अथ योगिनां सन्ध्या वन्दनम् तदुक्तमुदयाकरपद्धत्याम् – आद्या मृणालसूत्राभा पीता रक्ता तु मध्यमा | श्वेता त्वन्तर्गता शक्तिः सन्ध्याचोभयरूपिणी ॥
कल्पसूत्रटीकायां तृतीयकाण्डे – प्रातः संध्या :- या गुरुरूपिणी मृणालसूत्रान्तरगा स्वप्रकाशा कुण्डलिनीशक्तिः कुलाकुलसमरसभावेन साधनान्तर्ध्येया ॥१॥ मध्याह्न संध्या :- तथा मध्याह्नसमये तरुणावयवामतिभास्वरां कामराजरूपिणीं मूलादिब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्रादिमूलान्तं ध्यायेत् ॥२॥ सायं संध्या :- तथा सायंसमये श्वेतवर्णां शक्तिबीजमृणालतन्तुनिभां कुलाकुलयोगेनानुसन्दध्यात् ॥३॥ तुरीय संध्या :- अर्द्धरात्रे परापरकुण्डलिनीरूपां पद्मरागवर्णां मूलादिहृदयार्व्यन्तं वाग्भववीजरूपिणीं हृदयाद्भ्रूमध्यपर्य्यन्तं कामवीजरूपां भ्रूमध्याद्ब्रह्मरन्ध्रान्तं शक्तिवीजरूपां ध्यायेत् ॥४॥