भगवति इन्द्राक्षी का अत्यंतप्रभावशाली स्तोत्र इन्द्र कृत है । इस स्तोत्र की देवता के अनुग्रह से समस्त कष्ट , सङ्कट, कुदृष्टि, अभिचार , रोग आदि का शमन होता है और साधक की अभीष्ट कामना की सिद्धि होती है । इन्द्राक्षी देवी का यह स्तोत्र गर्भरक्षार्थ एवं बालरक्षार्थ विशेष रूप से प्रयुक्त होता है । भगवति इन्द्राक्षी की उपासना कश्मीराचारे से सम्बंधित है । कश्मीर के ही साथ किरातदेश नेपाल में भी इन्द्राक्षी की उपासना का प्रचलन है । कश्मीर के उन पूज्य महामाहेश्वरो , उन महाशाक्तो के सांस्कृतिक उत्तराधिकारी कश्मीरी पंडितो में आज भी श्रीइन्द्राक्षीस्तोत्र के पाठ का प्रचलन है।
॥ पूर्वन्यासः॥
अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य।
श्रीपुरन्दर ऋषिः। अनुष्टुप् छन्दः। इन्द्राक्षी दुर्गा देवता। लक्ष्मीर्बीजं। भुवनेश्वरीति शक्तिः। भवानीति कीलकम् । इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः
ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः ।
ॐ महालक्ष्मीति तर्जनीभ्यां नमः । ॐ।
माहेश्वरीति मध्यमाभ्यां नमः । ॐ
अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । ॥ अङ्गन्यासः॥ ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीति शिरसे स्वाहा । ॐ माहेश्वरीति शिखायै वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीति अस्त्राय फट् । ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ॥
ध्यानम्
नेत्राणां दशभिश्शतैः परिवृतामत्युग्रचर्माम्बरां हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् । घण्टामण्डितपादपद्मयुगलां नागेन्द्रकुम्भस्तनीमिन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥ इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् । वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ इन्द्राक्षीं सहस्रयुवतीं नानालङ्कारभूषिताम् । प्रसन्नवदनाम्भोजां अप्सरोगणसेविताम् ॥ द्विभुजां सौम्यवदनां पाशाङ्कुशधरां परा । त्रैलोक्यमोहिनीं देवीमिन्द्राक्षीनामकीर्तिताम् ॥ पीताम्बरां वज्रधरैकहस्तां नानाविधालङ्करणां प्रसन्नाम् । त्वामप्सरस्सेवितपादपद्माम् इन्द्राक्षि वन्दे शिवधर्मपत्नीम् ॥ इन्द्रादिभिः सुरैर्वन्द्यां वन्दे शङ्करवल्लभाम् । एवं ध्यात्वा महादेवीं जपेत् सर्वार्थसिद्धये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि
। वज्रिणी पूर्वतः पातु चाग्नेय्यां परमेश्वरी । दण्डिनी दक्षिणे पातु नैरॄत्यां पातु खड्गिनी ॥१॥ पश्चिमे पाशधारी च ध्वजस्था वायुदिङ्मुखे । कौमोदकी तथोदीच्यां पात्वैशान्यां महेश्वरी ॥२॥ उर्ध्वदेशे पद्मिनी मामधस्तात् पातु वैष्णवी । एवं दशदिशो रक्षेत् सर्वदा भुवनेश्वरी ॥३॥ इन्द्र उवाच ॥ इन्द्राक्षी नाम सा देवी दैवतैः समुदाहृता । गौरी शाकम्भरी देवी दुर्गा नाम्नीति विश्रुता ॥४॥ नित्यानन्दा निराहारा निष्कलायै नमोऽस्तु ते । कात्यायनी महादेवी चन्द्रघण्टा महातपाः ॥५॥ सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी । नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला ॥६॥ अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । मेघस्वना सहस्राक्षी विकराङ्गी जडोदरी ॥७॥ महोदरी मुक्तकेशी घोररूपा महाबला । अजिता भद्रदाऽनन्ता रोगहर्त्री शिवप्रदा ॥८॥ शिवदूती कराली च प्रत्यक्षपरमेश्वरी । इन्द्राणी इन्द्ररूपा च इन्द्रशक्तिः परायणा ॥९॥ सदा संमोहिनी देवी सुन्दरी भुवनेश्वरी । एकाक्षरी परब्रह्मस्थूलसूक्ष्मप्रवर्धिनी ॥१०॥ रक्षाकरी रक्तदन्ता रक्तमाल्याम्बरा परा । महिषासुरहन्त्री च चामुण्डा खड्गधारिणी ॥११॥ वाराही नारसिंही च भीमा भैरवनादिनी । श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ॥१२॥ अनन्ता विजयाऽपर्णा मानस्तोकाऽपराजिता । भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा ॥१३॥ शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी । ऐरावतगजारूढा वज्रहस्ता वरप्रदा ॥१४॥ नित्या सकलकल्याणी सर्वैश्वर्यप्रदायिनी । दाक्षायणी पद्महस्ता भारती सर्वमङ्गला ॥१५॥ कल्याणी जननी दुर्गा सर्वदुर्गविनाशिनी । इन्द्राक्षी सर्वभूतेशी सर्वरूपा मनोन्मनी ॥१६॥ महिषमस्तकनृत्यविनोदनस्फुतरणन्मणिनूपुरपादुका । जननरक्षणमोक्षविधायिनी जयतु शुम्भनिशुम्भ निषूदिनी ॥१७॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते ॥१८॥ ॐ ह्रीं श्रीं इन्द्राक्ष्यै नमः। ॐ नमो भगवति। इन्द्राक्षि। सर्वजनसंमोहिनि। कालरात्रि। नारसिंहि। सर्वशत्रुसंहारिणि । अनले। अभये। अजिते। अपराजिते। महासिंहवाहिनि। महिषासुरमर्दिनि । हन हन। मर्दय मर्दय। मारय मारय। शोषय शोषय। दाहय दाहय। महाग्रहान् संहर संहर ॥१९॥ यक्षग्रहराक्षसग्रहस्कन्धग्रहविनायकग्रहबालग्रहकुमारग्रह भूतग्रहप्रेतग्रहपिशाचग्रहाअदीन् मर्दय मर्दय ॥२०॥ भूतज्वरप्रेतज्वरपिशाचज्वरान् संहर संहर । धूमभूतान् सन्द्रावय सन्द्रावय । शिरश्शूलकटिशूलाङ्गशूलपार्श्वशूल पाण्डुरोगादीन् संहर संहर ॥२१॥ यरलवशषसह। सर्वग्रहान् तापय तापय। संहर संहर। छेदय छेदय ह्रां ह्रीं ह्रूं फट् स्वाहा ॥२२॥ गुह्यात्गुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥२३॥ फलश्रुतिः नारायण उवाच ॥ एवं नामवरैर्देवी स्तुता शक्रेण धीमता । आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥१॥ वरं प्रादान्महेन्द्राय देवराज्यं च शाश्वतम् । इन्द्रस्तोत्रमिदं पुण्यं महदैश्वर्यकारणम् ॥२॥ क्षयापस्मारकुष्ठादितापज्वरनिवारणम् । चोरव्याघ्रभयारिष्ठवैष्णवज्वरवारणम् ॥३॥ माहेश्वरमहामारीसर्वज्वरनिवारणम् । शीतपैत्तकवातादिसर्वरोगनिवारणम् ॥४॥ शतमावर्तयेद्दस्तु मुच्यते व्याधिबन्धनात् । आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥५॥ राजानं च समाप्नोति इन्द्राक्षीं नात्र संशय । नाभिमात्रे जले स्थित्वा सहस्रपरिसंख्यया ॥६॥ जपेत्स्तोत्रमिदं मन्त्रं वाचासिद्धिर्भवेद्ध्रुवम् । सायंप्रातः पठेन्नित्यं षण्मासैः सिद्धिरुच्यते ॥७॥ संवत्सरमुपाश्रित्य सर्वकामार्थसिद्धये । अनेन विधिना भक्त्या मन्त्रसिद्धिः प्रजायते ॥८॥ सन्तुष्टा च भवेद्देवी प्रत्यक्षा सम्प्रजायते । अष्टम्यां च चतुर्दश्यामिदं स्तोत्रं पठेन्नरः ॥९॥ धावतस्तस्य नश्यन्ति विघ्नसंख्या न संशयः । कारागृहे यदा बद्धो मध्यरात्रे तदा जपेत् ॥१०॥ दिवसत्रयमात्रेण मुच्यते नात्र संशयः । सकामो जपते स्तोत्रं मन्त्रपूजाविचारतः ॥११॥ पञ्चाधिकैर्दशादित्यैरियं सिद्धिस्तु जायते । रक्तपुष्पै रक्तवस्त्रै रक्तचन्दनचर्चितैः ॥१२॥ धूपदीपैश्च नैवेद्यैः प्रसन्ना भगवती भवेत् । एवं सम्पूज्य इन्द्राक्षीमिन्द्रेण परमात्मना ॥१३॥ वरं लब्धं दितेः पुत्रा भगवत्याः प्रसादतः । एतत् स्त्रोत्रं महापुण्यं जप्यमायुष्यवर्धनम् ॥१४॥ ज्वरातिसाररोगाणामपमृत्योर्हराय च । द्विजैर्नित्यमिदं जप्यं भाग्यारोग्यमभीप्सुभिः ॥१५॥ ॥ इति इन्द्राक्षीस्तोत्रं सम्पूर्णम् ॥