॥ श्रीकौलोपनिषत् ॥ ( श्रीभास्कररायकृतभाष्यसहिताः)

ॐ शन्नः कौलिकः शन्नो वारुणी शन्नश्शुद्धिः
शन्नोग्निश्शन्नस्सर्वं समभवत् ||

श्रीगुरुचरणाब्जकिरणविसरणनिर्द्धूतहृद्गतावरण.
ह् | भास्कररायः कौलोपनिषदमाथर्वणिं विकासयति ||

वक्ष्ममाणातिरहस्यार्थोपदेशे
अवश्यभाविविघ्ननिरासाय देवताः प्रार्थयते शन्नः
कौलिक इत्यादिना ||
कुलमार्गप्रवर्तकः कौलिकः परशिवः शं-
विघ्ननिराकरणपूर्वकं स्वात्मानन्दप्रापकः, नः-
अस्माकं, समभवत्-भूयात्, वारुणी-प्रथमाभिमानिनी
महती देवता च, शन्नो-भूयात् || शुद्धि द्वितीयाभिमानिनी
देवतापि शन्नो-भूयात् अग्निस्तेजः किंबहुना सर्वमपि
सुखकरं भवतु ||

नमो ब्रह्मणे नमः पृथिव्यै नमोद्भ्यो नमोग्नये नमो
वायवे नमो गुरुभ्यः त्वमेव प्रत्यक्षं सैवासि त्वामेव
प्रत्यक्षं तां वदिष्यामि ऋतं वदिष्यामि सत्यं
वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु मां अवतु
वक्तारं ॐ शान्तिश्शान्तिश्शान्तिः ||

परब्रह्मणे पृथिव्यादिचतुष्टयदेवताभ्यः
परमशिवादिस्वगुरुपर्यन्तेभ्यश्च नमः ||
भूतचतुष्टयमाकाशश्याप्युपलक्षणं | प्रत्यक्षं
अहं प्रत्ययव्याजेन सर्वैरनुभूयमानं ब्रह्म सैव
त्वमेवासि | त्रिपुरसुन्दरीरूपकौलोपनिषदति अत एव हे
कौलोपनिषत् त्वामेव तदभिन्नामहं वदिष्यामि | ऋतशब्दो
ब्रह्मपरः | सत्यशब्दोपि तथैव | आदरेवीप्सा स्पष्टमन्यत् |
शान्तिश्शान्तिश्शान्तिरिति विघ्नशान्ति प्रार्थनेयम् ||

अथातोधर्मजिञासा | ज्ञानं बुद्धिश्च ज्ञानं
मोक्षैककारणम् मोक्षस्सर्वात्मतासिद्धिः | पञ्च विषयाः
प्रपञ्चः | तेषां ज्ञानिस्वरूपाः | योगो मोक्षः ||

अथ ब्रह्मजिज्ञासानन्तरं धर्मिज्ञानस्य जातत्वात्
धर्मस्य विमर्शशक्तेः ज्ञानाय विचारः कर्तव्य
(इत्यर्थः) ||

ज्ञानं बुद्धिश्च, ब्रह्मापरोक्षानुभवो ज्ञानं |
तज्जनकन्तु शाब्दं, परोक्षज्ञानं बुद्धिः |
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते || इत्यादौ
द्वैविध्यव्यवहारदर्शनात् तदुभयमपि
धर्मस्वरूपमेवेत्यर्थः || चकारादनुक्तानां
चैतन्यादिधर्माणां नागानन्दादिभिर्गणितानां
परिग्रहः || ज्ञानं मोक्षैककारणं स्पष्टोर्थः ||
मोक्षस्सर्वात्मतासिद्धिः | सर्वस्य स्वात्माभेदस्सर्वात्मता
तस्यास्सिद्धिस्तद्विषयसविलासाज्ञाननिवृत्तिः | तेन
देवीभागवते कथितार्धश्लोकभागवतस्य सर्वं
खल्विदमेवाहं नान्यदस्ति सनातनं इत्यस्य
समानार्थकज्ञानं मोक्षजनकं इति ध्वनितं |
तादृशज्ञानजन्यमखण्डं वृत्त्यन्तरं वा-
पञ्चविषयाः प्रपञ्च इति सर्वपदं विवृणोति |
शब्दादिविषयपञ्चकं प्रपञ्चपदेनोच्यते || तेषां
भूतसूक्ष्मत्वेन स्थूलभूतानां तदभेदात्
षट्त्रिंशत्तत्त्वानामपि तत्रान्तर्भावात् सर्वत्र
पञ्चभूतानि षष्ठं किंचिन्नविद्यते || इति वासिष्टात् ||
तेषां ज्ञानस्वरूपा इति जडजातं निर्दिश्य चेतनंजातं
निर्दिशति | ज्ञश्चासावनश्चज्ञानं विषयान् जानाति प्राणिति
चेत्यर्थः || तादृशस्वरूपा जीवा इति यावत् || योगो मोक्ष इति
योगोवृत्तिनिरोधः मोक्षोपि ||

अधर्मकारणाज्ञानमेव ज्ञानं ||

धर्मरहितत्वादधर्मः परंब्रह्म तस्य यत्
कारणाज्ञानं तद्विषयकमूलाज्ञानमेव ज्ञानं
एवकारोभिन्नक्रमः विषया जीवा योगो
मुक्तिरविद्येत्येतत्सर्वं ज्ञानमेव शक्तेर्भीन्नं
नास्त्येवेत्यर्थः | भेदस्य मिथ्यात्वादिति भावः | प्रपञ्च
ईश्वरः भेदव्याप्यस्य नियम्यनियन्तृभावस्यापि
व्यापकविरुद्धोपलब्ध्यामिथ्षात्वात्

प्रपञ्च एवेश्वरः || अनित्यं नित्यं

अनित्यत्वेन भासमानं घटादिकमपि
नित्यशक्तिरूपमेव |

अज्ञानं ज्ञानं

अवस्थारूपमज्ञानमपि ज्ञानरूपमेव
शक्तिरेवेत्यर्थः ||

अधर्म एव धर्मः ||

शक्तिरूपो धर्मोपि न पदार्थान्तरं किन्तु
धर्माधारधर्मिरूप ब्रह्मैव |

एष मोक्षः ||

एष एव पन्था मोक्षस्य नान्यः ||

पञ्चबन्धा ज्ञानस्वरूपाः ||
अनात्मनि आत्मबुद्धिः आत्मानि अनात्मताबुधिः इत्यादि
ज्ञानान्येव बन्धरूपणि | ज्ञानं बन्धः इति शिवसूत्रात् |
जीवानां परस्परं भेदः ईश्वरात् भेदः चैतन्यात् भेदः
इति ज्ञानत्रयेण सह पञ्च ||

पिण्डाज्जननं ||

ईदृशबन्धसद्भावादेव पिण्डाण्डसम्बन्धरूपं
जननं भवति ||

तत्रैव मोक्षः ||

परन्तु कौलज्ञानमहिम्ना मोक्षोपि तत्रैव पिण्डाण्ड
एव भवति न पुनश्शताधिकनाड्युत्क्रमणं देवयानगतिः
ब्रह्मणा सह मुक्तिरित्येवं रूपो विलम्बः || तस्य तावदेव
चिरं, न तस्य प्राणा उत्क्रामन्ति इत्यादि श्रुत्यन्तरादिति ||

एतत् ज्ञानम् ||

प्रथमं शास्त्रसिद्धान्तमुक्त्वा ज्ञाननिष्कर्षमाह
एतत् वक्ष्यमाणं ज्ञानसर्वस्त्रं ||

सर्वेन्द्रियाणां नयनं प्रधानं ||

ब्रह्मप्रतिनयेत् || षड्भिरपीन्द्गियैर्जन्येषु
प्रत्यात्मकज्ञानेषु अहमिदं जानामित्यादिप्रकारकेषु
अहन्तया भासमानं ब्रह्मैव प्रधानं | तमेव
भान्तमनुभाति सर्वमिति श्रुत्या तदितरस्य
सर्वस्याप्यनुभासमानतोक्तेः || ईद्दशविवेचनं
सर्ववृत्तिषु यथास्यात्तथा यतेत || एकेन्द्रियजन्यमपि
ज्ञानं विवेचनमन्त्रेण प्रधानं नयेत् ||
ग्राह्यग्राहकसंवित्तिसामन्ये सर्वदेहिनां |
विशेषोयं तु सम्बन्धसामान्ये सावधानता || इति वचनात्
अविवेचनाभाव एव ज्ञानसर्वस्वमित्यर्थः ||

धर्मविरुद्धाः कार्याः ||

इतः प्रभृति उपासककर्तव्यप्रकारननुशास्ति |
तादृशविवेचकज्ञानाधारैकरसिकानां
चित्तस्थैर्याद्यर्थं कर्मकालेपि संविदादिसेवनं
धर्मशास्त्रविरुद्धं कर्तुं युक्तं ||

धर्मविहितानकार्याः ||

धर्मशास्त्रविहिता अपि ज्योतिष्टोमादयः
तादृशधाराविरोधसम्भावनायां प्रतिकर्तुं युक्ताः ||
करणाकरणयोरभ्यनुज्ञानमिदं
नत्वात्यन्तिकविधिनिषेधरूपं || गौतमेनापि
चत्वारिंशत्संस्कारान्
बहिरङ्गानष्टावन्तरंगांश्चोक्त्वा आन्तरशुद्ध्युत्तरं
बहिरङ्गानामनावश्यकतोक्ता || मनुनापि सर्वान् धर्मान्
विस्तरेणोक्त्वा शास्त्रान्ते ब्रह्माभ्यासं विधाय
तत्पराणां स्वपूर्वोक्तधर्मानादर उक्तः || तदृश
स्मृतेरियमेव श्रुतिर्मूलम् ||

सर्वं शाम्भवीरूपम् ||

विहिताचरण इव निषिद्धाचरणेपि त्रिपुरसुन्दर्या
भावनस्याविशेषात् || तत्भावनवैषम्यवता
भ्रष्टानामेव विधिनिषेधकृतौ बन्धः इति भावः || अत एव
भगवद्वाक्यम् ||

मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेद्यदि |
तत्कर्म ते प्रकुर्वन्ति त्रिंशत्कोट्यो महर्षयः || इति ||

आम्नाया न विद्यन्ते ||

ज्ञातत्वात् तं प्रति वेदा अपि न प्रवर्तन्ते || अत-एवोक्तं
भगवत्पादैरध्यासभाष्ये अविद्यावद्विषयाणि
शास्त्राणीति || उक्तयोरभ्यनुज्ञयोर्हेत्वर्थवादरूपे सूत्रे ||

गुरुरेकः ॥

एकस्य यथोक्तलक्षणलक्षितस्य गुरोपास्त्या अयमर्थो
लभ्यते | गुरुबाहुल्येनोपदेशवैषम्ये
संशयावश्यम्भावात् | अत-एव परशुरामकल्पसूत्रे

एकगुरूपास्तिरसंशयः ||

लब्धा कुलगुरुं सम्यक् न गुर्वन्तरमाश्रयेत् || इति ||

कुलार्णवोक्तनिषेधस्येयं श्रुतिर्मूलम् || लब्ध्वेत्युक्त्यैव
कौलिके गुरवोनन्ता इति शक्तिरहस्यवचनं
तादृशगुरोरलाभाभिप्रायम् ||

सर्वैक्यताबुद्धिमन्ते ||

ऐक्यमिति स्वार्थे ष्यञ् || एवं रीत्या वर्तमानः
साधकोप्यन्तकालेप्यद्वैतबुद्धिमेव लभते ||

आमन्त्रसिद्धेः ||

अधिकारोयं | इत आरभ्य मन्त्रसिद्धिपूर्वकाले ये
नियमा अनुष्ठे यास्तेधर्माः कथ्यन्ते इत्यर्थः || तेन
वक्ष्यमाणेष्वेकस्याप्यनादरे सिद्धिहानिरेवेति भावः ||

मदादिस्त्याज्यः ||

मोदकद्रव्यसेवनजन्यो विकारविशेषो मदः ||
विकारान्तसण्यादिपदग्राह्याणि अरिषड्वर्गश्च सन्त्याज्य एव
|| मन्त्रसिध्युत्तरन्तु स्वत एव कामक्रोधादयो न प्रसरन्ति |
विकार विशेषास्तु पूर्वमेवाभ्यनुज्ञाताः || तथा च
यावन्न चलते दृष्टिः आगलान्तं पिबेत् द्रव्यं || इति
वचनयोर्मन्त्रसाधकसिद्धमन्त्रपरत्वेन
व्यवस्थासिद्धेरविरोधः ||

प्राकट्यं न कुर्यात् ||

स्वकीयमन्त्रदीक्षोपास्तिरहिताधर्मान्तरेष्वत्यन्ता-
दरशीलाः स्वीयमन्त्रोपासकाभासाश्च सर्वेपि बहिर्मुखाः
तैर्यथा अयमेतदुपासक इति न ज्ञायेत तथोपास्तिं गोपयेत् ||
इदञ्च दीक्षान्तरेष्वपि तुल्यं || नैनमदीक्षिताव्रतयन्तं
पश्यन्ति | इत्यादि तत्तत्प्रकरणगतवचनात् ||
यद्यप्यस्यादीक्षाया वेदेष्वारण्यककाण्डे विहितत्वादेव
रहस्यतासिद्धा क्रत्वंगप्रवर्ग्यादिवत् | तथापि पुनः
कण्ठरवेण तद्विधानं रहस्यान्तरेभ्यो
वैलक्षण्यार्थं || धर्मान्तरेषु रहस्यभङ्गे
क्रतुवैगुण्यमात्रमिहतु तथात्वे नरक एवेति || तथाच
भगवान्परशुरामः प्राकट्यान्निरयः || इति

न कुर्यात्पशुसम्भाषणं ||

बहिर्मुखास्सर्वेपि पशवः विद्याहीनत्वात्
एतदुषास्तेवेवविद्यात्वात् न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः
प्रयुज्यते || इत्यादि वचनात् || तैस्सह सम्यक्
स्वहृदयज्ञापनपर्यन्तं भाषणं न कार्यं |
तेनापातभाषणस्य न निषेधः ||

अन्यायो न्यायः ||

यदि कश्चिद्वावद्कः पूर्वोत्तरमीमांसान्यायैः
कौलिकाचारं दूषयेत् तथापि न मनागपि कोपः कार्यः
इत्याशयेनाह अन्याय इति अल्पार्थो नञ् अल्पबलो न्यायः
पूर्वपक्षन्याय इति यावत् || सोपि न्याय एव || न हि
पूर्वपक्षोपि न्यायोपन्यासमन्तरेण प्रवर्तते
अतस्तादृशन्यायसिद्धोपि न्याय्य एवायं पन्थाः | न चैवं
सति सिधान्तन्यायेनापवादात्कथमाश्वासः
सिद्धान्तानामृषिभेदेन बहुविधत्वेन तदभिमानिभिस्तथा
तथोपपादनस्य परस्परविरुद्धस्य पूर्वोत्तरतन्त्रस्थ
देवताधिकरणादिषु बहुशो दर्शनात् || वादिनो दौर्बल्यं न
न्यायस्येति भावः || तर्काप्रतिष्ठानादिति भगवान् व्यासः ||
अचिन्त्याः खलु ये भावा न तां स्तर्केण योजयोदिति च ||
ईदृशन्यायानां चित्तसमाधानैकफलकानां
सम्प्रदायाविरोधेनैवोपन्यासस्योचितत्वात् || यथा
श्रुतिस्मृतिसम्प्रदायानामुत्तरोत्तरस्य दुर्बलत्वेपि
प्रकृततन्त्रे वैपरीत्यमूह्यम् || न चायं सुतरामन्यायः
धर्मशास्त्रविद्भिरपि उत्तरोत्तरेण पूर्वपूर्वसंकोचस्य
बहुशः स्वीकारात् ||

न गणयेत्कमपि ||

ब्रह्माणमपि स्वसिद्धान्तविरोधवादिनं न गणयेत् |
अतीव दृढं विश्वसेदित्यर्थः | अत एव विश्वासभूयिष्ठं
प्रामाण्यमिति कल्पः ||

आत्मरहस्यं न वदेत् ||

प्राकट्यापत्तेर्मित्रायापि नैव वदेदित्यर्थः ||

शिष्याय वदेत् ||

अत एव कर्णात्कर्णोपदेशेन सम्प्राप्तमवनीतलं | इति
स्मृतिः | ईदृसम्प्रदायैकज्ञेयत्वेनैवेदृशार्थविषये
श्रुतिस्मृत्यपेक्षया सदाचारस्यैव बलवन्त्वं ||
व्याकरणापेक्षया
सत्प्रयोगरूपाचारस्येवेत्यादिकमूह्यं ||

अन्तःशाक्तः बहिश्शैवः लोके वष्णवः ||

अप्राकट्येपि कर्तव्यतामेव विवृणोति शक्तेरुपास्तिरन्तः
करणैकवेद्या कार्या ||

कुचन्दनेन शाक्तानां भ्रूमध्ये बिन्दुरिष्यते ||

इति चिह्नानि विदितान्यपि
विभूतिधारणादिशैवचिह्नैराच्छादितानि एव कार्याणि ||
शिवस्यापि शक्त्यभेदात् || मामेव पौरुषं रूपं
गोपिकानयनामृतं इत्यादि वचनैर्विष्णुस्वरूपस्य
परशिवावरोधत्रिपुरसुन्दरीप्रकटरूपान्तरात्मकतया
सभासु विष्णुनामाम्रेडनादिना विष्णूपास्तिमेव
प्रकटयेत् इति सूत्रत्रयार्थः || अत एव
व्ष्णुशिवशक्तीनामुत्तरोत्तरफलाधिक्यं
उत्तरोत्तररहस्याभिप्रायेणोक्तं रहस्यनामसाहस्रे ||

अयमेवाचारः ||

सन्त्यन्येपि कौलिकानामाचारास्तन्त्रेषु विहिताः तेषां
सर्वेषा मध्ये प्राकट्याभावरूपाचारः एवातीवमुख्य
इत्यर्थः |

आत्मज्ञानान्मोक्षः॥

कर्मवदतीवाचार-एवासक्तस्सनात्मानुसन्धाने न
प्रमाद्येत अपितूभयमपि सम्यगनुतिष्टेदिति द्योतनायेह
पुनः स्मारणम् ||

लोकान्निन्द्यात् ॥

प्रवाहेणानादिरूषाणि नानाविधानि दर्शनानि
सर्वाण्येव तत्तदधिकारिभेदेन प्रमाणान्येव तानि सर्वथा
न निन्देत् | तन्निन्दनेन तदधिकारिणां संशयोत्पत्त्या
स्वावलम्बितदर्शनेप्यविश्वासः
कौलिकेप्यनधिकारादुभयभ्रष्टतापत्त्याच्छिन्नाभ्रवन्ना
शापत्तेः तेनोपासकस्य निन्दनीयत्वापत्तेर्वैगुण्यं | अत एव
न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनं || इति
भगवान् कृष्णः | सर्वदर्शनानिन्दनमिति भागर्वरामश्च
|

इत्यध्यात्मं ||

सर्वदर्शनानिन्दनं क्वोपयुज्यते इत्याशङ्कायामाह
परेषां छिन्नाभ्रवन्नाशापेक्षया स्वस्य सर्वात्मभावे
न्यूनतापत्तेरयमाचारोप्यात्मज्ञा न एवोपकुरुत इत्यर्थः
||

व्रतं न चरेत् ||

पुरुषार्थरूपाणि व्रतानि नाचरेत् तैः
प्राप्यस्यार्थस्येतोप्यधिकस्याभावात् || यानि
वर्णाश्रमधर्मरूपाणि पुरुषार्थसाधकत्वेन प्राप्तानि
| प्राप्तानां नित्यनैमित्तिकानामङ्गत्वेन प्राप्तानि
दर्शपूर्णमासाद्यंगभूतानि क्रत्वर्थव्रतानि तानि तु
कार्याण्येव || नित्यनैमित्तिकानां त्यागाविधानात्

न तिष्ठेन्नियमेन ||

तस्यैवेदं विवरणं | नियमनस्य
निर्बन्धरूपत्वेनात्मानुसन्धानविरोधित्वात् ||

नियमान्न मोक्षः ||

आत्मानुसन्धानाभावादेव मोक्षे
विलम्बितत्वापत्तेरित्यर्थः ||

कौलप्रतिष्ठां न कुर्यात् ||

यदि कश्चिन्न्यायोपन्यासनिपुणः कौलं
सन्न्यायैरेवस्थापयितुं क्षमेत् | सोपि नेमं मार्गं
प्रतिष्ठापयेत् अप्राकट्यभंगापत्तेः अत
एवैतच्छास्त्रविषये ग्रन्थकारस्यापि कौलप्रतिष्ठारूपत्वेन
तत्रापि निषेधप्रवृत्त्या साम्प्रदायिकानां
कतिपयांशानां अप्रकटनाय गुरुमुखादेव ज्ञेयमिति
तत्र तत्र लेखः संगच्छते ||

सर्वसमो भवेत् ||

एतच्छास्त्रेष्वेवाचारान्निष्कृष्य विधत्ते प्राणिमात्रे
स्थावरमात्रे वा समो भवेत् || अनन्यभावेन वर्तेत अत एव
भागवते खं वायुमग्निं सलिलं महीञ्चेत्यादि

समुक्तो भवति

स एव सद्यो मुच्यते तादृशपुरुषधौरेयात्
ईषन्नयूनास्तु शनैश्शनिर्मुच्यन्त एवेति भावः ||

पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः |
आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी ||

अथानुसन्धानपूर्वकमेतानि सूत्राणि यः पठति स
एव देशिकः तस्यैवाज्ञासिद्धिः अप्रतिहतज्ञाता शिवभाव
इति यावत् | एवं परमेश्वर स्याज्ञा अतोऽनाश्वासो न कार्य
इति भावः ||

यश्चाचारविहीनोपि योवा पूजां न कुर्वत् |
यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने ||

यः पूर्वोक्ताचारान्नानुतिष्ठति
संशयापन्नमनास्तु तदुक्तविधां सपर्यां न करोति
वचनव्यत्ययश्छान्दसः || अयं पन्थास्सर्वोत्तम इति न
मन्यते | एतादृशोप्युपासकाभासः उक्तफलालाभेपि
स्वर्गमात्रं लभत एव | किमु यथावत्तदुपासकस्य
यथोक्तफलप्राप्तिरिति भावः ||

॥ इति कौलमार्गपारावारपारीणश्रीमद्भास्कररायविरचितं
कौलोपनिषद्भाष्यं संपूर्णम् ॥

Advertisements

॥ शक्तिभैरवीध्यानम्॥

सद्यस्सङ्गरसङ्गतासुरशिरश्श्रेणीभिरास्त्रोल्ब्णैःराबध्यस्त्रजमुत्तरीयमनया संविभ्रतिं सादरम् । दोर्भि: खेटकपालपन्नगमहाघण्टाशुभङ्कारिका खट्वाङ्गत्रिशिखानसिञ्च दधतीं वन्दे महाभैरवीम् ॥१॥

अञ्जनाचलनिभात्रिलोचनासेन्दुखण्डविलसत्कपर्दिका
रक्तपट्टपरिपरिधायिनी चतुश्चारुदंष्ट्रपरिशोभितानना।
हारनूपुरमहार्हकुण्डलाद्युज्वला घृसृणरञ्जितस्तना
प्रेतरुढगुणसत्कापालिनि खडगचर्मभृदिहास्तु भैरवी ॥२॥

योगिनां सन्ध्यावन्दनम्

अथ योगिनां सन्ध्या वन्दनम् तदुक्तमुदयाकरपद्धत्याम् – आद्या मृणालसूत्राभा पीता रक्ता तु मध्यमा | श्वेता त्वन्तर्गता शक्तिः सन्ध्याचोभयरूपिणी ॥

कल्पसूत्रटीकायां तृतीयकाण्डे – प्रातः संध्या :- या गुरुरूपिणी मृणालसूत्रान्तरगा स्वप्रकाशा कुण्डलिनीशक्तिः कुलाकुलसमरसभावेन साधनान्तर्ध्येया ॥१॥ मध्याह्न संध्या :- तथा मध्याह्नसमये तरुणावयवामतिभास्वरां कामराजरूपिणीं मूलादिब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्रादिमूलान्तं ध्यायेत् ॥२॥ सायं संध्या :- तथा सायंसमये श्वेतवर्णां शक्तिबीजमृणालतन्तुनिभां कुलाकुलयोगेनानुसन्दध्यात् ॥३॥ तुरीय संध्या :- अर्द्धरात्रे परापरकुण्डलिनीरूपां पद्मरागवर्णां मूलादिहृदयार्व्यन्तं वाग्भववीजरूपिणीं हृदयाद्भ्रूमध्यपर्य्यन्तं कामवीजरूपां भ्रूमध्याद्ब्रह्मरन्ध्रान्तं शक्तिवीजरूपां ध्यायेत् ॥४॥

नागार्जुन यंत्राणि

‘नागार्जुनसिद्ध’ द्वारा प्रणीत ये सिद्ध यंत्र या कुछ रहस्य सङ्केत है , जिन्हें एक ‘जैनमंत्रवादपुस्तक’ से संग्रहित किया गया है। ये यंत्र अपने अंदर कुछ विशेष अर्थ गर्भित कियें हुए हैं ।