kAThaka grihyeshThi brAhman is one of fragmentary portion of large kAThaka brAhman . The Brahmana of kaTha shAkhA, originally consisting of 100 chapters (‘shatAadhyAyana‘), is available only in some fragments, unfortunately kAThaka brAhman is lost, what we have is nothing but handful fragments from larger treatise. The following brAhman describes a myth ( AkhyAna ) about importance of grihyeshThi and injunctions to be followed. Of course an AhitAgni ( installer of tretAgni ,who performs agnihotra daily ) has right ( adhikAra ) to perform it .It is slightly parallel to nakshtraeshtI of taittirIya adherents but presiding deities are grahas .It is one of kAmyeshThis , whosoever performs this IshTi achieves longevity , cattle , intelligence etc.
|| ब्राह्मण ||
ॐ देवाश् च वा असुराश् च समावद् एव यज्ञे ’कुर्वत यद् एव देवा अकुर्वत तद् असुरा अकुर्वत ते देवा एतानि ग्रहहविंष्य् अपश्यं स् तैर् इन्द्रम् अयाजयंस् तद् असुरा नान्ववायंस् ततो देवा अभवन् परासुरा अभवन् य एवं विद्वान् एतानि ग्रहहवी ँसि यजते भ्रातृव्यस्य् आनन्ववायाय भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् आदित्याय घृते चरुं निर्वपेत् तेजस् तेन परिक्रीणाति शौक्रं चरुं ब्रह्मवर्चसं तेन परिक्रीणाति बृहस्पतये नैवारं पयसि चरुं वाक्पत्यं तेन परिक्रीणाति बुधाय नवकपालं बुद्धिं तेन परिक्रीणाति भौमायैककपालं यशस् तेन परिक्रीणाति सौराय पललमिश्रं घृते चरुं सुरभिं तेन परिक्रीणाति चन्द्रमसे पञ्चदश कपालं आयुस् तेन परिक्रीणाति राहवे चरुम् अभयं तेन परिक्रीणाति केतवे चरुम् अनपरोधं तेन परिक्रीणात्य् एतान्य् एव सर्वाणि भवति य एवं विद्वान् एतया यजेत।
आज्येनोपहोमाञ् जुहोत्य् आशिष् आम् अवरुद्ध्या एतया यजेत यः कामयेत तेजस्वी भ्राजस्वी वाक्पतिर् बुद्धिमान् यशस्वी सुरभिर् आयुष्मान् अभय्यनपरोधी स्याम् इत्य् एकचक्रम् उदयाद् भ्राजमानम् इत्य् अष्टादश याज्यानुवाक्या भवन्ति सरूपत्वायाग्निर् हिरण्यं सोमो हिरण्यम् इत्य् आज्यभागौ प्रेद्धो अग्न इमो अग्न इति सं याज्ये उच्चैर् यजत्य् एषा वै वाचाम् उत्तमा योच्चैर् उत्तमः समानानां भवत्य् आदित्यस् तेजस्वीत्य् उपहोमञ् जुहोति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै य एवं विद्वान् एतया यजेत॥
ग्रहेष्टि मंत्राः
“अदित्यस् तेजस्वीत्य् उपहोमाञ् जुहोति।”
|| ग्रहमंत्राः ||
( प्रजापति ऋषि | यजु | ग्रह देवत्य )
ॐ आदित्यस् तेजस्वी तेजो अस्मिन् यज्ञे यजमाने दधातु॥१॥
ॐ शुक्रो भ्राजस्वी भ्राजो अस्मिन् यज्ञे यजमाने दधातु॥२॥
ॐ बृहस्पतिर् वाक्पतिर् वाचो अस्मिन् यज्ञे यजमाने दधातु॥३॥
ॐ बुधो बुद्धिमान् बुद्धिम् अस्मिन् यज्ञे यजमाने दधातु॥४॥
ॐ अर्को यशस्वी यशो अस्मिन् यज्ञे यजमाने दधातु॥५॥
ॐ सौरः सुरभिः सुरभिम् अस्मिन् यज्ञे यजमाने दधातु॥६॥
ॐ चन्द्रमा आयुष्मान् आयुर् अस्मिन् यज्ञे यजमाने दधातु॥७॥
ॐ राहुर् अभयम् अभयम् अस्मिन् यज्ञे यजमाने दधातु॥८॥
ॐ केतुर् अनपरोध्य् अनपरोधम् अस्मिन् यज्ञे यजमाने दधातु॥९॥
|| अन्य मंत्र द्वयम् ||
( प्रजापति ऋषि | यजु | ध्रुव )
ॐ ध्रुवो धैर्यवान् धैर्यम् अस्मिन् यज्ञे यजमाने दधातु॥१०॥
( प्रजापति ऋषि | यजु | अगस्त्य )
ॐ अगस्त्यो वीर्यवान् वीर्यम् अस्मिन् यज्ञे यजमाने दधातु॥११॥
( द्वयस्य प्रजापति ऋषि | बृहती | अग्निवैश्वनार )
ॐ प्रेद्धो अग्ने दीदिहि पुरो नो यत्र देवाः पूर्वे पुराणाः ॥ यत्रासौ वैश्वानरः स्तोकातिथिस् तत्रेमं यज्ञं यजमानं च धेहि॥१॥
ॐ इमो अग्ने वीततमानि हव्या प्रेदं हविः प्राष्ट्रेमान् स्तोकान्।स्तोकातिथिः स्तोकजूतिः पतत्र्य् अथा ह्य् अग्ने अमृतत्वं च धेहि॥२।|
|| सुसंपूर्णम् ||
Animesh’s blog