|| मैथिलसंप्रदायोक्त देवपूजा ||
अक्षतान्गृहीत्वा यथोक्तन्ध्यायन्
ॐ भूर्ब्भुवः स्वर्भगवन् ०………इहा गच्छ | इत्यावाह्य
ॐ भूर्ब्भुवः स्वर्भगवन् ०………इह तिष्ठ || इति जलादौ पूजाधारे स्थापयित्वा पाद्यमादाय
इदम्पाद्यम् ॐ …….. नमः || इति दद्यात् तत
एषोर्घ ॐ …….. नमः || इत्यर्घन्दत्त्वा
इदमाचमनीयम् ॐ …….. नमः ||
इदं स्नानीयं ॐ …….. नमः ||
इदम् पुनाराचमनीयम् ॐ …….. नमः ||
एष गन्धः ॐ …….. नमः ||
इदमनुलेपनं ॐ …….. नमः || वा
इदं रक्तचन्दनं ॐ …….. नमः ||
इदमक्षतम् || ॐ …….. नमः || मन्त्र समुच्चार्य तद्विना वा
इदम्मालयं ॐ …….. नमः ||
एतानि पुष्पाणि ॐ …….. नमः ||
इदम्पुष्पम् ॐ …….. नमः || इति वा
इदम् त्रि पुष्पाणि ॐ …….. नमः ||
एतान्यमुक पत्राणि ॐ …….. नमः ||
एष धूप: ॐ…….. नमः ||
एष : दीपः ॐ…….. नमः ||
इदं नैवेद्यम् ॐ…….. नमः ||
इदं नमस्कारं ॐ…….. नमः ||
प्रदक्षिणाम् कृत्वा | प्रणम्य स्तुत्वा ध्यात्वा प्रार्थ्य ॐ भगवन् …………पूजितोसि प्रसीद प्रसीद क्षमस्व क्षमस्व स्वस्थान गच्छ गच्छ ||
ॐ…… निर्माल्य देवता नामः …नमः इति निर्माल्यं क्षिपेदितिक्रमेण पाद्यार्घाचमनीयस्नानीय पुनराच मनी यानिगंधपुष्पधूपदीपनैवेद्यानिच पृथक्पृथक् दद्यात् ||