देशकालौ स्मृत्वा क्रियमाणे अमुकहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये । अस्मिन्नन्वाहितेऽग्नौ जातवेदसमग्निमिध्मेन प्रजापतिं प्रजापतिं चाघारदेवते आज्येन अग्नीषोमौ चक्षुषी आज्येन । अत्र प्रधानं – अमुकदेवतां अमुकद्रव्येण अमुकसंख्याभिराहुतिभिः शेषेण स्विष्टकृतमग्निमिध्मसन्नहनेन रुद्रं अयासं अग्निं देवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं च एताः प्रायश्चित्तदेवता आज्येन ज्ञाताज्ञातदोषनिबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन विश्वान्देवान्संस्रावेण अंगदेवताः प्रधानदेवताः सर्वाः सन्निहिताः संतु सांगोपांगेन कर्मणा सद्यो यक्ष्ये । प्रजापतये नमः इति समिद्द्वयमग्नावाधाय प्रजापतय इदं नमम इति त्यजेत् । ततोऽग्नेरायतनादष्टांगुलपरिमिते देशे ऐशानीं दिशमारभ्य प्रदक्षिणं समंतात्सोदकेन पाणिना त्रिः परिमृज्य प्राच्यादिषु दर्भैः परिस्तृणीयात् । तद्यथा – पूर्वपश्चात्परिस्तरणमूलयोरुपरि दक्षिणपरिस्तरणं उत्तरपरिस्तरणं तु तदग्रयोरधस्तात् ते च दर्भा अनियतसंख्याका एकैकस्यां दिशि चत्वारश्चत्वार इति षोडश वा । ततोऽग्नेर्दक्षिणतो ब्रह्मासनार्थं उत्तरतश्च पात्रासादनार्थं कांश्चित्प्रागग्रान् दर्भानास्तृणीयात् । अग्नेरीशानीतस्त्रिरंभसा परिषिच्य उत्तरास्तीर्णेषु दर्भेषु दक्षिणसव्यपाणिभ्यां क्रमेण अमुकद्रव्यस्थालीप्रोक्षण्यौ दर्वीस्रुवौ प्रणीताऽऽज्यपात्रे इध्माबर्हिषी । केवलाज्यहोमे तु – प्रोक्षणीस्रुवौ प्रणीताऽऽज्यपात्रे इध्माबर्हिषी च इत्येतावतामेवासादनम् । ततः प्रोक्षणीपात्रमुत्तानं कृत्वा तत्र कुशद्वयरुपे पवित्रे निधाय शुद्धाभि रद्भिस्तत्पात्रं पूरयित्वा गंधाक्षतपुष्पादि क्षिप्त्वा उदगग्रे पृथक्पवित्रे धृत्वा अपस्त्रिरुत्पूय पात्राण्युत्तानानि कृत्वा इध्मं च विस्रस्य सर्वाणि पात्राणि त्रिः प्रोक्षेत् । प्रणीतापात्रमग्नेः प्रत्यडनिधाय तत्र पवित्रे निधाय उत्पूताभिरद्भिस्तत्पात्रं पूरयित्वा गंधपुष्पाक्षतान्निक्षिप्य मुखसममुद्धृत्य अग्नेरुत्तरतो दर्भेषु निधाय ते पवित्रे आज्यपात्रे निधाय आज्यपात्रं पुरतो निधाय तस्मिन्नाज्यमासिच्य अग्नेरुत्तरतोंऽगारेषु आज्यपात्रमधिश्रित्य ज्वलता दर्भोल्मुकेनावज्ज्वल्य अंगुष्ठपर्वमात्रं प्रक्षालितं दर्भाग्रद्वयमाज्ये क्षिप्त्वा पुनरुल्मुकेन तेनैव द्रव्येण सहाज्यं त्रिः पर्यग्निकृत्वा तदुल्मुकं निरस्यापः स्पृष्ट्वा तत्रस्थमेवाज्यं पवित्राभ्यां – सर्पिरेतत्पवित्राभ्यां यज्ञार्हमनवस्करम् । करोम्युत्पूयकिरणैः सूर्यस्य सवितुर्वसोः । इति मंत्रेण त्रिरुत्पूय पवित्रे अद्भिः प्रोक्ष्य अग्नावनुप्रहरेत्तूष्णीं स्कंदाय नम इति वा । अथाग्नेः पश्चात्परिस्तरणाद्बहिरात्मनोऽग्रतो भूमिं प्रोक्ष्य तत्र बर्हिः सन्नहनीं रज्जुमुदगग्रां प्रसार्य तस्यां बर्हिः प्रागग्रमुदगपवर्गमविरलमास्तीर्य तस्मिन्नाज्यपात्रं निधाय स्रुवादि संमृज्य दर्भानद्भिः प्रोक्ष्याग्नौ प्रहरेत् । ततो हविर्द्रव्यमाज्याद्द्दक्षिणतो बर्हिष्यासाद्य अभिघार्य अग्नेरेकादशांगुलपरिमिते देशे गंधाक्षतपुष्पैरग्निमर्चयेत् प्रागादित एवं – अग्नये नमः वैश्वानराय० वह्नये० वीतिहोत्राय० धनंजयाय० कृपीटयोनये० ज्वलनाय० जातवेदसे नमः । आत्मानं चालंकृत्य हस्तं प्रक्षाल्य इध्मबंधनरज्जुमिध्मस्थाने निधाय पाणिनेध्ममादाय मूलमध्याग्रेषु स्रुवेण त्रिरभिघार्य मूलमध्ययोर्मध्यभागे गृहीत्वा – भो जातवेदस्तव चेदमिध्ममात्मा प्रदीप्तो भव वर्धमानः । अस्मान् प्रजाभिः पशुभिः समृद्धान्कुरु त्वमग्ने धनधान्ययुक्तान् ॥ जातवेदसेऽग्नये नमः इति हुत्वा जातवेदसेऽग्नय इदं नमम इति त्यजेत् । तत आघारहोमः अग्नेरुपर्याज्येन वायव्यकोणमारभ्याग्नेयकोणपर्यंतं मनसा प्रजापतये नमः इति उपांशु हुत्वा प्रजापतय इदं नमम इति त्यक्त्वा पुनस्तथैव नैऋत्यकोणमारभ्यईशानीकोणपर्यन्तं हुत्वा त्यक्त्वा च । आज्यभागौ दद्यात् । तद्यथा – स्रुवेणाज्यमादाय अग्नये नमः इत्युत्तरपार्श्वे हुत्वा अग्नय इदं नमम इति त्यक्त्वा पुनराज्यं सोमाय नमः इत्यग्निदक्षिणपार्श्वे तत्समप्रदेशे हुत्वा सोमाय नमः इति त्यजेत् । अथ यथाऽन्वाधानं प्रधानदेवताहोमं कृत्वा स्विष्टकृद्धोमं कुर्यात् । यथा – दर्व्यामाज्यमुपस्तीर्य हविः शेषादवदाय दर्व्यामोप्य पात्रमस्थभिघार्य – दर्वीस्थं द्विरमिघार्य – समधिकमपिहीनं जातमस्मिन् क्रतौ यद्भवतु सुकृतमग्ने तद्धिसर्वं सुपूर्णं । प्रचुर दयितदात्रे स्विष्टकृत्तो जुहोमीदमथसकलकामान्वर्धय त्वं सदा मे ॥ स्विष्टकृतेऽग्नये नम इति हुत्वा स्विष्टकृतेऽग्नय इदं नमम इति त्यजेत् । ततस्त्रिसंधानं रुद्राय नमः इति हुत्वा रुद्रायेदं नमम अप उपस्पृश्य प्रायश्चित्ताज्याहुतीर्जुहुयात् । तत्र मंत्राः – अग्ने तुभ्यमयोनाम्ने यज्ञस्यायाथमस्य वै ॥ प्रायश्चित्ताज्याहुतिं ते होष्यामीमां विभो नमः । इत्याज्याहुतिं हुत्वा अयासेऽग्नय इदं० । एवमग्नेऽपि । देवा यज्ञभुजो ये ते सांगं कुर्वंत्विमं क्रतुं । रक्षत्वस्मान् सदा यज्ञे तेभ्य आज्याहुतिं नमः । देवेभ्य इदं० ॥ यो विष्णुस्त्रिपदैः सर्वमाक्रम्य भुवनत्रयम् । अधितिष्ठति सर्वात्मा तस्मा आज्याहुतिं नमः । विष्णव इदं० ॥ अग्नये नमः अग्नय इदं० वायवे० वायव इदं० सूर्याय० सूर्यायेद० प्रजापतये० प्रजापतय इदं० ॥ यच्च ज्ञातं यदज्ञातं कृतं कर्माध्वरे मया । तद्दोषशमनायाग्ने तुभ्यमाज्याहुतिं ददे नम इति हुत्वा । अग्नय इदं० ॥ त्वं यज्ञपुरुषः साक्षादग्ने त्वं यज्ञ एव च । वैगुण्यदोषशांत्यर्थं तुभ्यमाज्याहुतिं नमः ॥ अग्नय इदं० ॥ कायेन मनसा वाचा जातं यत्किल्बिषं यदि । निषूदयाग्ने तत्सर्वं तुभ्यमाज्याहुतिं नमः । अग्नय इ० ॥ मंत्रतंत्रविपर्यासजातदोषनिबर्हणे ॥ प्रायश्चित्तार्थमाज्यस्य मरुद्भ्यस्त्वाहुतिं नमः । मरुद्भ्य इदं० ॥ विश्वेभ्यो देवेभ्यो नमः इति संस्रावं हुत्वा विश्वेभ्योदेवेभ्य इदं० । ततः पूर्णपात्रं बर्हिष्यानीय तत्र गंगादिपुण्यनदीः स्मरन् दक्षिणपाणिना स्पृशन् कुशाग्रैः प्रणीतोदकं प्रागादिपंचदिक्षु नाममंत्रैर्यथालिंगं सिंचेत् । तत्र मंत्राः – पूर्वस्यां दिशि ऋत्विग्भ्यो नमः । दक्षिणस्यां दिशि मासेभ्यः पितृभ्यो नमः ( अपः स्पृष्ट्वा ) पश्चिमस्यां दिशि ग्रहेभ्यः पशुभ्यो नमः । उत्तरस्यां दिशि अद्भ्य ओषधीभ्यो वनस्पतिभ्यो नमः । ऊर्ध्वायां दिशि यज्ञाय संवत्सराय प्रजापतये नमः । इति प्रतिदिशं सिक्त्वा कुशाग्रैः स्वशिरसि मार्जयेत् । आपः स्वभावतो मेध्याः शुद्धाः सर्वविशोधनाः । ता अस्मान्पूर्णपात्रस्थाः पूतान् कुर्वंतु मार्जिताः ॥ अपवित्रः पवित्रो वा० ॥ इति मार्जयित्वा निऋतिदेशे कुशाग्रैरपः सिंचेत् ॥ द्विषद्भ्यो नमः इति । ततो दक्षिणपाणिना पूर्णपात्रमादाय बर्हिषि उत्ताने वामपाणौ तज्जलं प्रत्यड्मुखं निषिच्य ता आपः समुद्रं गच्छंतीति ध्यात्वा पाणिस्थजलैरात्मानं पत्नीं च प्रोक्षेत् । ततोऽग्नेर्वायव्यदेशे तिष्ठन् उपस्थानं कुर्यात् – अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्धव्यवाहन । श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलं । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥ इत्युपस्थाय परिस्तरणानि विसृज्य परिसमूहनपयुर्क्षणे कृत्वा अग्निमभ्यर्चयित्वा नत्वा च विभूतिं गृहीत्वा ललाटाय नमः कंठाय नमः नाभ्यै नमः दक्षिणस्कंधाय नमः वामस्कंधाय नमः शिरसे नमः । स्वस्ति ॥ श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलं । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥ यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं संपूर्णतां याति सद्योऽग्निं वंदयाम्यहम् ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं हुताशन । यद्भुतं तु मया देव परिपूर्णं तदस्तु मे ॥ अनेन अमुकहोमाख्येन कर्मणा भगवान् अग्निरुपी परमेश्वरः प्रीयताम् । विष्णवे नम इति त्रिरुक्त्वा द्विराचामेत् ॥

Animesh’s Blog