SandhyA is a necessary part of vedic & agamic way of upAsanA and respective sandhyA mentioned are called vaidikI sandhyA and tAntrikI sandhyA . Observance of this are must in both Agama mArga and nigama mAraga . Here I’m giving the tantric ( agamic) sandhyA viDhI for durgA parmeshwarI prevalent in Maithila sampradAya .
अथ दुर्गासंध्या विधिः || ततः श्वेत वाससी परिधाय || ॐ मणिधारणि वज्रिणि महाप्रतिसरे रक्ष रक्ष हूं फट् स्वाहा || इति शिखां बध्वा | सिंदूरेण तिलकं कृत्वाचम्य || मूलेन प्राणायामत्रयं विधाय || ऋष्यादि षडंग न्यासं विधाय वाम हस्ते जल मादाय दक्ष हस्तेनपिधाय || लं हं यं रं वं इति पं भौतिक बीजैरभिमन्त्र्य शिरसि मन्त्रेणांगुल्यान्तर्गत तदुदकविंदुभिर्मूलमुच्चरन् सप्तधा तत्वमुद्रयामूर्द्ध्नि प्रोक्षणं कृत्वा जल रेखां दक्षिणे कृत्वा नासामुपनीय वाम नासयाकृष्य देहान्तर्वर्ति समस्तं पापं तेनप्रक्षाल्य कृष्ण वर्णंतज्जलं वामनासा पुटेनहस्त प्रविष्टं संचिन्त्य पुरः कल्पित वज्र पाषाणे त्रिः अस्त्राय फट् इति क्षिप्त्या आचम्य मूलेन निःश्वसन् सूर्यायांजलित्रयं दत्वा || ततः ॐ ह्रीं हंसः मार्तण्ड भैरवाय प्रकाश शक्तिसहिताय इदमर्घ्यं स्वाहेति त्रिः सूर्यार्घ्यं दत्वा सूर्यमण्डले देवीं विभाव्य मूलमुच्चार्य उद्यदादित्यमण्डलवर्तिन्यै शिवचैतन्यमय्यै ब्रह्मा विष्णु रुद्र सहितायै चण्डिकायै इदमर्घ्यं स्वाहेति मंत्रेण रक्त चन्दन जवापुष्प कुशजलाक्षत पूरिपूर्णेन ताम्रपात्रेण सूर्यमण्डलस्थायै देव्यै अर्घ्यं दत्वा गायत्रीं यथा शक्तिं प्रजप्य गुह्येति मंत्रेण समर्प्य सूर्यमण्डले देवीं विसर्जयेदिति ॐ महा देव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् || इति गायत्रीमष्टोत्तरशतावृत्यष्टाविंशतिधावाष्टधा वा प्रजपेदिति सन्ध्या विधिः || एवं सन्ध्या तर्पणाशक्तावपि त्रिकालदेवीं ध्यात्वा यथाशक्ति मूलं वा गायत्रीं जपेत् ||