aTharvaveda amAvasya tarpan prayoga

Following is aTharvaveda amAvasya tarpan prayoga  based on the tarpan parishisTha of aTharvavedaM . Although  parishisTha mentions caturdashI ( 14 th of dark moon ) but caturdashI is considered as baudhAyana amAvasya .

ओम् अथ तर्पणविधिम् अनुक्रमिष्यामः ||
स्नातोपस्पर्शनकाले ऽवगाह्य देवतास्तर्पयति ||
Here with every namaH / namo a regular jalAnjalI  like in arghya of nitya sandhyA is to be performed , with yagnyopaviTha in upvitI ( regular )  position .

ॐ वसूनां नमो ब्रह्मणे नमो वैश्रवणाय नमो
धर्माय नमः कामाय नमो लोकाय नमो
देवाय नमो वेदाय नम ऋषिभ्यो नम
आर्षेयेभ्यो नमो  अङ्गिरोभ्यो नम
आङ्गिरसेभ्यो नमो  अथर्वेभ्यो नम आथर्वणेभ्यो नमो मरुद्भ्यो नमो
मारुतेभ्यो नमो  वसुभ्यो नमो
रुद्रेभ्यो नम आदित्येभ्यो नमः
सिद्धेभ्यो नमः साध्येभ्यो नम आप्येभ्यो नमो अश्विभ्यां नमो गुरुभ्यो नमो
गुरुपत्नीभ्यो नमः पितृभ्यो नमो
मातृभ्यो नमः ||

Now tarpan to devtAs should be performed . jalAnjali  is to be offered once , with yagnyopaviTha in upvitI ( regular )  position .

      || अथ देवाः  ||

अग्निस्तृप्यतु ||
वायुस्तृप्यतु ||
सूर्यस्तृप्यतु ||
विष्णुस्तृप्यतु ||
प्रजापतिस्तृप्यतु ||
विरूपाक्षस्तृप्यतु ||
सहस्राक्षस्तृप्यतु ||
सोमस्तृप्यतु ||
ब्रह्मा तृप्यतु ||
देवास्तृप्यन्तु ||
वेदास्तृप्यन्तु ||
ऋषयस्तृप्यन्तु ||
आर्षेयास्तृप्यन्तु ||
सर्वाणि छन्दांसि तृप्यन्तु ||
ओम्कारवषट्कारौ तृप्यताम् ||
महाव्याहृतयस्तृप्यन्तु ||
सावित्री तृप्यन्तु ||
गायत्री तृप्यतु ||
द्यावापृथिव्यौ तृप्यताम् ||
यज्ञास्तृप्यन्तु ||
ग्रहास्तृप्यन्तु ||
नक्षत्राणि तृप्यन्तु ||
अन्तरिक्षं तृप्यतु ||
अहोरात्राणि तृप्यन्तु ||
संख्यास्तृप्यन्तु ||
संध्यास्तृप्यन्तु ||
समुद्रास्तृप्यन्तु ||
नद्यस्तृप्यन्तु ||
गिरयस्तृप्यन्तु ||
केषेत्रौषधिवनस्पतयस्तृप्यन्तु ||
गन्धर्वाप्सरसस्तृप्यन्तु ||
नागास्तृप्यन्तु ||
वयांसि तृप्यन्तु ||
सिद्धास्तृप्यन्तु ||
साध्यास्तृप्यन्तु ||
विप्रास्तृप्यन्तु ||
यक्षास्तृप्यन्तु ||
रक्षांसितृप्यन्तु ||
मन्त्रास्तृप्यन्तु ||
भूतान्य् एवमादीनि तृप्यन्तु ||
श्रुतिं तर्पयामि ||
स्मृतिं तर्पयामि ||
धृतिं तर्पयामि ||
रतिं तर्पयामि ||
गतिं तर्पयामि ||
मतिं तर्पयामि ||
दिशं तर्पयामि ||
विदिशं तर्पयामि ||
श्रद्धामेधे तर्पयामि ||
धारणां तर्पयामि ||
गोब्राह्मणांस्तर्पयामि ||
स्थावरजङ्गमानि तर्पयामि ||
सर्वान्देवांस्तर्पयामि ||
सर्वभूतानि तर्पयामि ||

【यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति । अञ्जली द्विर्द्विः ||
】With yagnyopaviTha in nivitI position ( like garland ) jalAnjali  is to be offered twice .

सनकस्तृप्यतु||
सनन्दनस्तृप्यतु ||
सनातनस्तृप्यतु ||
कपिलस्तृप्यतु ||
वोढस्तृप्यतु ||
आसुरिस्तृप्यतु ||
पञ्चशिखस्तृप्यतु ||
सनन्दनं तर्पयामि ||
ससनकं तर्पयामि ||
विद्वांसं सनातनं तर्पयामि ||
सनत्कुमारं तर्पयामि ||
सनकं तर्पयामि ||
सहदेवं सनातनं तर्पयामि ||
प्लुतिं तर्पयामि ||
पुलस्त्यं तर्पयामि ||
पुलहं तर्पयामि ||
भृगुं तर्पयामि ||
अङ्गिरसं तर्पयामि ||
मरीचिं तर्पयामि ||
क्रतुं तर्पयामि ||
दक्षं तर्पयामि ||
अत्रिं तर्पयामि ||
वसिष्ठं तर्पयामि ||
मानसांस् तर्पयामि ||

【अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस्तर्पयति l  अञ्जलीं त्रींस्त्रीन्  ||  】

Facing dakshina ( south ) direction with yagnyopaviTha in prachinAvitI positiojalAnjali  is to be offered thrice .

शतर्चिनस्तृप्यन्तु ||
माध्यमिकास्तृप्यन्तु ||
गृत्समदस्तृप्यतु ||
विश्वामित्रस्तृप्यतु ||
अघमर्षणस्तृप्यतु ||
वामदेवस्तृप्यतु ||
अत्रिस्तृप्यतु ||
भरद्वाजस्तृप्यतु ||
वसिष्ठस्तृप्यतु ||
प्रगाथास्तृप्यन्तु ||
पावमान्यस्तृप्यन्तु ||
क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ||
शुनस्तृप्यतु ||
जैमिनिस्तृप्यतु ||
वैशम्पायनस्तृप्यतु ||
पाणिनिस्तृप्यतु ||
पैलस्तृप्यतु ||
सुमन्तुस्तृप्यतु ||
भाष्यगार्ग्यौ तृप्यताम् ||
बभ्रुबाभ्रव्यौ तृप्यताम् ||
मण्डुमाण्डव्यौ तृप्यताम् ||
गार्गी तृप्यतु ||
वाचक्नवी तृप्यतु ||
वडवा तृप्यतु ||
प्रातिथेयी तृप्यतु ||
सुलभा तृप्यतु ||
मैत्रेयी तृप्यतु ||
कहोलं तर्पयामि ||
कौषीतकिं तर्पयामि
महाकौषीतकिं तर्पयामि ||
सुयज्ञं तर्पयामि ||
शाङ्खायनं तर्पयामि ||
महाशाङ्खायनं तर्पयामि ||
आश्वलायनं तर्पयामि ||
ऐतरेयं तर्पयामि ||
महैतरेयं तर्पयामि ||
पैठीनसिं तर्पयामि ||
मधुछन्दांसि तृप्यन्तु ||
भारद्वाजं तर्पयामि ||
जातूकर्ण्यं तर्पयामि ||
पैङ्ग्यं तर्पयामि ||
महापैङ्ग्यं तर्पयामि ||
शाकलं तर्पयामि ||
बाष्कलं तर्पयामि ||
गार्ग्यं तर्पयामि ||
माण्डुकेयं तर्पयामि ||
पैङ्ग्यस् तृप्यतु ||
महापैङ्ग्यस् तृप्यतु ||
मदमित्रं तर्पयामि ||
महामदमित्रं तर्पयामि ||
औदवाहं तर्पयामि ||
सौयामिं तर्पयामि ||
शौनकिं तर्पयामि ||
पैठीनसिं तर्पयामि ||
महापैठीनसिं तर्पयामि ||
शाकपूणिं तर्पयामि ||
ये चान्य आचार्यास् तान्सर्वांस्तर्पयामि ||

|| प्रतिपुरुषं पितरः ||

यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् | एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ||
आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः | उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ||
नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् | तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ||
परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् | मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ||

पितृवंशस्तृप्यतु ||
मातृवंशस्तृप्यतु ||

  || अथ वसवः ||

धरस्तृप्यतु ||
ध्रुवस्तृप्यतु ||
सोमस्तृप्यतु ||
आपस्तृप्यतु ||
अनलस्तृप्यतु ||
अनिलस्तृप्यतु ||
प्रत्यूषस्तृप्यतु ||
प्रभासस्तृप्यतु ||

  || अथ रुद्राः ||

मृगव्याधस्तृप्यतु ||
सर्पस्तृप्यतु ||
निरृतिर्महाशयस्तृप्यतु ||
अज एकपात्तृप्यतु ||
अहिर्बुध्न्यस्तृप्यतु ||
पिनाकी परंतपस्तृप्यतु ||
भुवनस्तृप्यतु ||
ईश्वरस्तृप्यतु ||
कपाली महाद्युतिस्तृप्यतु ||
स्थाणुस्तृप्यतु ||
भवो भगवांस्तृप्यतु ||  

   || अथ आदित्याः ||

भगस्तृप्यतु ||
अंशस्तृप्यतु ||
अर्यमा तृप्यतु ||
मित्रस्तृप्यतु ||
वरुणस्तृप्यतु ||
सविता तृप्यतु ||
धाता तृप्यतु ||
त्वष्टा तृप्यतु ||
पूषा तृप्यतु ||
विवस्वान्महाबलस्तृप्यतु ||
इन्द्रस्तृप्यतु ||
विष्णुस्तृप्यतु ||

  || अथ देवपितरः ||

कव्यवालं तर्पयामि ||
अनलं तर्पयामि ||
अनिलं तर्पयामि ||
सोमं तर्पयामि ||
यमं तर्पयामि ||
अर्यमणं तर्पयामि ||
अग्निष्वात्तांस् तर्पयामि ||
सोमपांस् तर्पयामि ||
बर्हिषदस् तर्पयामि ||

Here with every namaH / namo a regular jalAnjalI  like in arghya of nitya sandhyA is to be performed , with yagnyopaviTha in prAchinAvitI  position .

ॐ यमाय नमो धर्मराजाय नमो मृत्यवे नमो
अन्तकाय नमो वैवस्वताय नमः कालाय नमश्चित्राय नमश्चित्रगुप्ताय नमः सर्वभूतक्षयाय नमः कृताय नमः कृतान्ताय नमो  महोदराय नमो धात्रे नमो विधात्रे नमो यमेभ्यो नमो यमदूतेभ्यो नमः ||

|| अथ यमदूताः ||

विश्वेशास्तृप्यन्तु ||
सिकतास्तृप्यन्तु ||
पृश्निजास्तृप्यन्तु ||
नीलास्तृप्यन्तु ||
शृङ्गिणस्तृप्यन्तु ||
श्वेतास्तृप्यन्तु ||
कृष्णास्तृप्यन्तु ||
अजास्तृप्यन्तु ||

|| तर्पण फलं  ||

एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयंभुवा | श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ||

        || सुसंपूर्णम् ||

Animesh’s Blog

Advertisements

॥ उच्छिष्टमहागणपती स्तवराजः ॥

देव्युवाच ॥

पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥
केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥
षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४॥
भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्‍चते यः ।
गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५॥
शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६॥
पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतूहलेन ।
विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७॥
लम्बोदरो देवकुमारसङ्घै क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८॥
आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेशः ॥ ९॥
निरन्तरं सङ्कृतदानपट्टे लग्नां तु गुञ्‍जद्भ्रमरावलीं वै ।
तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १०॥
विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११॥
स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२॥
स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः ।
प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३॥
सिञ्‍चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४॥
आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५॥
हेरम्ब उद्यद्रविकोटिकान्तः पञ्‍चाननेनापि विचुम्बितास्यः ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १६॥
द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा ।
दन्तं पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥ १७॥
क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८॥
वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९॥
इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः ।
संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०॥

॥ इति श्रीरुद्रयामलतन्‍त्रे हरगौरीसंवादे
उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥

Animesh’s Blog