योगिनां सन्ध्यावन्दनम्

अथ योगिनां सन्ध्या वन्दनम् तदुक्तमुदयाकरपद्धत्याम् – आद्या मृणालसूत्राभा पीता रक्ता तु मध्यमा | श्वेता त्वन्तर्गता शक्तिः सन्ध्याचोभयरूपिणी ॥

कल्पसूत्रटीकायां तृतीयकाण्डे – प्रातः संध्या :- या गुरुरूपिणी मृणालसूत्रान्तरगा स्वप्रकाशा कुण्डलिनीशक्तिः कुलाकुलसमरसभावेन साधनान्तर्ध्येया ॥१॥ मध्याह्न संध्या :- तथा मध्याह्नसमये तरुणावयवामतिभास्वरां कामराजरूपिणीं मूलादिब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्रादिमूलान्तं ध्यायेत् ॥२॥ सायं संध्या :- तथा सायंसमये श्वेतवर्णां शक्तिबीजमृणालतन्तुनिभां कुलाकुलयोगेनानुसन्दध्यात् ॥३॥ तुरीय संध्या :- अर्द्धरात्रे परापरकुण्डलिनीरूपां पद्मरागवर्णां मूलादिहृदयार्व्यन्तं वाग्भववीजरूपिणीं हृदयाद्भ्रूमध्यपर्य्यन्तं कामवीजरूपां भ्रूमध्याद्ब्रह्मरन्ध्रान्तं शक्तिवीजरूपां ध्यायेत् ॥४॥

॥ नारिकेलखण्डहवनकल्प: ॥

महागणपतिप्रीत्या सर्वसत्कार्यसिद्धिदम्‌ ॥
लाङ्गलीफलखण्डानां वक्ष्यामि हवनक्रमम्‌ ॥१॥
दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम्‌ ॥
एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम्‌ ॥२॥
विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम्‌ ॥
बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥
नारिकेलस्य खण्डानां जुहुयात्‌ हव्यवाहने ॥
मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥
दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति: ॥
एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम्‌ ॥५॥
हुनेत्‌ घृतं व्याह्रतिभि: साद्‌गुणव्याच्च कर्मण: ॥
होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत्‌ ॥६॥
समर्पयामि मनसा वाचयेति च भक्तित: ॥
सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥
सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम्‌ ॥
अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम्‌ ॥८॥
गायत्रीं वा गणपतिं जपेदयुतसंख्यया ॥
द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥
सहस्रं जुहुयात्धीमान्‌ ब्रह्मणस्पतितुष्टये ॥
संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम्‌ ॥१०॥

॥ इति आगमरहस्ये शिवप्रोक्त नारिकेलखण्डहवनकल्प: ॥