श्रीदेव्य् उवाच
अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् |
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || १ ||
एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो |
हृदयस्था तु या शक्तिः कौलिनी कुलनायिका || २ ||
ताम् मे कथय देवेश येन तृप्तिं व्रजाम्य् अहम् |
श्रीभैरव उवाच
शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् || ३ ||
कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् |
कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः || ४ ||
अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः |
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ ||
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु |
क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते || ६ ||
वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् |
तदूर्ध्वे शादिविख्यातम् पुरस्ताद् ब्रह्मपञ्चकम् || ७ ||
अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता |
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि || ८ ||
इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा |
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् |
तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः || ९ ||
एतन् ना योगिनीजातो ना रुद्रो लभते स्फुटम् |
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १० ||
अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् |
सद्यः सन्मुखताम् एति स्वदेहावेशलक्षणम् || ११ ||
मुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः |
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः || १२ ||
अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि |
प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् || १३ ||
सक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रसक्तिभिः |
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || १४ ||
त्रयेण मातरः सर्वा योगेस्वर्यो महाबलाः |
वीरा वीरेस्वराः सिद्धा बलवान् शाकिनीगणः || १५ ||
आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः |
यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम् || १६ ||
अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ ||
यत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति |
मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा || १८ ||
अदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः |
स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः || १९ ||
अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः |
शाकिनीकुलसामान्यो भवेद् योगं विनापि हि || २० ||
अविधिज्ञो विधानज्ञो जायते यजनं प्रति |
कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम् || २१ ||
शिवो विश्वद्यनन्तान्तः परं शक्तित्रयं मतम् |
तदन्तर् वर्ति यत्किंचिच् छुद्धमार्गे व्यवस्थितम् || २२ ||
अणुर् विशुद्धम् अचिराद् ऐस्वरं ज्ञानम् अश्नुते |
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः || २३ ||
सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः |
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः || २४ ||
तथा हृदयबीजस्थं जगद् एतच् चराचरम् |
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी || २५ ||
दीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता |
मूर्ध्नि वक्त्रे च हृदये गुह्ये मुर्तौ तथैव च || २६ ||
न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् |
एकैकेन दिशां बन्धं दशानाम् अपि कारयेत् || २७ ||
तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये |
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः || २८ ||
पुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा |
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || २९ ||
तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः |
सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् || ३० ||
सर्वतत्त्वसुसम्पूर्णाम् सर्वावयवशोभिताम् |
यजेद् देवीं महाभागा सप्तविंशतिमन्त्रिताम् || ३१ ||
ततः सुगन्धिपुष्पैश् च यथाशक्त्या समर्चयेत् |
पूजयेत् परया भक्त्या स्वात्मनं च निवेदयेत् || ३२ ||
एवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः |
कृतपूजाविधिः सम्यक् स्मरन् बीजम् प्रसिद्ध्यति || ३३ ||
आद्यन्तरहितम् बीजं विकसत् तिथिमध्यगम् |
हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यम् अभ्यस्येत् || ३४ ||
यान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् |
अज्ञः प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः || ३५ ||
एवं मन्त्रफलावप्तिर् इत्य् एतद् रुद्रयामलम् |
एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते || ३६||