mahAganapati nArikelakhanda homa kalpa

नारिकेलखण्डहोमकल्प:

महागणपतिप्रीत्यासर्वसत्कार्यसिद्धिदम्‌। लाङ्गलीफलखण्डानां वक्ष्यामिहवनक्रमम्‌ ॥१॥
दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम्‌ । एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम्‌ ॥२॥
विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम्‌ । बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥
नारिकेलस्य खण्डानां जुहुयात्‌ हव्यवाहने । मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥
दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति:। एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम्‌ ॥५॥
हुनेत्‌ घृतं व्याह्रतिभि: साद्‌गुणव्याच्च कर्मण: । होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत्‌ ॥६॥
समर्पयामि मनसा वाचयेति च भक्तित: ।
सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥
सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम्‌ ।अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम्‌ ॥८॥
गायत्रीं वा गणपतिं जपेदयुतसंख्यया ।
द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥
सहस्रं जुहुयात्धीमान्‌ ब्रह्मणस्पतितुष्टये ।
संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम्‌ ॥१०॥

॥ इति आगमरहस्ये शिवोक्त: नारिकेलखण्डहोमकल्प: ॥

Animesh’s Blog