vaishnava sandhyA prayoga for narshimha upAsakas

तत्रादौ स्वासने उपविश्व आचम्य तिलकं कुर्यात्। वैष्णवाचमनं यथा ।
ॐ केशवाय स्वाहा । नारायणाय स्वाहा । माधवाय स्वाहा । त्रिःपीत्वा ।
गोविन्दाय नमः । दक्षिणकरं प्रक्षाल्य । विष्णवे नमः । वामकरं प्रक्षाल्य ।
मधुसूदनाय नमः । ऊर्ध्वेष्ट्रे । त्रिविक्रमाय नमः । अधरोष्ट्रे । ॐ वामनाय नमः
ॐ श्रीधराय नमः । मुखं प्रक्षाल्य । ॐ ह्रषिकेशाय नमः । इति हस्तौ प्रक्षाल्य ।
ॐ पद्मनाभाय नमः पादयोः । दामोदराय नमः शिरसि । संकर्षणाय नमः मुखं स्पृशेत्।
वासुदेवाय नमः प्रद्युम्नाय नमः इत्यंगुष्ठ दशनीभ्यां नासापुट्योः ।
ॐ अनिरुध्दाय नमः पुरुषोत्तमाय नमः इत्यक्षिणी । ॐ अधोक्षजाय नमः
नृसिंहाय नमः कर्णो । अंगुष्ठनाभिकाभ्याम् । अच्युताय नमः
इत्यंगुष्ठकनिष्ठिकाभ्यां नाभौ । जनार्दनाय नमः । इति करतलेन ह्रदयम् ।
उपेन्द्राय नमः शिरसि । हरये नमः कृष्णाय नमः इत्यसौ सर्वाभिः ।
इति वैष्णवाचमनं विधाय तिलकं कुर्यात्। यथा । द्वारावतीमादाय ऊर्ध्वं पुंड्रं कुर्यात्।
केशवाय नमःनारायणाम नमः । ललाटे । माधवाय नमः गोविन्दाय नमः
उदरे । विष्णवे नमः मधुसूदनाय नमः ह्रदये नन्दकम् ।
त्रिविक्रमाय नमः वामनाय नमः कण्ठे ।
श्रीधराय नमः ह्रषिकेशाय नमः दक्षिणा भुजशंखम् ।
पद्मनाभाय नमः दामोदराय नमः दक्षिणस्कन्धे ।
संकर्षणाय नमः वासुदेवाय नमः दक्षिणकण्ठे ।
प्रद्युम्नाय नमः अनिरुध्दाय नमः वामभुजचक्रम् ।
पुरुषोत्तमाय नमः अधोक्षजाय नमः वामस्कन्धे ।
नारसिंहाय नमः अच्युताय नमः वामकण्ठे ।
जनार्दनाय नमः उपेन्द्राय नमः पृष्ठे ।
हरये नमः श्रीकृष्णाय नमः ककुदि मूर्ध्नि ।  शाङ्‌र्गबाणौ । तिलकविधिः । ततःतुलसीमालाधारणं कृत्वा ।
वैदिकसंध्यां कृत्वा । तान्त्रिकींमारभेत्। यथा आचम्य मूलेन ।
शिखादि बद्‌ध्वा गुर्वादिवन्दनपूर्वकं प्राणायामत्रयं कृत्वा ।
ऋष्यादि करषडंगं कृत्वा ।
सूर्यमण्डले यतोक्तं श्रीनृकेसरी मूर्तिं ध्यात्वा स्वपुरतः पात्रांतरे जलमापूर्य ।
गंगेचेति मन्त्रेण क्रों इत्यंकुशमुद्रया तत्र सवितृमण्डलात्तीर्थान्यावाह्य
तज्जलं लवमित्यमृतबीजेन धेनुमुद्रयामृतीकृत्य मूलेन त्रिः अभिभन्त्र्य
तत्प्रवक्ष्यमाणो श्री लक्ष्मीनृसिंहयंत्रं विलिख्य तत्र श्री नृकेसरिमूर्तिमावाह्य ॥
गन्धदिभिः सम्पूज्य ।
पूर्ववदाचम्य श्रीनृकेसरिप्रीत्यर्थ्यं प्रातः सन्ध्यावन्दंन करिष्येति संकल्प्य ॥
तज्जलं वामहस्ते गृहीत्वा दक्षिणानामिकाभ्यां तेन जलेन सकृन्मूलं जप्त्वा दिशांतादिभिः ॥
मातृकाभिरात्मानं प्रोक्ष्यावशिष्टं तत्पुनः दक्षिण हस्ते गृहीत्वा ईड्यान्तः
समाकृष्य तध्दौत पारसंचयं कृष्णवर्णं पिंगलया विरेच्य पुरः कल्पितवज्रशिलायां
पूर्ववदास्फाल्य पुनः पूर्ववदाचम्यांजलिना तज्जलमापूर्य सूर्यायार्ध्यं दद्यात्॥
यथा ।
र्‍हीं हंसः श्री सूर्य एषोर्ध्यः स्वाहेति त्रिरर्घ्हं दत्वा । तेनैव श्रीसूर्य तर्पयामि नमः ।
त्रिः संतर्प्य मूलं सूर्यमण्डलस्थान श्रीनृसिंहाय एषोर्ध्यः स्वाहेति त्रिरर्ध्यं दत्वा ।
श्री लक्ष्मीनृसिंह तर्पयामि इति मूलेनैव त्रिः संतर्प्य यथोक्तं
श्रीनृसिंह ध्यात्वा यथाशक्त्या गायत्रीमूलं प्रजप्य वक्ष्यामाणमन्त्रेण
जपं निवेद्य श्रीलक्ष्मीनृसिंह ध्यायन्प्रणमेत्॥ गायत्री यथा ॥
वज्रनखाय विद्महे तीक्ष्मदंष्ट्राय धीमहि ॥ तत्रो नारसिंह प्रचोदयात्॥
इति मूलं प्रजप्य दशाशं तर्पयोदिति प्रातः सन्ध्या ॥
एवमेवाशिष्टं सन्धाद्वयं कार्यं ऊहौ तत्तत्कालसन्ध्यां करिष्येति संकल्प ॥
अन्यत्सर्वं समानम् ॥ सन्ध्यात्रयस्यावश्यकत्वमकरणे प्रत्यवायश्रवणात्॥

Animesh’s Blog

2 thoughts on “vaishnava sandhyA prayoga for narshimha upAsakas

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s