विकटनृसिंहकवचम्

श्री नृसिंहाय नमः ।

ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहलाद ऋषिः  अनुष्टुभ् छन्दः जीवो बीजं  अनन्तशक्तिः परमात्मा कीलकम्  श्रीनृसिंहदेवता प्रीत्यर्थे  विनियोगः ।

शत्रुहानिपरोमोक्षमर्थदिव्य न संशयः ।

|| अथदिग्बंधः ||

पूर्वेनृसिंह रक्षेश्च ईशान्ये उग्ररुपकम् ।
उत्तरे वज्रको रक्षेत् वायव्यांच महाबले ।।
पश्चिमे विकटो रक्षेत् नैऋत्यां अग्निरुपकम् । उत्तरे वज्रको रक्षेत् वायव्यांच महाबले ।।
पश्चिमे विकटो रक्षेत् नैऋत्यां अग्निरुपकम् । दक्षिणे रौद्र रक्षेच्च घोररुपंच अग्नेय्याम् ।।
ऊर्ध्व रक्षेन्महाकाली अधस्ताद्दैत्यमर्दनः । एताभ्यो दशदिग्भ्यश्च सर्वं रक्षेत् नृसिंहकः ।।

ॐ क्रीं छुं नृं नृं र्‍हीं र्‍हीं रुं रुं स्वाहा ॥

ॐ नृसिंहायनमः ।
ॐ वज्ररुपाय नमः ।
ॐ कालरुपाय नमः ।
ॐ दुष्टमर्दनायनमः ।
ॐ शत्रुचूर्णाय नमः ।
ॐ भवहारणाय नमः ।
ॐ शोकहराय नमः ।
ॐ नरकेसरी वुं हुं हं फट् स्वाहा ।
ॐ छुं छुं नृं नृं रुं रुं स्वाहा ।
ॐ वुं वुं वुं दिग्भ्यः स्वाहा ।
ॐ नृसिंहाय नमः ।
ॐ र्‍हं र्‍हं र्‍हं नृसिंहांय नमः ।

|| इति दिग्बंधनमन्त्रः ||

|| अथ न्यासः ||

ॐ अं ऊं अंगुष्ठाभ्यां नमः ।
ॐ नृं नृं नृं तर्जनीभ्यां नमः ।
ॐ रां रां रां मध्यमाभ्यां नमः ।
ॐ श्रां श्रां श्रां अनामिकाभ्यां नमः ।
ॐ ईं ईं कनिष्ठिकाभ्यां नमः ।
ॐ भ्रां भ्रां भ्रां करतलकरपृष्ठाभ्यां नमः ।
ॐ व्रां व्रां व्रां ह्रदयाय नमः ।
र्‍हां र्‍हां र्‍हां शिरसे स्वाहा ।
ॐ क्लीं क्लीं क्लीं शिखायै वौषट् ।
ॐ ग्रां ज्रां ज्रां कवचाय हुम् ।
ॐ श्रीं श्रीं श्रीं नेत्रत्रयायै वौषट् ।
ॐ आं आं अस्त्राय फट् ।

अथ नमस्कृत्य ।

ॐ नृसिंहकालाय कालरुपघोराय च । नमो नृसिंहदेवाय कारुण्याय नमो नमः ।।

ॐ रां उग्राय नमः ।
ॐ धारकाय उग्राय उग्ररुपाय ।
ॐ ऊं धारणाय नमः ।
ॐ बिभीषणभद्राय नमो नमः ।
ॐ करालाय नमः ।
ॐ वज्ररुपाय नमः  ।
ॐ ॐ ॐ ॐ काररुपाय नमः ।।
ॐ ज्वालारुपाय नमः ।।
ॐ परब्रह्मतो नृं रां रां रां नृसिंहाय सिंहरुपाय नमोनमः ।।
ॐ नरकेसरी रां रां खं भीं नृसिंहाय नमः अकारः सर्व संराजतु विश्वेशीविश्वपूजितो ।।
ॐ विश्वेश्वराय नमः ।।
ॐ र्‍हों स्त्रां स्त्रां स्त्रां सर्वदेवेश्वरी निरालम्बनिरंजननिर्गुणसर्वश्वैव तस्मै नमस्ते ।।
ॐ रुं रुं रुं नृसिंहाय नमः ।।
ॐ औं उग्राय उग्ररुपाय उग्रधराय ते नमः ।।
ॐ भ्यां भ्यां विभीषणाय नमस्ते नमस्ते । भद्राय भद्र रुपाय भवकराय ते नमो नमः ।।
ॐ व्रां व्रां व्रां वज्रदेहाय वज्रतुण्डाय नमो भव वज्राय वज्रनखाय नमः ।।
ॐ र्‍हां र्‍हां र्‍हां हरित क्लीं क्लीं विष सर्वदुष्टानां च मर्दनं दैत्यापिशाचाय अन्याश्च महाबलाय नमः ।।
ॐ र्‍लीं र्‍लीं लृं कामनार्थं कलिकालाय नमस्ते कामरुपिणे ।।
ॐ ज्रां ज्रां ज्रां ज्रां सर्वजगन्नाथ जगन्महीदाता जग्न्महिमा जगव्यापिने देव तस्मै नमो नमः ।।
ॐ श्री श्रीं श्री श्रीधर सर्वेश्वर श्रीनिवासिने ।।
ॐ आं आं आं अनन्ताय अनन्तरुपाय विश्वरुपाय नमः ।।
नमस्ते विश्वव्यापिणे ।।
|| इति स्तुतिः ||

ॐ विकटाय नमः ।
ॐ उग्ररुपाय नमः स्वाहा ।
ॐ श्रीनृसिंहाय उद्विघ्नाय विकटोग्रतपसे लोभमोहविवर्जितं त्रिगुणरहितं उच्चाटनभ्रमितं सर्वमायाविमुक्तं सिंह रागविवर्जित विकटोग्र नृसिंह नरकेसरी ॐ रां रां रां रां रां र्‍हं र्‍हं क्षीं क्षीं धुं धुं फट् स्वाहा ॥

।। श्री महानृसिंहमन्त्रकवच सम्पूर्णमस्तु ।।
।। शुभमस्तु ।।

|| नृसिंहार्पणमस्तु ||

Animesh’s Blog

शक्तिसूत्राणि ( agastya shaktI sutrANI )

Like brahmasutra  , shiva sutra ganpatI sutra there is a small treatise called shaktI sutra . This shaktI sutra describes brAhman as shaktI with  shAkta point of view having mixture of ‘trika’ , shAkta & vedAntic philosophies. There are different versions of shaktI sutras , describing shaktI as brAhman ( or parabrAhman as shakti ) . The very following version is attributed to agastya maharshI , who with personal experience of srI vidyA sAdhana wrote this shakti sutras .This time I’m posting mula sutras , if ambA will allow next post will be translation in English.
image

अथ शक्तिसूत्राणि भगवदगस्त्यविरचितानि ।

अथातः शक्तिसूत्रणि ॥१॥

यत् कर्त्रि ॥२॥

यदजा ॥३॥

नान्तरयोऽत्र ॥४॥

तत्सान्निध्यात् ॥५॥

तत्कल्पकत्वमौपाधिकम् ॥६॥

समानधर्मत्वान् ॥७॥

तच्च प्रातिभासिकम् ॥८॥

यद्बन्धः ॥९॥

यदारोपध्यासादैक्यम् ॥१०॥

शब्दाधिष्टानलिङ्गम् ॥११॥

नानावान् ॥१२॥

तच्च कालिकम् ॥१३॥

अखण्डोपाधे ॥१४॥

यामेव भूतानि विशन्ति ॥१५॥

यदोतम् यत्प्रोतम् ॥१६॥

तद्विष्णुत्वात् ॥१७॥

ततो जगन्ति कियन्ति ॥१८॥

नानात्वेऽप्येकत्वम्विरूद्धम् ॥१९॥

विचारात् ॥२०॥

यस्माददृश्यम् दृश्यञ्च ॥२१॥

दृष्टित्वव्यपदेशद्वा ॥२२॥

अविनाभावित्वात् ॥२३॥

भिन्नत्वे नानियाम्यत्वे ॥२४॥

अतथाविधा ॥२५॥

यत् कृतिः ॥२६॥

इच्छाज्ञानक्रियास्वरूपत्वात् ॥२७॥

न सन्नासत् ॥२८॥

सदसत्त्वात् ॥२९॥

तद् भ्रान्तिः ॥३०॥

यत् सत् ॥३१॥

इदानीमुपाधिविचारः क्रियते ॥३२॥

लीयत तत्रैकदेशप्रवादः ॥३३॥

यस्माअत्तारतभ्याम् जन्तूनाम् ॥३४॥

सौम्यं जननमरणयोः ॥३५॥

पौनःपुन्यात् ॥३६॥

यदेव संसारः ॥३७॥

ऊर्णनाभिः ॥३८॥

सादृश्यानन्त्यम् ॥३९॥

तत् सिद्धिरेव सिद्धिः ॥४०॥

तद्वत्त्वात् ॥४१॥

यच्चैतन्यभेद प्रमाणम् ॥४२॥

तद्बुद्धेः ॥४३॥

तन्नाशे तन्नाशः ॥४४॥

भूतभौतिकौ ॥४५॥

अन्यथाज्ञेयत्वं भावात् ॥४६॥

तन्निर्लेपः पुष्करपर्णतत्त्ववत् ॥४७॥

सतः ॥४८॥

पुष्पगन्धवत् ॥४९॥

मूक्तः सर्वो बद्धः सर्वः ॥५०॥

यद्विलासात् ॥५१॥

तत् स्रष्टु त्वानुमितेः ॥५२॥

अङान्तरं व्यभिचरितम् ॥५३॥

नो दोषः ॥५४॥

यत् देयत् पुराणः ५५॥

भ्राम्यते जन्तुः ॥५६॥

भ्रश्यते स्वर्गात् ॥५७॥

आरोग्यस्य ॥५८॥

निर्विकारे क्रियाभवात् ॥५९॥

बन्धमोक्षयोश्च ॥६०॥

सर्वत्र चिन्त्यम् ॥६१॥

शून्यत्वो वा निगलवत् ॥६२॥

पीतविषवद्धिरोधोपलब्धेः ॥६३॥

तद् योगात् तद् योगः ॥६४॥

तद् भोगे तद् भोग इति ॥६५॥

तत्त्यागस्तद् व्यप्यत्वत् ॥६६॥

बन्धनैयत्त्यापत्तेः ॥६७॥

नास्तीति भ्रमः ॥६८॥

अस्तीत्यतिरिक्तमपि ॥६९॥

पक्षान्तरासिद्धेः ॥७०॥

तदभावाभावात् ॥७१॥

लिङ्गमलिङ्ग्यम् तल्लिङ्गम् ॥७२॥

प्राबल्यात् ॥७३॥

वशीकृतेशित्वात् कामिनीत्वात् मोहकत्वाद् वा ॥७४॥

यन्मातापितरौ ॥७५॥

बीजोत्पत्तेरैन्द्रजालिकम् ॥७६॥

न तज्जातेः ॥७७॥

निर्गुणत्वात् ॥७८॥

तत्कामित्वाद् व्यासः ॥७९॥

तत्परो जैमिनिः ॥८०॥

तत्स्वाभिन्नो हयाननश्च ॥८१॥

उक्तवानगस्त्यः ॥८२॥

तद वेदी वैष्कलायनः ॥८३॥

कण्ठः कर्त्तृत्वम् ॥८४॥

पराशरः प्राबल्यम् ॥८५॥

वशिष्टो मोहनम् ॥८६॥

शुकस्त्वात्मनम् ॥८७॥

मातरम् नारदः ॥८८॥

मन्वानास्तरन्ति संसारम् ॥८९॥

उक्तलिङ्गैः सद्भिः प्रमाणैः ॥९०॥

तत्तु तित्तिरिः ॥९१॥

छन्दोकाश्च गाश्च ॥९२॥

मारीचस्तद्वादी ॥९३॥

यच्छिवः ॥९४॥

हरिरन्तर्गुरुर्बहिः ॥९५॥

काअलो भेदे दुरुद्बोध्यः ॥९६॥

तल्लेशः ॥९७॥

दहरव्यापित्वात् ॥९८॥

तत्प्रात्तद् बहिः ॥९९॥

एवं ब्रह्मविदः ॥१००॥

अधर्मात् तद् बन्धः ॥१०१॥

धर्मो हि वृत्तौ ॥१०२॥

न मोहे हिंसा च यस्यः ॥१०३॥

अतश्चित्तप्रमादः ॥१०४॥

गौर्भरिणीमाठरायणोः ॥१०५॥

न हि वेदो न हि वेद तद्विदः ॥१०६॥

विन्दति वेदान् प्रकृतिम् ॥१०७॥

तरति तां तस्मात् ॥१०८॥

ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पत इति ॥१०९॥

विदित्वैवं तरति ॥११०॥

यत्कृत्वा ॥१११॥

जैमिनिरनात्मेति ॥११२॥

गौणीति प्राचुर्यात् ॥११३॥

॥ इति शक्तिसूत्राणि ॥

Animesh’s Blog