॥ भैरवोवाच ॥

असिताङ्गो विष्णुरूप:। रुरु: ब्रह्मरूप: । चण्डस्सूर्यरूप:। क्रोधो रूद्र:। उन्मत्त: इंद्र: । कापालिकश्चंद्र:।
भीषणो यमः । संहार स्वयम् । एतद्व्यतिरिक्ता देवा: तदंशा:। सृष्टिकर्तारस्सर्वेऽपि रुर्वांशा:। स्थिति कर्तारस्सर्वेऽपि असिताङ्गांशा:। संहारकर्तारस्सर्वेऽपि क्रोधांशा इति ।
एवं जगत्सृष्टयादिकं कृत्वा प्रलयानन्तरं निजसप्तमूर्तिसंकोचं कृत्वा एक: शाश्वत: संहारभैरव: परमात्मा वर्तते ॥

॥ अष्टभैरवनामावलि: ॥
ॐ विष्णुरूपाय असिताङ्गभैरवाय नमः ॥
ॐ ब्रह्मरूपाय रुरुभैरवाय नमः ॥
ॐ सूर्यरूपाय चण्डभैरवाय नमः॥
ॐ रूद्ररूपाय क्रोधभैरवाय नमः॥
ॐ इन्द्ररूपाय उन्मत्तभैरवाय नमः॥
ॐ चन्द्ररूपाय कपालीभैरवाय नमः॥
ॐ यमरूपाय भीषणभैरवाय नमः॥
ॐ सर्वस्वरूपाय संहारभैरवाय नमः॥

॥ अथर्ववेदीयसङ्कल्पसूक्तं ॥

अथर्ववेदीय ब्रह्मणो मे किसी भी माङ्गलिक कार्य के आरम्भ मे सङ्कल्प लेने से पूर्व संकल्प सूक्त का पाठ किया जाता हैं । संकल्पसूक्त अथर्ववेदसंहिता में प्राप्त नहीं होता हैं अपितु यह कल्पजा हैं अर्थात् यह अब लुप्त कल्पसूत्र में से संग्रहित हैं ।

॥ सङ्कल्पसुक्तम् ॥

ॐ यद् देवानां देवहेडो वयांसि, मित्रस्य त्वा पुरयेताद् बृहस्पति: । प्रजां पशुन् ब्रह्मणा ब्रह्मसोमं , तन्मे मन: शिवसंङ्कल्पमस्तु ॥१॥
ॐ येनाऽङ्गिरसो ज्योतिषि धारयन्त:, प्रतिष्ठावान् वितथे सुधिरा: । येऽथर्वाण: सर्वमोतप्रोत प्रजानन् , तन्मे मन: शिवसंङ्कल्पमस्तु ॥ २॥
ॐ येनेदं भूतं भुवनं भविष्यथ , परिगृहितमन्तेन सर्वम् । येन यज्ञ: शास्त्रा य ते सप्तहोता , तन्मे मन: शिवसंङ्कल्पमस्तु ॥३॥
ॐ संकल्पितेऽस्मिन् कर्माणि सिद्धिरस्तु॥