॥ कालिकोपनिषत् ॥

अथोपनिषद् अथ हैनाम्ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति सुभगाङ्कामरेफेन्दिरां समष्टिरूपिणीमादौ तदन्वकर्तुर्बीजद्वयकूर्च्चबीजन्तद्धोमषष्ठस्वरबिन्दुमेलनं रूपन्तदनुभुवना द्वयभुवना तु व्योमज्वलनेन्दिराशून्यमेलनरूपा दक्षिणे कालिके वेत्यभिमुखङ्गता तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् | अयं सर्वमन्त्रोत्तमोत्तम इमं सकृज्जपन् स तु विश्वेश्वरः स तु नारीश्वरः स तु वेदेश्वरः स सर्वगुरुः सर्वनमस्यः सर्वेषु वेदेष्वधिश्रितो भवति स सर्वेषु तीर्थेषु स्नातो भवति सर्वेषु यज्ञेषु दीक्षितो भवति स स्वयं सदाशिवः त्रिकोणन्त्रिकोणन्त्रिकोणम्पुनश्चैव न्त्रिकोणन्त्रिकोणन्ततो वसुदलं सार्द्धचन्द्रकेसरं युग्मशो विलिख्य सम्भृतम्भूपुरैकेन युतं सर्वज्ञेनाभ्यर्च्य तस्मिन् देवीदले रेखायां व्विन्यस्य ध्येया अभिनवजलदवदना घनस्तनी कुटिलदंष्ट्रा शवासना वराभयखड्गमुण्डमण्डितहस्ता कालिका ध्येया काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्तेति षट्कोणगाः | उग्रा उग्रप्रभा दीप्ता नीला घना बलाका मात्रा मुद्रा मितेति नवकोणगाः इत्थम्पञ्चदशकोणगाः | ब्राह्मी नारायणी माहेश्वरी चामुण्डा कौमारी अपराजिता वाराही नारसिंहीत्यष्टपत्रगाः | चतुष्.कोणगाश्चत्वारो देवाः माधव-रुद्र-विनायक-सौराः | चतुर्द्दिक्षु इन्द्र-यम-वरुण-कुबेराः | देवीं सर्वाङ्गेनादौ सम्पूज्य भगोदकेन तर्पणम्पञ्चमकारेण पूजनमेतस्याः सपर्यायाः किमधिकन्नो शक्यम्ब्रह्मादि पदं हेयं हेलया प्राप्नोति एतस्या एकद्वित्रिक्रमेण मनवो भवन्ति नारिमित्रादिलक्षणमत्र वर्त्तते अमुष्यमन्त्रपाठकस्य गतिरस्ति नान्यस्येह गतिरस्ति एतस्यास्तारा मनोर्दुर्गा मनोर्वा सिद्धिः इदानीन्तु सर्वाः स्वप्नभूता असितैव जागर्ति इमामसिताज्ञामुपनिषदं य्यो वाऽधीते सोऽपुत्रः पुत्रीभवति निर्द्धनो धनायति धर्मार्थकाममोक्षाणाम्पात्रीयत्यन्यस्य वरदः दृष्ट्वा जगन्मोहयति क्रोधस्तञ्जहाति गङ्गादितीर्थक्षेत्राणामग्निष्टोमादियज्ञानां फलभागीयति ॥

|| इत्यथर्वणवेदे सौभाग्यकाण्डे कालिकोपनिषत्समाप्ता ||