Some shukla yajurveda texts

1) shuklayajurveda samhitA

( traditionally printed in original svara marking of shukla yajurveda , in contrast with normalized modern version )
a) shukla yajurveda part 1

b) shukla yajurveda part 2
c) shukla yajurveda part 3

2) shuka yajurvediya vivaha paddhati

3) nityakarama prayoga 

4) chudopanyana paddhati

5) narayana bali prayoga

6) dashakarma paddhati
( paddhati for 10 vedic samskarAs )

7) devapuja paddhati

8) karmakAnda bhAsakara

( all subjects related to karmakAnda including nitya and naimaitika )
a) karmakanda bhaskara part 1
b) karmakanda bhaskara part 2
c) karmakana bhaskara  part 3

9) aganisThApana paddhatI

a) agnisthapana prayoga part 1
b)agnisthapana prayoga part 2

10) shraddha paddhati

11) shukla yajurveda apara prayoga
( final rites in accordance with shukla yajurveda school ) 

a)shukla yajurveda apara prayoga part 1
b)shukla yajurveda apara prayoga part 2

12) shukla yajurveda ekodishTha srAddha prayoga
a) ekodishtha sraddha prayoga part 1
b) ekodishta sraddha prayoga part 2

13) graha shanti paddhati +prayoga

14) gayatri samgraha

15) godana paddhati

16) krushna janamastami puja prayoga

17) shukla yajurveda mantapa puja

a) shukla yajurveda mantapa puja part 1
b)shuklayajurveda mantapa puja part 2

18) shukla yajurveda upakaram prayoga

19) vasishthi upanayana paddhati

20) vasishthi vivaha paddhati

21) shukla yajurveda anhika sutrAvalI
( text on the daily rituals of  vAjasaneyas ) 

a) shukla yajurveda anhika sutrawali part 1
b) shuka yajurveda ahnika sutrawali part 2
c) shukla yajurveda anhika sutrawali part 3

Animesh’s Blog

अथर्ववेदीय शांत्युदक पद्धति (aTharvavedIya shantyudaka paddhati )

Shantydaka is an essential atharvanic rite preceding any main rite . The usage of the pacifying water and the rite for its preparation are specific to atharvavedic ritualism.
SutrabhAsyakAra says ” शान्त्युदकस्य प्रयोजनत्रितयं कल्पपञ्चके | पठितं सूत्रकारैश् च श्रौतस्मार्तेषु कर्मसु ||
कारयितुः प्रोक्षणाचमनद्वितयं सर्वदैव हि | अग्नीनां तु तथा कुर्यात् श्रौते स्मार्ते द्वितीयकम् ||
प्रोक्षणं वास्तुशालायास् तृतीयं परिकीर्तितम् | आप्लवनावसेचनानि सर्वाणि पठितानि च ||
शान्त्युदकेन कुर्वीत प्रयोजनैर् विना सदा | ” In the tradition of the atharvavedins ( panchakalpin is adjective to atharvavedins which literary mean those who have five ritual texts ) the employment of the pacifying water is threefold, mentioned by the kaushika in the srauta and domestic rites as well. Always in the sprinkling and the sipping of water by the sacrificer, then the second usage is when one kindles the fires in the solemn and the domestic rites, the third acknowledged employment is in the sprinkling in the ceremony of building a hall and in all the ablutions and sprinklingrites. One should perform with the pacifying water also without these employments. The ritual sutra have never seen something more useful than this. ”

( mulaM/orignal text Based on a manuscript ‘aTharvanIya grihya paddhati’ )

अथ शांत्युदकउच्यते || अथशब्दो आनंतर्यार्थः || अन्वारब्धाय शांत्युदकं करोति || दर्भैर् अन्वालभेत् || ततः अहतवासा | कर्त्ता अहतवसनो भुत्वा | कंसे सांत्युदकं करोति || अतिसृष्टो अपांवृषभ इति सूक्तेन  (१६.१) अविछिन्ना उदकधारा कांस्यपात्रम् अपो प्रक्षिपति  अवकरं विसर्जयति  | धारामध्ये किंचिछूश्नोदक कांसपात्रे बाह्ये विसर्जयति | धारापं उनावर्जं | तस्मिन् शांत्युदकमध्ये शाम्ताः शांत्यद्भिश्च प्रक्षिपति | व्रीहीयावौ प्रक्षिपति | ताः शांताः गोपथब्राह्मणे द्विविधा उक्ताः | एका आथर्वणीभिः |एका आंगीरसीभिः| तत्र दृष्टांतः | स खलु शान्त्युदकं चकाराथर्वणीभिः चांगिरसीभिश् चेति ब्राह्मणोक्तं  | तत्र या आथर्वणी सा कौशिकोक्ताः | शांताः | या आङ्गिरसी कपुर्विपर्वारोदाकावृक्कावतीनाडानिर्दहंतीति
आङ्गीरसीसंज्ञा वैतानोक्ताः | तत्र इष्टा कर्मविषये ग्राह्याः | आवसथ्याग्निहोत्रादि | या चित्याद्या ओषधी सा आथर्वणीसंज्ञा पंडितकेशवपद्धतिकारेण व्याख्यातं कृयते | सा कौशिकोक्ताः | इति तत्र आचार्य दक्षिणे हस्ते कांसपात्रे शांत्युदकं शांता ओषधीशांतौषधीभिः शांत्यद्भिश् च एकत्र करोति एताम् अंतरावर्जं | प्रथमं कर्त्ता ब्रह्माणं प्रछति | सर्वा इमा आप ओषधय इति स्प्र्ष्ट्वा | सर्वा इति ब्रह्माब्रवीत् | सर्वा इति किं | चित्यादिभिः सर्वाभिर् ओषधीभिः  | गङ्गादिसर्वाभिर् अद्भिः | समुद्रादिह्रदाः | प्रभासादितीर्थाभिः | सर्वाराहृताभिर्  | इति अर्थः | कर्त्ताब्रवीत् | ॐ बृहस्पतिः प्रसूतः करवाणि | ततो ब्रह्माब्रवीत् | सवितृ प्रसूतः | कुरुतां भवानीत्य् अनुन्यातः | शांत्युदकं करोति |  चित्याद्योषधी आह्वानयति | चित्तिः प्रायश्चित्तिः शमीशमिकाशवंशाशाम्यवाकातलाशापलाशावाप्साशींशपाशंबलसिपुनाकरीदर्ब्हः अपामार्ग आकृतिलोष्टमृत्तिकावल्मीकमृत्वपा दूर्वाप्रांतः व्रीहीयावाः शांताः | एषां ओषधीनां मध्ये यत् किंचिन् न लभ्यते तत् प्रतिनिधिः व्रीहीयावौ कुर्यात् | अस्य वचनं पैठीनसीपद्धतिकारः | उभयतः सावित्र्य् (RV ३.६२.१०) उभयतः शं नो देवी (१.६.१) | उभयतः किं अर्थं | शांत्युदक प्रारंभे समाप्तौ च शं नो देवी ( १.६.१) सावित्री (RV ३.६२.१०) चेति५३ प्रयोक्तव्या | यथा च भाष्यं | प्रारंभे शं नो देवी (१.६.१) सावित्री (RV ३.६२.१०) च | समाप्तेसावित्री पश्चात् | शं नो देवी (१.६.१) करोतीति  पंडितकेशवपद्धतिकारव्याख्यानं कृयते५६ | उभयतः सावित्री५७ (RV ३.६२.१०) शन् नो देवी (१.६.१) कर्त्तव्या (सिच्!) इति दारिलभाष्यकारमतं || पुनः कौशिकसूत्रकर्त्ता || सिद्धसुशमीनिबंधकृतं | दारिलो रुद्रभद्रौ च त्रयस् ते भाष्यकाराः | अस्य श्लोकसंगतिः | पुनः अंबयो यंतीत्यादिनि (१.४) द्वे गणे बृहद्गणेन वा लघुगणेन वा कुर्यात् | अन्यत्र चतुर्गणैर् वा कुर्यात् | गणप्रतीका कथ्यते | तत्सवितुर् इत्य् एकया (RV ३.६२.१०) शन् नो देवीत्य् एकया (१.६.१) || अंबयो यंती सूक्तम् (१.४) | शंभुमयोभू आपो हि ष्टा (१.५) शन् नो देवी (१.६) क्रमेण | तत्र वाश्चाकरणे अल्पाचूरम् इति पूर्वनिपातकृतसमासे | हिरण्य वर्णसूक्तं (१.३३) | शंतातीं उत देवासूक्तं (४.१३) | यद्य् अंतरिक्ष (७.६६) इत्य् एका पुनर् मैत्व् इंद्रियम् (७.६७) इत्य् एका शिवा न (७.६८.३) इत्य् एका शनो वातो वात्विका (७.६९) अग्निं ब्रूमो वनस्पतिन्६८ (११.६) इत्य् अर्थसूक्तं | तावत् पठित्वा यावत् यन् मातलीवर्जं (११.६.२३) || अत्र गोदाने विषये आयुर्दा इति (२.१३) सूक्तेन अनुयोजनं६९ | ततो मातली (११.६.२३) || पुनः सावित्री (RV ३.६२.१०) च शन् नो देवी (१.६.१) || ततः शांत्यै पडीगृहीत्वा पृथिव्यै श्रोत्रायेति (६.१०.१) त्ऋचेन शांत्युदकमध्ये शांत्युदक प्रक्षिपति | पुनः पृथिव्यै श्रोत्राये (६.१०) एवाग्निं संप्रोक्षति | पुनः पृथिव्यै श्रोत्रायेति (६.१०) तृचेनाग्निं पर्युक्षति | प्रत्यृचं | ततःमाणवकस्य आचामयति | च संप्रोक्षति | प्रत्यृचं | यत्र चूडाकरणं तत्र तुभ्यम् एवेति  सूक्तेनानुयोजयति | तथा च | उपनयनविषये | आ यातु मित्र  इति (३.८) सूक्तेनानुयोजयेत् | व्रतमोक्षविषये आपो दिव्या इति (७.८९) चतुरृचेनानुयोजनं | पश्चात् मातली (११.६.२३) सर्वत्र | यथादिष्टं तथा कुर्यात् | चलितदंतं पतितदंतं सावित्री अनुयोजितं (RV ३.६२.१०)| यद्य् एकादशाह्ने वृषोत्सर्गं करोति | तदा प्रथमं शान्त्युदकं कुर्यात् | अन्यत्र सर्वत्र वृषोत्सर्गः शांत्युदकवर्जं|| अत्र देशकालौ तौपदिष्टौ | तौ चान्यत्राचार्यप्रदर्शितौ ग्राह्यौ | यथा पंचमे वशां शमनविधौ || पश्चाद् अग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शांत्त्युदकं करोति || यथा च सप्तमे गोदानसंस्कारे नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च पश्चाद् अग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शांत्त्युदकं करोति || त्रिर् एवाग्निं संप्रोक्षति त्रिः पर्युक्षति त्रिः कारयमाणम् आचामयति चसंप्रोक्षति चेति || तेन सामान्यतोऽनादेशे सकलशांत्त्यादिकर्मसूभयतंत्रविधाव् आज्यभागांतेऽग्नेः पश्चात्प्राङ्मुखेन शांत्त्युदकं कार्यं || प्रयोजनं चास्य यावद्वचनं || अन्यत्र तु यत्र यथोपदिष्टं तथा कार्यम् इति शांत्त्युदकविधिः ||
|| इति लघुबृहछांत्त्युदकविधिः समाप्तः ||

image

Sources

1) aTharvanIya grihya paddhati Berline.
Mss. Accession no.1495 and 1496 in Verzeichnisse der Kgl.Bibliothek zu Berlin, vol. V: Verzeichniss der Sanskrit-PrakṛtHandschriften, vol. II, editor Albrecht Weber, 86-87. Berlin.

2) aTharvanIya grihya paddhati BORI
Ms. accession no. 1870-71, Pune: Bhandarkar Oriental Research Institute.

3) The Śāntyudakavidhi in the Atharvavedic Tradition by JULIETA ROTARU

Animesh’s Blog