Shaiva sandhyA vidhi 

This is Shaiva sandhyA vidhi  from the shivArchana chandrikA of srI appaya dikshita based on shaivAgamas. 

Advertisements

​|| काश्मीरसंप्रदायोक्त शाक्तेय होमपद्धति ||

स्थंडिले षटकोणे चतुष्कोणे वा वृत्तेऽर्द्धचंद्राकारेऽन्याकारे वा हस्तोर्ध्वे कुण्डे शोधनं क्षालानं  पावनं शोषणञ्च कृत्वा परितोहरशक्रादीन् देवान् न्यस्य मध्ये कुशाम्भासभ्युक्ष्य पुष्पगन्धाद्यै : सम्पूज्य तत्र  परदेवतां ध्यात्वा सूर्य्यकान्तादरणि काष्ठाच्छोत्रियागाराद्वा वह्निमाहृत्य हैमे शौल्बे मृण्मये वा पात्रे निधाय वह्नि प्रतिष्ठामन्त्रेणन्यस्य हृदय मंत्रेण सप्तघृताहुतिर्दत्वा कार्य्यानुसारेण रक्तातिरिक्ताकनकां हिरण्याद्या: सप्तजिह्वा: परिकल्प्य सम्प्रोक्षणमंत्रशुभं वर्णावर्तशब्दादिकं विचारयन्त: पूर्णाहुतिपर्य्यन्तं दक्षिणा भागस्थदधिदुग्धादीनां चुलुकं चुलुकं जुह्वति  तेषां प्रीता भगवती सर्वसिद्धिं संपादयति ||
( वैदिक अग्निप्रतिष्ठा मंत्रः – मनोजूतिर्जुषतामाजस्य० ||  )

|| परात्रिम्शिका|| 


श्रीदेव्य् उवाच 

अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् |
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || १ ||

एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो |
हृदयस्था तु या शक्तिः कौलिनी कुलनायिका || २ ||

ताम् मे कथय देवेश येन तृप्तिं व्रजाम्य् अहम् |

श्रीभैरव उवाच 

शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् || ३ ||

कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् |
कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः || ४ ||

अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः |
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ ||

पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु |
क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते || ६ ||

वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् |
तदूर्ध्वे शादिविख्यातम् पुरस्ताद् ब्रह्मपञ्चकम् || ७ ||

अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता |
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि || ८ ||

इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा |
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् |
तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः || ९ ||

एतन् ना योगिनीजातो ना रुद्रो लभते स्फुटम् |
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १० ||

अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् |
सद्यः सन्मुखताम् एति स्वदेहावेशलक्षणम् || ११ ||

मुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः |
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः || १२ ||

अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि |
प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् || १३ ||

सक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रसक्तिभिः |
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || १४ ||

त्रयेण मातरः सर्वा योगेस्वर्यो महाबलाः |
वीरा वीरेस्वराः सिद्धा बलवान् शाकिनीगणः || १५ ||

आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः |
यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम् || १६ ||

अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ ||

यत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति |
मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा || १८ ||

अदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः |
स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः || १९ ||

अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः |
शाकिनीकुलसामान्यो भवेद् योगं विनापि हि || २० ||

अविधिज्ञो विधानज्ञो जायते यजनं प्रति |
कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम् || २१ ||

शिवो विश्वद्यनन्तान्तः परं शक्तित्रयं मतम् |
तदन्तर् वर्ति यत्किंचिच् छुद्धमार्गे व्यवस्थितम् || २२ ||

अणुर् विशुद्धम् अचिराद् ऐस्वरं ज्ञानम् अश्नुते |
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः || २३ ||

सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः |
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः || २४ ||

तथा हृदयबीजस्थं जगद् एतच् चराचरम् |
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी || २५ ||

दीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता |
मूर्ध्नि वक्त्रे च हृदये गुह्ये मुर्तौ तथैव च || २६ ||

न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् |
एकैकेन दिशां बन्धं दशानाम् अपि कारयेत् || २७ ||

तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये |
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः || २८ ||

पुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा |
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || २९ ||

तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः |
सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् || ३० ||

सर्वतत्त्वसुसम्पूर्णाम् सर्वावयवशोभिताम् |
यजेद् देवीं महाभागा सप्तविंशतिमन्त्रिताम् || ३१ ||

ततः सुगन्धिपुष्पैश् च यथाशक्त्या समर्चयेत् |
पूजयेत् परया भक्त्या स्वात्मनं च निवेदयेत् || ३२ ||

एवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः |
कृतपूजाविधिः सम्यक् स्मरन् बीजम् प्रसिद्ध्यति || ३३ ||

आद्यन्तरहितम् बीजं विकसत् तिथिमध्यगम् |
हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यम् अभ्यस्येत् || ३४ ||

यान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् |
अज्ञः प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः || ३५ ||

एवं मन्त्रफलावप्तिर् इत्य् एतद् रुद्रयामलम् |
एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते || ३६||

|| महामहामाहेश्वर अभिनवगुप्ताचार्य कृत  क्रम स्तोत्रं ||


अयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनम् इदम् |

यद् अन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर् विभोः स्तोत्रे
शश्वत् प्रतिफलति चेतो गतभयम् || १ ||

विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा
स्तोता स्तोत्रे प्रकटयति भेदैकविषये |
विमृष्टश् च स्वात्मा निखिलविषयज्ञानसमये तदित्थं
त्वत्स्तोत्रे ऽहम् इह सततं यत्नरहितः || २ ||

अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाज् अनामृष्टः
स्वात्मेत्य् अपि हि न विना ऽमर्शनविधेः |
शिवश् चासौ स्वात्मा स्फुरद् अखिलभावैकसरसस् ततो ऽहम्
त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः || ३ ||

विचित्रैर् जात्यादिभ्रमणपरिपाटीपरिकरैर् अवाप्तम्
सार्वज्ञं हृदय यद् अयत्नेन भवता |
तद् अन्तस् त्वद्बोधप्रसरसरणीभूतमहसि स्फुटम् वाचि
प्राप्य प्रकटय विभोः स्तोत्रम् अधुना || ४ ||

विधुन्वानो बन्धाभिमतभवमार्गस्थितिम् इमां
रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् |
विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावान्
एतान् वरद मदमत्तो ऽस्मि सुखितः || ५ ||

भव प्राज्यैश्वर्यप्रथितबहुशक्तेर् भगवतो विचित्रं
चारित्रं हृदयम् अधिशेते यदि ततः |
कथं स्तोत्रं कुर्याद् अथ च कुरुते तेन सहसा
शिवैकात्म्यप्राप्तौ शिवनतिर् उपायः प्रथमकः || ६ ||

ज्वलद्रूपं भास्वत्पचनम् अथ दाहं प्रकटनम्
विमुच्यान्यद् वह्नेः किम् अपि घटते नैव हि वपुः |
स्तुवे संविद्रश्मीन् यदि निजनिजांस् तेन स नुतो भवेन्
नान्यः कश्चिद् भवति परमेशस्य विभवः || ७ ||

विचित्रारम्भत्वे गलितनियमे यः किल रसः
परिच्छेदाभावात् परमपरिपूर्णत्वम् असमम् |
स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर्
धर्मौघैः परचितिर् अनर्घोचितगुणा || ८ ||

इतीदृक्षैर् रूपैर् वरद विविधं ते किल वपुर् विभाति
स्वांशे ऽस्मिन् जगति गतभेदं भगवतः |
तद् एवैतत्स्तोतुं हृदयम् अथ गीर्बाह्यकरणप्रबन्धाश् च
स्युर् मे सततम् अपरित्यक्तरभसः || ९ ||

तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर्
विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः |
त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां
शशाङ्कार्काग्नीनां युगपद् उदयापायविभवाः || १० ||

अतश् चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः
शश्वद् व्रजति न विभेदं कथम् अपि |
तद् एतस्यां भूमाव् अकुलम् इति ते यत् किल पदं
तदेकाग्रीभूयान् मम हृदयभूर् भैरव विभो || ११ ||

अमुष्मात् संपूर्नात् वत रसमहोल्लाससरसान् निजां शक्तिं
भेदं गमयसि निजेच्छाप्रसरतः |
अनर्घं स्वातन्त्र्यं तव तदिदम् अत्यद्भुतमयीं
भवच्छक्तिं स्तुन्वन् विगलितभयो ऽहं शिवमयः || १२ ||

इदन्तावद् रूपं तव भगवतः शक्तिसरसं
क्रमाभावाद् एव प्रसभविगलत् कालकलनम् |
मनःशक्त्या वाचाप्य् अथ करणचक्रैर् बहिर् अथो घटाद्यैस्
तद्रूपं युगपद् अधितिष्ठेयम् अनिशम् || १३ ||

क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां
स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः |
क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं
भूयासं समधिशयितुं व्यग्रहृदयः || १४ ||

पुरा सृष्टिर् लीना हुतवहमयी यात्र विलसेत्
परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा |
हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं
सृष्ट्याख्या मम मनसि नित्यं विलसताम् || १५ ||

विसृष्टे भावांशे बहिर् अतिशयास्वादविरसे यदा
तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् |
तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद्
रक्तापानक्रमघटितगोष्ठीगतघृणम् || १६ ||

बहिर् वृत्तिं हातुं चितिभुवम् उदारां निवसितुं यदा
भावाभेदं प्रथयसि विनष्टोर्मिचपलः |
स्थितेर् नाशं देवी कलयति तदा सा तव विभो स्थितेः
सांसारिक्याः कलयतु विनाशं मम सदा || १७ ||

जगत्संहारेण प्रशमयितुकामः स्वरभसात्
स्वशङ्कातङ्काख्यं विधिम् अथ निषेधं प्रथयसि |
यमं सृष्ट्वेत्थं त्वं पुनर् अपि च शङ्कां विदलयन्
महादेवी सेयं मम भवभयं संदलयताम् || १८ ||

विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते
लोकाचारे गलितविभवे शास्त्रनियमे |
अनन्तं भोग्यौघं ग्रसितुम् अभितो लंपटरसा विभो
संहाराख्या मम हृदि भिदांशं प्रहरतु || १९ ||

तदित्थं देवीभिः सपदि दलिते भेदविभवे
विकल्पप्राणासौ प्रविलसति मातृस्थितिर् अलम् |
अतः संहारांशम् निजहृदि विमृश्य स्थितिमयी
प्रसन्ना स्यान् मृत्युप्रलयकरणी मे भगवती || २० ||

तदित्थं ते तिस्रो निजविभवविस्फारणवशाद् अवाप्ताः
षट्चक्रक्रमकृतपदं शक्तय इमाः |
क्रमाद् उन्मेषेण प्रविदधति चित्रां भवदशाम् इमाभ्यो
देवीभ्यः प्रवणहृदयः स्यां गतभयः || २१ ||

इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीम् इमां
बोधैकान्तद्रुतिरसमयीम् चापि विदधे |
तदित्थं संरोधं द्रुतिम् अथ विलुप्याशुभततीर्
यथेष्टं चाचारं भजति लसतां सा मम हृदि || २२ ||

क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीम् अवाप्तस्य
स्फारं निजनिजरुचा संहरति या |
इयं मार्त.ङ्दस्य स्थितिपदयुजः सारम् अखिलम् हठाद्
आकर्षन्ती कृशतु मम भेदं भवभयात् || २३ ||

समग्राम् अक्षालीं क्रमविरहिता सात्मनि मुहुर्
निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा |
परा दिव्यानन्दं कलयितुम् उदारादरवती प्रसन्ना मे
भूयात् हृदयपदवीं भूषयतु च || २४ ||

प्रमाणे संलीने शिवपदलसद्वैभववशात्
शरीरप्राणादिर् मितकृतकमातृस्थितिमयः |
यदा कालोपाधिः प्रलयपदम् आसादयति ते तदा देवी यासौ
लसति मम सा स्याच् छिवमयी || २५ ||

प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो
बहिर्लीनात्यन्तम् प्रसरति समाच्छादकतया |
ततो ऽप्य् अन्तःसारे गलितरभसाद् अक्रमतया महाकाली
सेयं मम कलयतां कालम् अखिलम् || २६ ||

ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं
विच्छिद्याशु स्थितिमतिरसात् संविदधति |
प्रमाणं मातारं मितिम् अथ समग्रं जगद् इदं स्थितां
क्रोडीकृत्य श्रयतु मम चित्तं चितिम् इमाम् || २७ ||

अनर्गलस्वात्ममये महेशे तिष्ठन्ति
यस्मिन् विभुशक्तयस् ताः |
तं शक्तिमन्तं प्रणमामि देवं
मन्थानसंज्ञं जगदेकसारम् || २८ ||

इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् आकर्ण्य देव
यदि मे व्रजसि प्रसादम् |
तेनाशु सर्वजनतां
निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः || २९ ||

षट्षष्टिनाम् एके वर्षे नवम्याम् असिते ऽहनि |
मया ऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ||

|| श्रीअभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ||

|| महामहामाहेश्वर अभिनवगुप्ताचार्य कृत भैरव स्तोत्रं ||

व्याप्तचराचरभावविशेषं चिन्मयम् एकम् अनन्तम् अनादिम् |
भैरवनाथम् अनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे || १ ||

त्वन्मयम् एतद् अशेषम् इदानीं भाति मम त्वदनुग्रहशक्त्या |
त्वं च महेश सदैव ममात्मा स्वात्ममयं मम तेन समस्तम् || २ ||

स्वात्मनि विश्वगये त्वयि नाथे तेन न संसृतिभीतिकथास्ति |
सत्स्व् अपि दुर्धरदुःखविमोहत्रासविधायिषु कर्मगणेषु || ३ ||

अन्तक मां प्रति मा दृशम् एनां क्रोधकरालतमां विनिधेहि |
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयो ऽस्मि || ४ ||

इत्थं उपोढभवन्मयसंविद्दीधितिदारितभूरितमिस्रः |
मृत्युयमान्तककर्मपिशाचैर् नाथ नमो ऽस्तु न जातु बिभेमि || ५ ||

प्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदार्थसतत्त्वः |
भावपरामृतनिर्भरपूर्णे त्वय्य् अहम् आत्मनि निर्वृतिम् एमि || ६ ||

मानसगोचरम् एति यदैव क्लेशदशा ऽतनुतापविधात्री |
नाथ तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिर् उदेति || ७ ||

शङ्कर सत्यम् इदं व्रतदानस्नानतपो भवतापविदारि |
तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निर्वृतिधाराम् || ८ ||

नृत्यति गायति हृष्यति गाढं संविद् इयं मम भैरवनाथ |
त्वां प्रियम् आप्य सुदर्शनम् एकं दुर्लभम् अन्यजनैः समयज्ञम् || ९ ||

वसुरसपौषे कृष्णदशम्याम् अभिनवगुप्तः स्तवम् इमम् अकरोत् |
येन विभुर् भवमरुसन्तापं शमयति जनस्य झटिति दयालुः ||१०|| 

समाप्तम् स्तवम् इदम् अभिनवाख्यम् पद्यनवकम् ||