॥ श्रीपराभट्टारिकाध्यानम् ॥

श्रीसिद्धयोगेश्वरीमत के १२ पटल के अनुसार भगवती परा का ध्यान दिया जाता हैं । जो साधक एक मास तक एकाग्र होकर इस प्रकार का ध्यान करता है वह कवित्व को प्राप्त करता हैं ।

ध्यात्वा परां स्वरूपेणव्योमपद्मासनेस्थिताम् ।
वामहस्ते निविष्टेन सर्वज्ञानमयेन तु ॥
पुस्तकेन वरारोहे दक्षिणेन ततःपुनः।
स्फटिकेनाक्षसूत्रेण दिव्येनप्रवरेण तु ॥
कदम्बगोलकाकारैः स्फुरज्ज्वालावलीधरैः।
ग्रन्थितान्दिव्यरुपान्तुमालांहिगलसंस्थिताम् ॥
आपादलम्बनी चासौ स्फटिकाभा समन्ततः ।
स्रवन्तीममृतं दिव्यङ्कदम्बवनमध्यगाम् ॥
उद्गिरन्तीं महोघैःसर्वज्ञानमयं ततः ।
मुखे स्वके विशद्ध्यायेत्तद्रूपञ्चैवमात्मनः ॥
एवं कृत्वा ततःपश्चात्स्ववक्त्राच्चामृतं महान्।
औघश्चैव तु शास्त्राणां चिन्तयेत्साधकोत्तमः॥
एवं ध्यानं प्रयुञ्जीत ततस्तस्यप्रजायते ।
कवित्वं मासमात्रेण सालङ्कारं मनोहरम् ॥