ॐ श्रीगरुडाय नमः॥१॥
ॐ वेदगरुडाय नमः॥२॥
ॐ वीरगरुडाय नमः॥३॥
ॐ श्रीकृष्णगरुडाय नमः॥४॥
ॐ मन्त्रगरुडाय नमः॥५॥
ॐ यन्त्रगरुडाय नमः॥६॥
ॐ सिद्धगरुडाय नमः॥७॥
ॐ श्रीनाथगरुडाय नमः॥८॥
ॐ अघोरगरुडाय नमः॥९॥
ॐ शाबरगरुडाय नमः॥१०॥
garuda dwadashnama
॥श्रीगरुडस्तोत्रम् ॥
अथ गरुडस्तवः ।
सुपर्णं वैनतेयञ्च नागारिं नागभीषणम् । जितान्तकं विषारिञ्च अजितं विश्वरूपिणम् ॥१॥ गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् । द्वादशैतानि नामामि गरुडस्य महात्मनः ॥२॥ यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽप् वा । विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ॥३॥ संग्रामे व्यवहारे च विजयस्तस्य जायते | बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥४॥ ॥ श्रीगरुडस्तोत्रम् सत्या : सन्तु मम कामा: ॥