Fragments of kaTha aranyaka ( charak Aranyaka )

युञ्जते मन इत्याहवनीये जुहोति । मनसा वै प्रजापतिर्यज्ञमतनुत । ततो वाचा ततः कर्मणा । मनसैवैतद्यजमानो यज्ञं वितत्य । ततो वाचा । ततः कर्मणा करोति १ देवस्य वस्सवितुः प्रसव इत्यभ्रीरादत्ते । सवितृप्रसूत एवैना देवताभिरादत्ते । चतस्र आदत्ते । चतस्रो वै दिशो । दिग्भ्यः प्रवर्ग्यस्सम्भ्रियते । दिग्भ्य एव प्रवर्ग्यँ सम्भरति । वानस्पत्या भवन्ति । वनस्पतिभिर्वै प्रवर्ग्यस्सम्भ्रियते । वनस्पतिभिरेव प्रवर्ग्यँ सम्भरति २ उत्तिष्ठ ब्रह्मणस्पत इत्युत्तिष्ठति । बृहस्पतिर्वै ब्रह्मणस्पतिर् । बृहस्पतिरेव भूत्वो-त्तिष्ठति ३ उपप्रयन्तु मरुतस्सुदानव इति । सुदानवो वै मरुत आरण्या । अरण्ये प्रवर्ग्यस्सम्भ्रियते । अरण्य एवारण्यं करोति ४ प्रैतु ब्रह्मणस्पतिरिति प्रतितिष्ठति । बृहस्पतिर्वै ब्रह्मणस्पतिर् । बृहस्पतिरेव भूत्वा । प्रतितिष्ठति ५ आ देव्येतु सूनृतेति । वाग्वै देवी सूनृता । वाचा प्रवर्ग्यस्सम्भ्रियते । वाचैव प्रवर्ग्यँ सम्भरति ६ अश्छा वीरं नर्यं पङ्क्तिराधसमिति । यज्ञो वै वीरो नर्यः पङ्क्तिराधा । देवेभ्य एव यज्ञँ सम्भरति ७ देवी द्यावापृथिवी देवयजनेऽनु मे मंसाथामितीमे वै महावीरात् सम्भ्रियमाणादबिभीताम् । तेजसा ना उद्धक्ष्यतीति । स बृहस्पतिरब्रवीद् । युवयोर्भागधेयमिति । तत एनमन्वमन्यताम् ८ ऋतस्य र्ध्यासमद्य मखस्य शिर इति सम्भरति । यज्ञस्यैव शिरस्सम्भरति । त्रिर्हरति । त्रिषत्या हि देवास् । समन्तमभ्रीः परिश्रयति । रक्षसाम्पराणुत्त्यै । प्रजापतेर्वै प्रजास्सिसृक्षमाणस्य तस्य तेजो यज्ञियमपाक्रामत् । तदिमाम्प्राविशत् । तद्वराहो भूत्वान्वविन्दद् ९ इत्यत्यग्र आसीरिति । यद्वराहविहतम्भवत्यस्या एव तेजो यज्ञियँ सम्भरति १० देवीर्वम्रियोऽस्य भूतस्य प्रथमजा इति । वम्रियो वा अस्य भूतस्य प्रथमजास् । ता वा एतद्विदुर्यत्रास्या जीवं यज्ञियं । यद्वल्मीकवापनाँ सम्भरत्यस्या एव जीवं यज्ञियँ सम्भरतीन्द्रो वै यद्वृत्रमहंस्तस्यौजो वीर्यमपाक्रामत् । तदोषधीः प्राविशत् । ते पूतीका अभवन्न् ११ इन्द्र स्यौजोऽसीति । यत्पूतीकानाँ सम्भरतीन्द्र स्यैवौजो वीर्यँ सम्भरति १२ प्रजापतेस्तनूरसीत्यजां दुहन्ति । प्रजापतेर्वा एषा प्रिया तनूर्यदजा । यदजां दुहन्ति । प्रजापतेरेव प्रियान्तन्वँ सम्भरति १३ मधु त्वा मधुला करोत्व् इत्यप उपसृजति । मधु वा एतन्मधुना संयौति । मधव्यो भवति १४ मखस्य शिरोऽसीति । पिण्डमुपादत्ते । यज्ञो वै मखो । यज्ञस्यैव शिरः करोति १५ यज्ञस्य पदे स्थ इत्यवबाधते । यज्ञस्यैव पदे करोति १६ गायत्रोऽसीति । प्रतममाधिमादधाति । तेजो वै ब्रह्म गायत्री । तेज एव ब्रह्म यजमाने दधाति १७ त्रैष्टुभोऽसीति द्वितीयमाधिमादधाति । ओजो वै वीर्यं त्रिष्टुब् । ओज एव वीर्यं यजमाने दधाति १८ जागतोऽसीति तृतीयमाधिमादधाति । पशवो वै जगती । पशूनेव यजमाने दधाति १९ मखोऽसीति मखमेवैनं करोति २० मखस्य रास्नासीति रास्नाम्करोति । यज्ञो वै मखो । यज्ञायैवैनङ् करोति । प्रादेशमात्रो भवति । एतावद्वै मुखं । मुखं देवानामग्निर् । मुखेन सम्मित उपरिष्टात्पात्रो भवति देवतानां तृप्त्यै । तृप्यति प्रजया पशुभिर् । उपैनँ सोमपीथो नमति । य एवं वेद २१ सूर्यस्य हरसा श्रायेत्यातपे निदधाति । अमुष्यैवैनमादित्यस्य तेजसा तपति । पूर्वम्पूर्वँ सादयतीमानेव लोका-न्रोहति २२ वृष्णो निष्पदसि प्राजापत्यमित्यश्वशकानि व्याहरति । प्राजापत्यो वा अश्वो । रूपेणैवैनँ समर्धयति २३ देवानान्त्वा पत्नीर्वृष्णो अश्वस्य निष्पदा धूपयन्त्वित्यश्वशकैर्धूपयति २४ प्राजापत्यो वा अश्वो । यज्ञं प्रजापतिस् सयोनित्वाय २४ अर्चिषे त्वा शोचिषे त्वा हरसे त्वेति शमीशाखा अभ्यादधाति । तेजो वा अग्निस्तेजश्शमीशाखास् । तेजस्येव तेजो दधाति २५ मित्रस्य चर्षणीधृत इत्युपतिष्ठते । मित्रायैवैनङ् करोति २६ देवस्त्वा सवित्रोद्वपत्व् इति सावित्रोद्वपति प्रसूत्या २७ अव्यथमानः पृथिव्यामाशा दिश आपृणेति । तस्मादग्निस्सर्वा दिशो विभाति २८ उत्तिष्ठ बृहन्भवो-र्ध्वस्तिष्ठ । ध्रुवस्त्वमिति । दृंहत्येवैनम् २९ इदमहममुमामुष्यायणममुष्याः पुत्रं तेजसा ब्रह्मवर्चसेन समर्धयामीति ब्राह्मणं । तेजो वै ब्रह्म गायत्री । तेजसैवैनं ब्रह्मवर्चसेन समर्धयति ३० यद्यभिचरेदिदमहममुमामुष्याय-णममुष्याः पुत्रन्तेजसा ब्रह्मवर्चसेन व्यर्धयामीति । तेजो वै ब्रह्म गायत्री । तेजसा ब्रह्मवर्चसेन व्यर्धयति ३१ इदमहममुमामुष्यायणममुष्याः पुत्रमोजसा वीर्येण समर्धयामीति राजन्यम् । ओजो वै वीर्यं त्रिष्टुब् । ओजसैवैनं वीर्येण समर्धयति ३२ यद्यभिचरेदिदमहममुमामुष्यायणममुष्याः पुत्रमोजसा वीर्येण व्यर्धयामीति ३३ ओजो वै वीर्यं त्रिष्टुब् । ओजसैवैनं वीर्येण व्यर्धयति २४ इदमहममुमामुष्यायणममुष्याः पुत्रमूर्जा पशुभिस्समर्धयामीति । वैश्यम्पशवो वै जगति । ऊर्जैवैनम्पशुभिस्समर्धयति ३४ यद्यभिचरेदिदमहममुमामुष्या-यणममुष्याः पुत्रमूर्जा पशुभिर्व्यर्धयामीति । पशवो वै जगति । ऊर्जैवैन-म्पशुभिर्व्यर्धयति ३५ इदमहम्मान्तेजसा ब्रह्मवर्चसेनौजसा वीर्येण प्रजया पशुभिरन्नाद्येन समर्धयामीति । आत्मा वै ब्रह्मवर्चसि । आत्मानमेव तत्तेजसा ब्रह्मवर्चसेनौजसा वीर्येण प्रजया पशुभिरन्नाद्येन समर्धयति ३६ ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वेति । यथायजुरपरमपरँ सादयतीमानेव लोकान्प्रत्यवरोहति ३७ सूर्यस्य त्वा चक्षुसान्वीक्ष इत्यवेक्षते । यद्वा इदम्मनुष्याणां चक्षुषा प्रेक्षेत । प्रदहेच्चक्षुरन्धाः प्रजा जायेरन् । सूर्यस्यैवैन-ञ्चक्षुषान्वीक्षते ३८ श्छृणत्तु त्वा वागिति । पयसाश्छृणत्ति । वाग्वै गायत्री । वाचैवैनमाश्छृणत्ति ३९ श्छृणत्तु त्वोर्गिति । अन्नं वा ऊर्ग् । अन्नाद्ये-नैवैनमाश्छृणत्ति ४० ष्छृणत्तु त्वा पय इति । पशवो वै पयं । पशुभिरेवैनमाश्छृणत्ति ४१ श्छृणत्तु त्वा रसः ४२ छृणत्तु त्वा हविः ४३ छृणत्तु त्वा सोमः ४४ छृणत्तु त्वा यज्ञः ४५ छृणत्तु त्वा ब्रह्म ४६ छृणत्तु त्वा प्रजापतिरिति । यथायजुः ४७ ब्रह्मन्प्रवर्ग्येण प्रचरिष्याम इत्यध्व-र्युर्ब्रह्माणमामन्त्रयते । ब्रह्मणि वा एतर्हि यज्ञस् । तस्मादेनमाह ४८ यजु-र्युक्तमिति ब्रह्मा । यजुषो वा एष रथो यद्यज्ञस् । तमध्वर्युरध्वरे युनक्ति । तदध्वर्योरध्वर्युत्वम् । अध्वर्युरेनम्प्रणयति । अध्वर्युरेवास्य सर्वस्य प्रणे-ताध्वर्युरन्यानृत्विजस्सम्प्रेष्यतीदङ् कुरुतेदङ् कुरुतेत्येवैतदाह ४९ सामभिरा-क्तखन्त्वेति । सामान्येवास्याभितश्चक्रे ५० विश्वाभिर्धीभिस्सम्भृतमिति । सर्वाभिर्वै धीभिर्यज्ञस्सम्भ्रियते । सर्वाभिरेव धीभिर्यजमानो यज्ञँ सम्भरति ५१ दक्षिणाभिः प्रततम्पारयिष्णुमिति । विततम्पारगं दक्षिणाभिरित्येवैतदाह ५२ स्तुभो वहन्तु सुमनस्यमाना इति । होत्रा वै स्तुभस् । ता वा एतर्हि यज्ञं वहन्ति ५४ भूर्भुवस्स्वरोमिति । एतद्वै वाचस्सत्यं । यदेव वाचस्सत्यन् । तेनैनँ सह प्रचरति ५५ इन्द्र वन्तः प्रचरतेति सेन्द्र त्वाय ५७ प्राच्या त्वा दिशाग्निना देवतया गायत्रेण श्छन्दसा वसन्तमृतुम्प्रविशामीति प्राचीञ्चैव वसन्तञ्च पुरस्तात्प्रविशन्त्यप्रदाहाय ५८ दक्षिणया त्वा दिशेन्द्रे ण देवतया त्रैष्टुभेन श्छन्दसा ग्रीष्ममृतुम्प्रविशामीति । दक्षिणान्चैव ग्रीष्मञ्च दक्षिणतः प्रविशन्त्यप्रदाहाय ५९ प्रतीच्या त्वा दिशा सवित्रा देवतया जागतेन श्छन्दसा वर्षा ऋतुम्प्रविशामीति । प्रतीचीञ्चैव वर्षाश्च पश्चात्प्रविशन्त्यप्रदाहाय ६० उदीच्या त्वा दिशा मित्रावरुणाभ्यान्देवतयाणुष्टुभेन श्छन्दसा शरदमृतु-म्प्रविशामीति । उदीचीञ्चैव शरदञ्चोत्तरात्प्रविशन्त्यप्रदाहाय ६१ उर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्क्तेन श्छन्दसा हेमन्तमृतुम्प्रविशामीति । ऊर्ध्वाञ्चैव हिमाञ्चोपरिष्टात्प्रविशन्त्यप्रदाहाय ६२ अनया त्वा दिशा प्रजापतिना देवतयानाप्तेन श्छन्दसा शिशिरमृतुम्प्रविशामीति इमाञ्चैव शिशिरञ्चास्याः परविशन्त्यप्रदाहाय ६३ गायत्रीं छन्दः प्रविशामीति । तेजो वै ब्रह्म गायत्री । तेज एव तत्प्रविशन्त्यप्रदाहाय ६४ त्रिष्टुभं छन्दः प्रविशामीति । ओजो वै वीर्यं त्रिष्टुब् । ओज एव तत प्रविशन्त्यप्रदाहाय ६५ जगतीं छन्दः प्रविशामीति । पशवो वै जगती । पशूनेव तत्प्रवि-शन्त्यप्रदाहाय ६६ अनुष्टुभं छन्दः प्रविशामीति । वाग्वा अनुष्टुब् । वाचमेव तत्प्रविशन्त्यप्रदाहाय ६७ पङ्क्तीं छन्दः प्रविशामीति । यज्ञो वै पङ्क्तिर् । यज्ञं तद्प्रविशन्त्यप्रदाहाय ६७-१ अतिश्छन्दसं छन्दः प्रविशामीति । श्छन्दांसि वा अतिश्छन्दाश् । छन्दांस्येव तत्प्रविशन्त्यप्रदाहाय ६८ श्छ-न्दांसि प्रविशामीति । पशवो वै श्छन्दांसि । पशूनेव तत्प्रविशन्त्यप्रदाहाय ६९ तानि नः पारयन्तु । तानि नोऽवन्त्व् इति । आशिषमेवाशास्ते ७० तानि स ऋश्छतु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्म इति । यमेव द्वेष्टि तँ शुचार्पयति ७१ आपो अस्मान्प्रविशन्त्वापो अस्मासु जागृतेति । आपस्सर्वा देवता देवता एव तत्प्रविशन्त्यप्रदाहाय ७२ आयुर्विश्वायुर्विश्वमायुर्व्यश्नवै सर्वमायुर्व्य-श्नवा इत्येवैतदाह । सर्वमायुरेति य एवं वेदाथो संवत्सरञ्चैव दिशश्च सर्वतो वर्म कुरुते ७३ यमाय त्वा मखाय त्वेति महावीरम्प्रोक्षति । यज्ञो वै मखो । यज्ञायैवैनम्प्रोक्षति । — प्रोक्षितानि प्रतिप्रस्थाता व्यायातयति । — प्रचरन्ति ७४ देव पुरश्चरर्घ्यासं त्वा स्वर्घ्यासन्त्वेति । वेदेन महावीरँ सम्मार्ष्टि । अथैवैनं त्रिस्सम्मार्ष्टि । त्रिषत्या हि देवास् । सर्वतस्सम्मार्ष्टि । सर्वत एवैनम्मेध्यं यज्ञियन्तेन करोति ७५ पृथिव्यास्संस्पृशस्पाहीति । रजतमधस्तादधिकर्षतीमे वै लोका महावीरात्प्रवृज्यमानादबिभयुस् । सर्वा-न्नोऽयन्तेजसोद्धक्ष्यतीति । प्रजापतिमुपाधावन् । स प्रजापतिः पृथिवी-मब्रवीद्र जत भूत्वा महावीरं धारयस्वेति । अन्तरिक्षमब्रवीद्वनस्पतिभि-स्त्वान्तर्धास्यामीति । दिवमब्रवीद्धरिता भूत्वोपरिष्टान्महावीरम्सहस्वेति । तस्माद्र जतमधस्तादधिकर्षति । पृथिव्या अप्रदाहाय ७६ अर्चिरसि शो-चिरसीति । ज्वलन्तमग्निँ हरतस्सतेजस्त्वाय ७७ अञ्जन्ति यमिति तस्मि-न्मुख्यं महावीरम्प्रयुनक्ति । तेजो वा अग्निस्तेजो महावीरस् । तेजस्येव तेजो दधाति ७८ प्राणाय स्वाहा । व्यानाय स्वाहापानाय स्वाहेति । — महावीरं घर्म्यम्प्रयुनक्ति । दिशो वै महावीरात्प्रवृक्तादबिभयुस्सर्वा नोऽयन्तेजसोद्धक्ष्यतीति । ताः प्रजापतिमुपाधावन् । स प्रजापतिर-ब्रवीत्प्रादेशंप्रादेशं वः प्रदहति । देवताभिर्वोऽन्तर्धास्यामीति । तस्मा-त्प्रादेशेन दिशो मिमीते ७९ अनाधृष्टा पुरस्तादग्नेराधिपत्य इति । अग्निमेव पुरस्तादन्तर्दधात्यप्रदाहाय ८० अयुर्मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८१ पुत्रवती दक्षिणत इन्द्र स्याधिपत्य इतीन्द्र मेव दक्षिणादन्तर्दधात्यप्रदाहाय ८२ प्रजां मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८३ सुषदा पश्चाद्देवस्य सवितुराधिपत्य इति । सवितारमेव पश्चादन्तर्दधात्यप्रदाहाय ८४ चक्षुर्मे दा इत्यात्मन एवैतामाशिषमाशास्त ८५ आश्रुतिरुत्तरान्मित्रावरुणयोराधिपत्य इति मित्रावरुणा एवोत्तरादन्तर्दधात्यप्रदाहाय ८६ श्रोत्रं मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८७ विधृतिरुपरिष्टाद्बृहस्पतेराधिपत्य इति । बृहस्पतिमेवोपरिष्टादन्तर्दधात्यप्रदाहाय ८८ वाचं मे दा इत्यात्मन एवैतामाशिषमाशास्ते । — । स्वाहेति परिश्रयतो । असौ वा आदित्यो रुद्रो महावीरो रश्मयो वै मरुतो । रश्मिभिरेवैनम्परिश्रयतो ८९ अन्तरिक्षस्यान्तर्धिरसीत्युपरिष्टात्समिधमादधाति । वनस्पतिभिरेवोपरिष्टा-दन्तर्दधाति ९० दिवस्सँ स्पृशस्पाहीति हरितेनापिदधाति दिवोऽप्रदाहाय ९१ अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमभ्वन्न वा ओजीयो रुद्र त्वदस्तीति । महिमानमेवास्यैतदुद्धर्षयति ९२ गायत्रमसि त्रैष्टुभमसि जागतमसीति । प्रतिप्रस्थात्रे प्रयश्छति । होत्रा वा ऋत्विजो । होत्राभ्य एवैनमेतत्सम्प्रयश्छति । एकमग्निधे प्रतिप्रस्थात्रे । प्रदक्षिणम्परियन्ति ९३ मधु मधु मध्व् इति धून्वन्ति । मधु सारघँ सम्भरिष्यामीत्येवैतदाह ९४ प्राणोऽसि व्यानोऽस्यपानोऽसीति । प्राणं व्यानमपानन्तानेव यजमाने दधाति ९६ श्रोत्रमसीति श्रोत्रमेव यजमाने दधाति । सर्व ऋत्विजः परिविशन्ति । होत्रा वा ऋत्विजो । होत्राभ्य एवैनमेतत्सम्प्रयश्छति ९७ अग्निष्ट्वा धूनोत्व् इत्येताभिरेवैनं देवताभिर्धूनोति । — । प्रज्वलिते रुक्ममपदत्ते । — दिव्यो गन्धर्वो भुवनस्य यस्पतिर्— इमे वै लोका भुवनं । तेषामेषोऽधिपतिर्यो रुद्र ः! — एकाव्यो मनसा विक्ष्व् ईड्य — तन्त्वा यामि ब्रह्मणा देव दैव्यमिति । यद्वा एनम्ब्रह्मणोपचरेयुर्हिंस्यादेनम् । ब्रह्म शिवं शान्तम् । ब्रह्मणैवैनमुपचरति ९८ दिवि ते सधस्थमिति दिवि ते गृहमित्येवैतदाह ९९ दिवि पृष्टो यजतस्सूर्यत्वगिति देवा वै रुद्र ँ! स्वर्गं लोकं गतं न व्यजानन्नादित्यवर्णं चरन्तन् । तेऽब्रुवन्कोऽसीति । अहं रुद्रो ऽहमिन्द्रो ऽहमादित्योऽहं सर्वस्यावया हरसो दिव्यस्येति । तेऽब्रुवन्निर्भजामैनमिति । तान्रुवन्नभ्यवदत् । तान्प्राध्रजत् । तेऽब्रुवन्भवान्सर्वमिति । यद्रुवन्नभ्यवदत्तद्रुद्र स्य रुद्र त्वं । यद्भवानिति तद्भवस्य भवत्वं यत्सर्वमिति तच्छर्वस्य शर्वत्वँ । स शिवोऽभवत् । तच्छिवस्य शिवत्वं । तेभ्योऽमृळत । तन्मृळस्य मृळत्वं । तं देवा अब्रुवन्भवस्य भूतस्य भव्यस्याधिपत्यमिति । सर्वस्याधिपत्यं यजमानं गमयति १०० अनवद्याभिस्समु जग्माभिरिति । होत्रा वा अनवद्यास् । ताभिर्वा एष प्रवर्ग्ये सङ्गश्छते ताभिरेव प्रवर्ग्यँ सङ्गमयति १०१ समुद्र आसां सदनं व आहुरिति । वेदा वै समुद्रा स् । तेषु वा एवैनम्प्रवर्ग्ये सङ्गमयति १०१-१ — अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ताभ्यो नमो अस्तु ता नो मृळयन्तु ता नश्शर्म यश्छन्तु तं यन्द्विष्मो यश्च नो द्वेष्टि तमासां जम्भे दध्मः १०१-२ — अपश्यं गोपामनिपद्यमानमिति । — आदित्य । एष लोकानां गोप्ता । नैष रात्रा न दिवा संविशति १०१-३ आ च परा च पथिभिश्चरन्तमिति । तस्मादेष सर्वान्पथोऽनुसञ्चरति यद्दक्षिणा यदुदङ् १०२ स सध्रीचीस्स विषूचीर्वसान इति । चतस्रो वा एतस्य दिशस्सध्रीचीश्चतस्रो विषूचीस् । ता वा एष वसान इमां ल्लोकांस्तेज-सावृणोति १०३ अत्र प्रावीर्मधु माध्वीभ्यां मधु माधूचीभ्यामिति १०४ यदा रुचितो घर्म इति मधु मधुघँ सम्भरिष्यामीत्येवैतदाह १०५ समग्निरग्निनागत सं देवेन सवित्रा सँ सूर्येण रोचते स्वाहेति । अत्र वा एष एतर्ह्यग्निरग्निना सङ्गश्छते १०७ समग्निस्तपसागत सं देवेन सवित्रा सं सूर्येणारुक्त । धर्ता दिवो रजसो विभाति धर्तोरोरन्तरिक्षस्य धर्ता पृथिव्या धर्ता देवो देवानाममर्त्यस्तपोजा इति । असौ वा आदित्य इमां ल्लोकांस्तेजसा धारयति १०८ हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वेत्यमुमेवैनं लोकं गमयति १०९ ऊर्ध्वमिममध्वरमिति यज्ञो वा अध्वरो यज्ञस्योर्ध्वत्वाय ११० दिवि देवेषु होत्रा यश्छेति । होत्राभि— —त १११ गर्भो देवानाम्पिता मतीनाम्पतिः प्रजानामिति गर्भो ह्येष देवानाम् । पिता मतीनाम्पतिः प्रजानाम् ११२ आयुर्दास्त्वमस्मभ्यं घर्मासि वर्चोदाः पिता नोऽसि पिता नो बोधीत्यात्मन एवैतामशिषमाशास्ते ११३ नमस्ते अस्तु मा मा हिंसीरित्यात्मनोऽहिंसायै ११४ त्वष्टृमन्तस्त्वा सपेमेत्यतो हीमाः प्रजाः प्रजायन्ते प्रजननाय यज्ञस्य वै शिरोऽस्छिद्यत । ता एतर्ह्यश्विना अघर्मपौ भिषजौ देवानामास्तां । तौ देवा अब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तमिति । ता अब्रूताम्वार्यं वृणावहा आवयोरेव प्रवर्ग्यो भवत्व् इति । तौ देवा अब्रुवन्सर्वं वै पर्य-गृह्णाथामस्तु नोऽत्रापीति । ता अब्रूतामावयोरग्रे दुह्यतामावयोरग्रे हूयतामिति । तस्मादेतयोरेवाग्रे दुह्यतेऽग्रे हूयते । वार्यवृतँ ह्येनयोस् । तौ यज्ञस्य शिरः प्रत्यधत्तान् । ततो यल्लोहितं समस्रवत्तत उदुम्बरस्समभवद् । यदौदुम्बराणि पात्राणि भवन्ति यज्ञ एवोर्जं दधाति । यो रसस्ते मुञ्जास् । तस्मान्मौञ्जं वेदं कुर्वन्ति । पवित्र — — आह्वयति । असा एहीति दिव एवैना-मेतदाह्वयति ११५ असा एहीत्यन्तरिक्षादेवैनामेतदाह्वयति ११६ असा एहीति पृथिव्या एवैनामेतदाह्वयति । ब्रह्म वा एतस्या वत्सो वेदास्स्तना । देवा वै ब्रह्मणा वत्सेन वाचमदुह्रन्पशूंश्चामृतञ्च । यो वै वेदानां गुह्यानि नामानि वेद सर्वमायुरेति ब्रह्मवर्चसी भवति प्रतितिष्ठत्यन्नवानन्नादो भवति । मयोभूरेको वसुविदेकस्सुदत्र एको विश्वपोष्येक इति । एतानि वै वेदानां गुह्यानि नामानि । सर्वमायुरेति ब्रह्मवर्चसी भवति प्रतितिष्ठत्यन्नवानन्नादो भवति य एवं वेद ११७ यस्ते स्तनश्शशयो यो मयोभूर्यो रत्नधा वसु-विद्यस्सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करि-त्यनुमन्त्रयते ११८ अदित्या उष्णीषमसीति । अभिधान्याभिधाय सुव्रतामेवैनां करोति ११९ पूषा त्वेति वत्समुपावसृजति सतनूत्वाय १२० घर्माय शिन्क्ष्वेत्यपवर्तयति । घर्म एवङ् घ १२१-१ श्वश्चरिष्यन्प्रवर्ग्येण पूर्वेद्युर्व-त्सवर्करौ अपाकुर्यात्तथा प्रातः
पयो वा दधि वानयेत्  — गाम्दुहन्ति । हस्त्यौष्ठ्य एवैनां दुहङ् ग्— — परासिञ्चन्यदजां दुहन्ति । घर्म एव तद्दुहति । ऊर्जं वैष तत्परासिञ्चन्यदजां दुहन्ति । घर्म एवोर्जँ सम्भरतस् १२१-२ तस्मादाहु-स्सहोर्जो भागेनोप मेहीन्द्र ?ाश्विना मधुनस्सारघस्य घर्मं पात वसवो यजत वळिति । महावीर ऊर्जमवनयतो । घर्म एवोर्जँ समानयतस् १२२ सूर्यस्य त्वा रश्मये वृष्टिवनये स्वाहेत्यूर्ध्वमुत्क्रान्तमनुमन्त्रयते । या वा इत आहु-तिरुदयते सामुतो वृष्टिं च्यावयति । स्वयैवाहुत्या दिवो वृष्टिं निनयति १२३ गायत्रोऽसि त्रैष्टुभोऽसीति शफा आदत्ते १२४ जागतोऽसीत्युपयामं । छन्दोभिरेवैनम्परिगृह्णाति १२५ द्यावापृथिवीभ्यान्त्वा परिगृह्णामीति शफा-भ्याम्महावीरम्परिगृह्णाति इमे वै शफा । आभ्यामेवैनम्परिगृह्णाति १२६ अन्तरिक्षेण त्वोपयश्छामीत्यधस्तादुपयामेन धारयति । अथो अन्तरिक्षं वा उपयामो । अन्तरिक्ष एवैनन्धारयति १२७ देवानान्त्वा पितॄणामनुमतो भर्तुँ शकेयमिति १२८-१ — स मुद्र ?ाय त्वा वाताय स्वाहेति जुहोति । यथायजुर्यज्जुहुयाद्रुद्र ?ाय पशूनपिदध्यादपशुस्स्याद् । यजुरेव वदेद् । रुद्र ?ादेव पशून्परिवृणक्ति । सर्वा वा एतर्ह्येतस्मिन्देवता आशँ सन्ते मह्यँ होष्यति मह्यँ होष्यतीति । देवता एवैनमभिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १२८-२ यदाहाग्नये त्वा वसुमते स्वाहेति देवता एव भागनीः करोत्यात्मनोऽहिँ सायै । यजुर्भाजोऽन्ये देवता आहितिभाजोऽन्ये । तानेवोभयान्प्रीणाति १२९ दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इतीमे वै लोका दिशश्चघर्मेऽपित्वमैश्छन्त १३० यदाह दिवि धा दिवं गश्छाण्तरिक्षं गश्छ पृथिवीं गश्छ पञ्च प्रदिशो गश्छेतीमानेव लोकान्दिशश्च घर्मे तर्पयति १३१ देवान्घर्मापान्गश्छेति । य एव देवा घर्मपास्तानेवं तद्घर्मे तर्पयति १३२ देवेभ्यस्त्वा घर्मपेभ्यस्स्वाहे-त्युपयामेन महावीरे जुहोति । य एव देवा घर्मपास्तानेव तद्घर्मे तर्पयति । देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । तेऽसुरा उपाँ शु प्रवर्ग्येणाचरन् । स एनान्निरदहद् । उच्चैर्देवाः प्रवर्ग्येणाचरन् । ते देवा अभवन्तेऽसुराः पराभवन् । — ग् हव् रा — — द्वितीयान् । तदेवास्यात्मने हुतं । वषट्कृतम्भवति १३३ घर्ममपातमश्विनेति यजमानस् । तृप्तिमेव तत्पृश्छति । अथो वषट्कृतम्भवति १३४ विश्वा आशा दक्षिणासदिति ब्रह्मा हुतमनुमन्त्रयते । तदेवास्यात्मने हुतम्भविति १३५ इषे पिन्वस्वोर्जे पिन्वस्वेतीषमेवोर्जं यज्ञे दधाति । अस्मै ब्रह्मणे पिन्वस्वामै क्षत्राय पिन्वस्वास्यै विशे पिन्वस्वेति ब्रह्मक्षत्रे विशं चैव भागिनः करोति १३६ अस्मै सुन्वते यजमानाय पिन्वस्वेति । यजमाना-यैवैतामाशिषमाशास्ते १३७ सुभूताय पिन्वस्वेति । भूतिमेवोपैति १३८ ब्रह्मवर्चसाय पिन्वस्वेति । ब्रह्मवर्चसी भवति १३९ मह्यमायुषे वर्चसे ज्यैष्ठ्याय रायस्पोषाय सुप्रजास्त्वाय पिन्वस्वेति । आत्मन एवैतामा-शिषमाशास्ते १४० त्विष्यै त्वा द्युम्नाय त्वा भूत्यै त्वेन्द्रि याय त्वेति प्रद-क्षिणम्पात्रम्प्रश्रयति । दिश एव भागिनीः करोत्यात्मनोऽहिम्सायै १४१ धर्मासि सुधर्मेमान्यस्मै ब्रह्माणि धारयेति । — रुद्र ?ो वा एष यदग्निर् । यथाग्नये समवद्यत्येवमेवैतद् १४२ भूर्भुवस्स्वर्हुतं हविर्मधु हविरिन्द्र तमेऽग्नौ स्वाहेत्यग्निहोत्रविधिं जुहोति । संस्थितिरेवैषा स्वर्गाकृतिर् । अथो अनन्तर्हित्यै मनसा प्राजापत्या जुहोति । मन इव वै प्रजापतिः । प्राजापत्यो यज्ञो । यज्ञमेव सन्तनोति । प्राश्या३ न प्राश्या३ इति मीमाँ सन्ते । यत्प्राश्नीयात्प्राकारुकस्स्याद्यन्न प्राश्नीयादहविस्स्याद् । अवजिघ्रेद् । उभयमेव करोति । यजमान एव प्राश्नाति । ब्रह्मवर्चसमेवात्मन्धत्ते १४३ सँ साद्यमानायानुब्रूहीत्याह प्रतिष्ठाया १४४ अह्ने त्वा सूर्याय त्वा रा त्र्?यै त्वा नक्षत्रेभ्यस्त्वेत्यहोरात्रे सूर्यनक्षत्राणि चैव भागिनः करोति । युञ्जतेब्राह्मणमन्त्रा समाप्ता । घर्माजठराब्राह्मणः १४५ घर्माजठरान्नादम्मास्मिञ्जने कुरुतमन्नादोऽहमस्मिञ्जने भूयासमितीन्द्र ?ाग्नी वै देवानां घर्माजठरौ । ता अन्ना-द्यस्येशाते । ता अस्मा अन्नाद्यम्प्रयश्छतो । अन्नादो भवति य एवं वेद १४६ कवीमातरिश्वाना पुष्टिवन्तं मास्मिञ्जने कुरुतम्पुष्टिवानहमस्मिञ्जने भूयासमिति । — वै देवानां कवीमातरिश्वानौ । तौ पुष्टेरीशाते । ता अस्मै पुष्टिम्प्र-यश्छतः । पुष्टिवान्भवति य एवं वेद १४७ अर्कासधस्था चक्षुष्म-न्तम्मास्मिञ्जने कुरुतम्चक्षुष्मानहमस्मिञ्जने भूयासमिति । मित्रावरुणा वै देवानामर्कासधस्था । तौ चक्षुष ईशाते । ता अस्मै चक्षुः प्रयश्छतश् । चक्षुष्मान्भवति य एवं वेद १४७-१ पितरामातरा श्रोत्रवन्तं मास्मिञ्जने कुरुतं श्रोत्रवानहमस्मिञ्जने भूयासमिति । द्यावापृथिवी वै देवानां पितरामातरौ तौ श्रोत्रस्येशाते । ता अस्मै श्रोत्रं प्रयश्छतस् । श्रोत्रवान्भवति य एवं वेद १४८ यमाङ्गिरसा आयुष्मन्तं मास्मिञ्जने कुरुतमायुष्मानहमस्मिञ्जने भूयासमिति । यमश्चैव वरुणश्च देवानां यमाङ्गिरसौ । ता आयुष ईशाते । ता अस्मा आयुः प्रयश्छत । आयुष्मान्भवति य एवं वेद १४९ अश्याम ते घर्म मधुमतः पितुमतो नमस्ते अस्तु मा मा हिँ सीरित्यात्मनोऽहिंसायै १५० ज्योतिरसि वनस्पतीनां रस इति मधुना प्रथमम्पूरयति । वनस्पतीनां वा एष पुष्पफला-नाम्रसो यन्मधु । तेनैवैनं समर्धयति । तदाहायुर्वै मध्व् । आयुरग्नौ प्रदध्यात्प्रमायुकस्स्यादिति १५१ यदाहायुर्मयि धेहीत्यायुरेवात्मन्धत्त आयु-ष्मान्भवति १५२ ज्योतिर्भा अस्यपामोषधीनां रस इति घृतेन द्वितीयमेतद्वा एतस्य प्रियं धाम । तेनैवैनँ समर्धयति । यदाह चक्षुर्मयि धेहीति चक्षुरेवात्मन्धत्ते चक्षुष्मान्भवति । — इति दध्ना तृतीयम् । एतद्वा एतस्य प्रियं धाम तेनैवैनं समर्धयति । यदाहोर्जम्मयि धेहीत्यूर्जम्—एवात्मन्धत्त । ऊर्जस्वान्भवति १५३ उग्रश्च धुनिश्चेत्यरण्येऽनुवाक्यो गणश्शान्त्या १५४ अग्ने व्रतपते वायो व्रतपते सूर्य व्रतपत इति । एते वै देवानां व्रतपतयस् । तेभ्य एव प्रोच्यावान्तरदीक्षामुपैति १५५ पृथिवी समिदिति यथायजुः १५६ अहः केतुना जुषतां सुज्योतिर्ज्योतिषाम्स्वाहेति रौहिणं जुहोति । असौ वा आदित्योऽह्नां केतू १५७ रात्री केतुना जुषताम्सुज्योतिर्ज्योतिषां स्वाहेति रौहिणं जुहोति । चन्द्र मा वै रात्रीणां केतुश् । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ । चक्षुषी रौहिणौ चक्षुषोरेव चक्षुर्दधाति १५८ नमो रुद्र ?ाय दिविषदे यस्य वर्षमिषव इति । वर्षं वा एष इशूः कृत्वा प्रजा हिनस्ति यदोग्रं वर्षति १५९ तस्मै नम इति वर्षमेव शिवं करोति १६० तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६१ नमो रुद्र ?ायान्तरिक्षसदे यस्य वात इषव इति । वातं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रं वाति १६३ तस्मै नम इति वातमेव शिवङ् करोति १६४ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६५ नमो रुद्र ?ाय पृथिवीषदे यस्यान्नमिषव इत्यन्नं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रम् १६६ तस्मै नम इति अन्नमेव शिवङ् करोति १६६-१ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह । —ऋचो यजूँ षि सामानि—स्तुतिभिरेवैनँ —स्तौति १६६-२ यद्ब्रह्मण-श्शृणवो भूरिति ब्रह्मवर्चसमेवात्मन्धत्ते । तस्मान्नाश्रोत्रिय प्रवृञ्ज्यान् । न वा एष तर्हि श्रुतब्रह्मा भवति १६७ अत्र भूयिष्ठभाज इह ते स्यामेति । वेदानामेवैनं भागिनं करोति । तस्मादाहुरध्वर्युर्वा अध्वरं वेदाध्व-र्युरन्येषामग्रणीर्भवति १६८ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शत इति । यद्वा एष वरुणो भूत्वा प्रजा अभितपेन्न कञ्चनावशिँ स्यान् । मित्र एव भूत्वा प्रजा अभितपति १६९ सं सूर्येण दिद्युतदिति । सूर्यस्येव वा एष एतस्य प्रकाशो भवति यस्यैष प्रवृज्यते । सर्वा वा एतर्ह्येतस्मिन्देवता अध्वर्योर्दधिघर्म आशँ सन्ते मह्यं ग्रहीष्यति । मह्यङ् ग्रहीष्यतीति । देवता एवैनम-भिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १७० यदेताभ्यां सर्वदेवत्याभ्यां गृह्णाति यमिन्द्रं यावतीति देवता एव भागिनीः करोत्यात्मनोऽहिंसायै । सर्वमायुरेति य एवं वेद १७२ पूष्ण आघृणये स्वाहेति पञ्चाहुतीर्जुहोति । पूषा वै रुद्र ?ो रुद्र आघृणिर् । एतानि वै रुद्र स्य उग्राणि नामानि । — उद्वासनङ्करिष्यन्सर्वाभ्यो देवताभ्य एव निरवदयते । सर्वमायुरेति य एवं वेद १७३ या ते घर्म दिवि शुग्या जागते श्छन्दसि या सप्तदशे स्तोमे या हविर्धाने तान्त एतदवयजे तस्यै स्वाहेति । अमुष्या एवैनमेतज् जागताच्छन्दसस्सप्तदशात्स्तोमाद्धविर्धानाच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७४ या ते घर्मान्तरिक्षे शुग्या त्रैष्टुभे श्छन्दसि या पञ्चदशे स्तोमे याग्नीध्रे तान्त एतदवयजे तस्यै स्वाहेति । अन्तरिक्षादेवैनमेतत्त्रैष्टु-भाच्छन्दसः पञ्चदशात्स्तोमादाग्नीध्राच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७५ या ते घर्म पृथिव्यां शुग्या गायत्रे श्छन्दसि या त्रिवृति स्तोमे या सदसि तान्त एतेनाव्यजे तस्यै स्वाहेति । अस्या एवैनमेतद्गायत्राच्छन्दस-स्त्रिवृतस्स्तोमात्सदसस्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७६ अन्व् अद्य नो अनुमत इति प्रतिष्ठिते जुहोतीयं वा अनुमतिरियं प्रतिष्ठास्यामेवं प्रतितिष्थति मधुना प्रथमम्पूरयति । एतद्वा एतस्य प्रियं धाम । तेनैवैनं समर्धयति । — त — इति प्राञ्चमध्युदानयन्ति । एष वै देवलोको देवलोकमेवैनमभ्युदानयन्ति । पत्नीमुदानयन्त्यस्थूरित्वाय वाससा पत्नीं प्रश्छादयति । सर्वदेवत्यं वै वासस् । सर्वाभिरेवैनां देवताभिस्समर्धयति । साम सम्प्रेष्यति । उपगायनमेवास्यैतद् १७७ अथो न्येवास्मै ह्नुवते-ऽभिप्रयान्ति दिवस्त्वा परस्पामन्तरिक्षस्य तन्वम्पाहि पृथिव्यास्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इतीमां ल्लोकान्मा हिँ सीरित्येवैतदाह १७८ प्राणम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । व्यध्वे द्वितीय-मुपयन्त्यभिप्रयान्ति १८० ब्रह्मणस्त्वा परस्पां क्षत्रस्य तन्वं पाहि विशस्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्रजाम्मा हिँ सीरित्येवैतदाह १८१ व्यानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्त १८२ उपप्राप्य तृतीयमुपयन्त्यभिप्रयान्ति प्राणस्य त्वा परस्पां चक्षुषस्तन्वम्पाहि श्रोत्रस्य त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्राणान्मा हिँ सीरित्येवैतदाह १८३ अपानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । — वेदा भवन्ति । केशानेवैनान्तत्करोति । अभितः कपालानि । कपालान्येव तत्करोति । अभितो रुक्मौ निदधाति । चक्षुषी एव तत्करोति । पश्चाच्चरुष्ठाली निदधाति । आस्यमेव तत्करोति । पश्चात्स्रुवं निदधाति । ग्रीवामेव तत्करोति । अभितश्शफौ निदधाति । अँ सा एव तत्करोति । स्रुचौ बाहू करोति । सात्मत्वायाभितो धवित्रे भवतः । पार्श्वे एव तत्करोति । मध्य उपयामो रज्ज्वोश्च वैणवानि भवन्ति । उदरमेव तत्करोति । पश्चादौष्ठ्यौ निदधाति । उपस्थमेव तत्करोति । अभितो मयूखा भवन्ति । जङ्घे ऊरू एव तत्करोति । अभितो धृष्टी निदधाति । पादा एव तत्करोति । मध्ये धवित्रम्निदधाति । नाभिमेव तत्करोति । उपर्यासन्दीम्निदधाति । उर एव तत्करोति । कृष्णाजिनेन प्रश्छादयति । ब्रह्मणो वा एतद्रू पम्यत्कृष्णाजिनं । ब्रह्मणैवैनम्प्रश्छादयति । मुञ्जैः प्रश्छादयति । ऊर्ग्वै मुञ्जा ऊर्जैवैनं प्रश्छादयति । दध्ना संसृजति सतेजस्त्वायाघातुक एनँ रुद्र ?ो भवति हँ सवत्करोति । असौ वा आदित्यो हँ सा ए—परिषिञ्च्— १८३-१ — परिषिञ्चन्पर्येति वल्गुरसि वयोधाया इति । वय एवास्यैतदर्धयति १८४ शिशुर्जनधाया इति । रूपमेवास्यैतन्महिमानं व्याचष्टे । यदि वयाँ स्युपासीरन्घर्ममेताः प्रजा उपासिष्यन्त इति विद्यात् १८५ तस्माद्वयोभ्यः परिरक्षेतासृङ्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन समयति १८६ शञ्च वक्षि परि च वक्षीत्याशिषमेवाशास्ते १८७ सुमित्रा न आप इत्यप उत्सिञ्चन्ति । सुमित्रा एवैनां करोति १८८ दुर्मित्रास्तस्मै सन्त्व् इति यस्यामस्य दिशि द्वेष्यस्स्यात्तान्दिशम्परासिञ्चेद् । दुर्मित्रा एवैनाः करोत्ति १८९ एतत्ते घर्मान्नमेतत्पुरीषमिति । घृतं वै दधि । मध्व् इत्येतस्यान्नन् । तेनैवैनँ समर्धयति १९० तेन त्वं वर्धस्वेत्यन्नाद्येनैवैनँ समर्धयति १९२ वर्धिषीमहि च वयमा च प्यायिषीमहीत्याशिषमेवाशास्ते १९३ रन्तिर्नामासीति । एतद्वै रुद्र स्य शिवो नाम । — इति । आत्मन एवैतामाशिषमाशास्त १९४ इन्दुर्दक्षश्श्येन ऋतावा हिरण्यपक्षस् १९५-१ सोमपीथानु मेह्येधोऽस्येधि-षीमहीति । रुद्र मेव निरवदयन्ते । नैवैनँ शुचार्पयन्ति १९५-२ समिदसि समेधिषीमहीत्याशिषमेवाशास्ते १९६ पुनर्तेजो मयि धेहीति तेज एवात्मन्धत्त १९७ उदु त्यञ्जातवेदसमिति दशाहुतीर्जुहोति । दशाक्षरा विराडन्नं विराड् । विराज्येवान्नाद्ये प्रतितिष्ठति । किन्दीक्षया स्पृणोतीत्याहुः किमवान्तर-दीक्षयेति । आत्मानमेव दीक्षया स्पृणोति प्रजामवान्तरदीक्षया । द्वादश वा एष वर्षाणि दीक्षितो भवति यो ब्रह्मचारी । तस्य वा एषा दीष्का यदवान्तरदीक्षा । मेखलामाबध्नाते । दण्डमुपयश्छति । समिध आहरति । पुनरध्याहरति । औदुम्बरीर्भवन्ति । ऊर्ग्वा उदुम्बर । ऊर्जमेव ब्रह्म-चारिणि निदधाति । पर्णमयीर्भवन्ति । ब्रह्मवर्चसं वै पर्णो । ब्रह्मवर्चसमेव ब्रह्मचारिणि निदधाति । शमीमयीर्भवन्ति । तेजो वै शमी । तेज एव ब्रह्मचारिणि निदधाति १९८ अग्ने व्रतपते पृथिवी समिदिति प्रथमाँ समि-धमादधाति । अग्निर्वै देवानाम्पृथिव्यायां व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-१ वायो व्रतपते अन्तरिक्षस्समिदिति द्वितीयां समिधमादधाति । वायुर्वै देवानामन्तरिक्षे व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-२ सूर्य व्रतपते द्यौस्समिदिति तृतीयां समिधमादधाति । सूर्यो वै देवानाममुष्मिं ल्लोके व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति । नाभिव्याहरति नाभिप्रेक्षते । तेज एवात्मन्धत्ते । पर्वणि तिष्ठेद्दिवा आसीत नक्तँ सतेजस्त्वायाग्निनादित्येन च श्रीतमश्नाति । हविर्वै दीक्षितो । हविरेवात्ति । समाप्तेऽन्वाह । प्र वा इतरेभ्यो लोकेभ्यश्च्यवते यो ब्रह्मचारी । यदित ऊर्ध्वं समिध आदधात्य-मुष्मिंस्तेन लोके प्रतितिष्ठति । यदमुतोऽर्वाङ् प्रत्यादधात्यस्मिंस्तेन लोके प्रतितिष्ठति । यदा गर्मुतो विरोहति तदानुब्रूयाद् । धरिणो यदा यवमत्ति तदानुब्रूयात् । सूकरो यदा बिसमत्ति तदानुब्रूयाद् । रूपसमृद्धिमेवान्वाह । तेजसा वा एष प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन च व्यृद्ध्यते यो ब्रह्मचारी

पयो वा दधि वानयेत् ४८ — गाम्दुहन्ति । हस्त्यौष्ठ्य एवैनां दुहङ् ग्— — परासिञ्चन्यदजां दुहन्ति । घर्म एव तद्दुहति । ऊर्जं वैष तत्परासिञ्चन्यदजां दुहन्ति । घर्म एवोर्जँ सम्भरतस् १२१-२ तस्मादाहु-स्सहोर्जो भागेनोप मेहीन्द्रा श्विना मधुनस्सारघस्य घर्मं पात वसवो यजत वळिति । महावीर ऊर्जमवनयतो । घर्म एवोर्जँ समानयतस् १२२ सूर्यस्य त्वा रश्मये वृष्टिवनये स्वाहेत्यूर्ध्वमुत्क्रान्तमनुमन्त्रयते । या वा इत आहु-तिरुदयते सामुतो वृष्टिं च्यावयति । स्वयैवाहुत्या दिवो वृष्टिं निनयति १२३ गायत्रोऽसि त्रैष्टुभोऽसीति शफा आदत्ते १२४ जागतोऽसीत्युपयामं । छन्दोभिरेवैनम्परिगृह्णाति १२५ द्यावापृथिवीभ्यान्त्वा परिगृह्णामीति शफा-भ्याम्महावीरम्परिगृह्णाति इमे वै शफा । आभ्यामेवैनम्परिगृह्णाति १२६ अन्तरिक्षेण त्वोपयश्छामीत्यधस्तादुपयामेन धारयति । अथो अन्तरिक्षं वा उपयामो । अन्तरिक्ष एवैनन्धारयति १२७ देवानान्त्वा पितॄणामनुमतो भर्तुँ शकेयमिति १२८-१ — स मुद्रा य त्वा वाताय स्वाहेति जुहोति । यथायजुर्यज्जुहुयाद्रुद्रा य पशूनपिदध्यादपशुस्स्याद् । यजुरेव वदेद् । रुद्रा देव पशून्परिवृणक्ति । सर्वा वा एतर्ह्येतस्मिन्देवता आशँ सन्ते मह्यँ होष्यति मह्यँ होष्यतीति । देवता एवैनमभिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १२८-२ यदाहाग्नये त्वा वसुमते स्वाहेति देवता एव भागनीः करोत्यात्मनोऽहिँ सायै । यजुर्भाजोऽन्ये देवता आहितिभाजोऽन्ये । तानेवोभयान्प्रीणाति १२९ दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इतीमे वै लोका दिशश्चघर्मेऽपित्वमैश्छन्त १३० यदाह दिवि धा दिवं गश्छाण्तरिक्षं गश्छ पृथिवीं गश्छ पञ्च प्रदिशो गश्छेतीमानेव लोकान्दिशश्च घर्मे तर्पयति १३१ देवान्घर्मापान्गश्छेति । य एव देवा घर्मपास्तानेवं तद्घर्मे तर्पयति १३२ देवेभ्यस्त्वा घर्मपेभ्यस्स्वाहे-त्युपयामेन महावीरे जुहोति । य एव देवा घर्मपास्तानेव तद्घर्मे तर्पयति । देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । तेऽसुरा उपाँ शु प्रवर्ग्येणाचरन् । स एनान्निरदहद् । उच्चैर्देवाः प्रवर्ग्येणाचरन् । ते देवा अभवन्तेऽसुराः पराभवन् । — ग् हव् रा — — द्वितीयान् । तदेवास्यात्मने हुतं । वषट्कृतम्भवति १३३ घर्ममपातमश्विनेति यजमानस् । तृप्तिमेव तत्पृश्छति । अथो वषट्कृतम्भवति १३४ विश्वा आशा दक्षिणासदिति ब्रह्मा हुतमनुमन्त्रयते । तदेवास्यात्मने हुतम्भविति १३५ इषे पिन्वस्वोर्जे पिन्वस्वेतीषमेवोर्जं यज्ञे दधाति । अस्मै ब्रह्मणे पिन्वस्वामै क्षत्राय पिन्वस्वास्यै विशे पिन्वस्वेति ब्रह्मक्षत्रे विशं चैव भागिनः करोति १३६ अस्मै सुन्वते यजमानाय पिन्वस्वेति । यजमाना-यैवैतामाशिषमाशास्ते १३७ सुभूताय पिन्वस्वेति । भूतिमेवोपैति १३८ ब्रह्मवर्चसाय पिन्वस्वेति । ब्रह्मवर्चसी भवति १३९ मह्यमायुषे वर्चसे ज्यैष्ठ्याय रायस्पोषाय सुप्रजास्त्वाय पिन्वस्वेति । आत्मन एवैतामा-शिषमाशास्ते १४० त्विष्यै त्वा द्युम्नाय त्वा भूत्यै त्वेन्द्रि याय त्वेति प्रद-क्षिणम्पात्रम्प्रश्रयति । दिश एव भागिनीः करोत्यात्मनोऽहिम्सायै १४१ धर्मासि सुधर्मेमान्यस्मै ब्रह्माणि धारयेति । — रुद्रो वा एष यदग्निर् । यथाग्नये समवद्यत्येवमेवैतद् १४२ भूर्भुवस्स्वर्हुतं हविर्मधु हविरिन्द्र तमेऽग्नौ स्वाहेत्यग्निहोत्रविधिं जुहोति । संस्!थितिरेवैषा स्वर्गाकृतिर् । अथो अनन्तर्हित्यै मनसा प्राजापत्या जुहोति । मन इव वै प्रजापतिः । प्राजापत्यो यज्ञो । यज्ञमेव सन्तनोति । प्राश्या३ न प्राश्या३ इति मीमाँ सन्ते । यत्प्राश्नीयात्प्राकारुकस्स्याद्यन्न प्राश्नीयादहविस्स्याद् । अवजिघ्रेद् । उभयमेव करोति । यजमान एव प्राश्नाति । ब्रह्मवर्चसमेवात्मन्धत्ते १४३ सँ साद्यमानायानुब्रूहीत्याह प्रतिष्ठाया १४४ अह्ने त्वा सूर्याय त्वा रात्र्! यै त्वा नक्षत्रेभ्यस्त्वेत्यहोरात्रे सूर्यनक्षत्राणि चैव भागिनः करोति । १४५
|| युञ्जतेब्राह्मणमन्त्रा समाप्ता | |
  घर्माजठराब्राह्मणः  घर्माजठरान्नादम्मास्मिञ्जने कुरुतमन्नादोऽहमस्मिञ्जने भूयासमितीन्द्रा ग्नी वै देवानां घर्माजठरौ । ता अन्ना-द्यस्येशाते । ता अस्मा अन्नाद्यम्प्रयश्छतो । अन्नादो भवति य एवं वेद १४६ कवीमातरिश्वाना पुष्टिवन्तं मास्मिञ्जने कुरुतम्पुष्टिवानहमस्मिञ्जने भूयासमिति । — वै देवानां कवीमातरिश्वानौ । तौ पुष्टेरीशाते । ता अस्मै पुष्टिम्प्र-यश्छतः । पुष्टिवान्भवति य एवं वेद १४७ अर्कासधस्था चक्षुष्म-न्तम्मास्मिञ्जने कुरुतम्चक्षुष्मानहमस्मिञ्जने भूयासमिति । मित्रावरुणा वै देवानामर्कासधस्था । तौ चक्षुष ईशाते । ता अस्मै चक्षुः प्रयश्छतश् । चक्षुष्मान्भवति य एवं वेद १४७-१ पितरामातरा श्रोत्रवन्तं मास्मिञ्जने कुरुतं श्रोत्रवानहमस्मिञ्जने भूयासमिति । द्यावापृथिवी वै देवानां पितरामातरौ तौ श्रोत्रस्येशाते । ता अस्मै श्रोत्रं प्रयश्छतस् । श्रोत्रवान्भवति य एवं वेद १४८ यमाङ्गिरसा आयुष्मन्तं मास्मिञ्जने कुरुतमायुष्मानहमस्मिञ्जने भूयासमिति । यमश्चैव वरुणश्च देवानां यमाङ्गिरसौ । ता आयुष ईशाते । ता अस्मा आयुः प्रयश्छत । आयुष्मान्भवति य एवं वेद १४९ अश्याम ते घर्म मधुमतः पितुमतो नमस्ते अस्तु मा मा हिँ सीरित्यात्मनोऽहिंसायै १५० ज्योतिरसि वनस्पतीनां रस इति मधुना प्रथमम्पूरयति । वनस्पतीनां वा एष पुष्पफला-नाम्रसो यन्मधु । तेनैवैनं समर्धयति । तदाहायुर्वै मध्व् । आयुरग्नौ प्रदध्यात्प्रमायुकस्स्यादिति १५१ यदाहायुर्मयि धेहीत्यायुरेवात्मन्धत्त आयु-ष्मान्भवति १५२ ज्योतिर्भा अस्यपामोषधीनां रस इति घृतेन द्वितीयमेतद्वा एतस्य प्रियं धाम । तेनैवैनँ समर्धयति । यदाह चक्षुर्मयि धेहीति चक्षुरेवात्मन्धत्ते चक्षुष्मान्भवति । — इति दध्ना तृतीयम् । एतद्वा एतस्य प्रियं धाम तेनैवैनं समर्धयति । यदाहोर्जम्मयि धेहीत्यूर्जम्—एवात्मन्धत्त । ऊर्जस्वान्भवति १५३ उग्रश्च धुनिश्चेत्यरण्येऽनुवाक्यो गणश्शान्त्या १५४ अग्ने व्रतपते वायो व्रतपते सूर्य व्रतपत इति । एते वै देवानां व्रतपतयस् । तेभ्य एव प्रोच्यावान्तरदीक्षामुपैति १५५ पृथिवी समिदिति यथायजुः १५६ अहः केतुना जुषतां सुज्योतिर्ज्योतिषाम्स्वाहेति रौहिणं जुहोति । असौ वा आदित्योऽह्नां केतू १५७ रात्री केतुना जुषताम्सुज्योतिर्ज्योतिषां स्वाहेति रौहिणं जुहोति । चन्द्र मा वै रात्रीणां केतुश् । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ । चक्षुषी रौहिणौ चक्षुषोरेव चक्षुर्दधाति १५८ नमो रुद्रा य दिविषदे यस्य वर्षमिषव इति । वर्षं वा एष इशूः कृत्वा प्रजा हिनस्ति यदोग्रं वर्षति १५९ तस्मै नम इति वर्षमेव शिवं करोति १६० तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६१ नमो रुद्रा यान्तरिक्षसदे यस्य वात इषव इति । वातं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रं वाति १६३ तस्मै नम इति वातमेव शिवङ् करोति १६४ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६५ नमो रुद्रा य पृथिवीषदे यस्यान्नमिषव इत्यन्नं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रम् १६६ तस्मै नम इति अन्नमेव शिवङ् करोति १६६-१ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह । —ऋचो यजूँ षि सामानि—स्तुतिभिरेवैनँ —स्तौति १६६-२ यद्ब्रह्मण-श्शृणवो भूरिति ब्रह्मवर्चसमेवात्मन्धत्ते । तस्मान्नाश्रोत्रिय प्रवृञ्ज्यान् । न वा एष तर्हि श्रुतब्रह्मा भवति १६७ अत्र भूयिष्ठभाज इह ते स्यामेति । वेदानामेवैनं भागिनं करोति । तस्मादाहुरध्वर्युर्वा अध्वरं वेदाध्व-र्युरन्येषामग्रणीर्भवति १६८ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शत इति । यद्वा एष वरुणो भूत्वा प्रजा अभितपेन्न कञ्चनावशिँ स्यान् । मित्र एव भूत्वा प्रजा अभितपति १६९ सं सूर्येण दिद्युतदिति । सूर्यस्येव वा एष एतस्य प्रकाशो भवति यस्यैष प्रवृज्यते । सर्वा वा एतर्ह्येतस्मिन्देवता अध्वर्योर्दधिघर्म आशँ सन्ते मह्यं ग्रहीष्यति । मह्यङ् ग्रहीष्यतीति । देवता एवैनम-भिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १७० यदेताभ्यां सर्वदेवत्याभ्यां गृह्णाति यमिन्द्रं यावतीति देवता एव भागिनीः करोत्यात्मनोऽहिंसायै । सर्वमायुरेति य एवं वेद १७२ पूष्ण आघृणये स्वाहेति पञ्चाहुतीर्जुहोति । पूषा वै रुद्रो रुद्र आघृणिर् । एतानि वै रुद्र स्य उग्राणि नामानि । — उद्वासनङ्करिष्यन्सर्वाभ्यो देवताभ्य एव निरवदयते । सर्वमायुरेति य एवं वेद १७३ या ते घर्म दिवि शुग्या जागते श्छन्दसि या सप्तदशे स्तोमे या हविर्धाने तान्त एतदवयजे तस्यै स्वाहेति । अमुष्या एवैनमेतज् जागताच्छन्दसस्सप्तदशात्स्तोमाद्धविर्धानाच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७४ या ते घर्मान्तरिक्षे शुग्या त्रैष्टुभे श्छन्दसि या पञ्चदशे स्तोमे याग्नीध्रे तान्त एतदवयजे तस्यै स्वाहेति । अन्तरिक्षादेवैनमेतत्त्रैष्टु-भाच्छन्दसः पञ्चदशात्स्तोमादाग्नीध्राच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७५ या ते घर्म पृथिव्यां शुग्या गायत्रे श्छन्दसि या त्रिवृति स्तोमे या सदसि तान्त एतेनाव्यजे तस्यै स्वाहेति । अस्या एवैनमेतद्गायत्राच्छन्दस-स्त्रिवृतस्स्तोमात्सदसस्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७६ अन्व् अद्य नो अनुमत इति प्रतिष्ठिते जुहोतीयं वा अनुमतिरियं प्रतिष्ठास्यामेवं प्रतितिष्थति मधुना प्रथमम्पूरयति । एतद्वा एतस्य प्रियं धाम । तेनैवैनं समर्धयति । — त — इति प्राञ्चमध्युदानयन्ति । एष वै देवलोको देवलोकमेवैनमभ्युदानयन्ति । पत्नीमुदानयन्त्यस्थूरित्वाय वाससा पत्नीं प्रश्छादयति । सर्वदेवत्यं वै वासस् । सर्वाभिरेवैनां देवताभिस्समर्धयति । साम सम्प्रेष्यति । उपगायनमेवास्यैतद् १७७ अथो न्येवास्मै ह्नुवते-ऽभिप्रयान्ति दिवस्त्वा परस्पामन्तरिक्षस्य तन्वम्पाहि पृथिव्यास्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इतीमां ल्लोकान्मा हिँ सीरित्येवैतदाह १७८ प्राणम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । व्यध्वे द्वितीय-मुपयन्त्यभिप्रयान्ति १८० ब्रह्मणस्त्वा परस्पां क्षत्रस्य तन्वं पाहि विशस्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्रजाम्मा हिँ सीरित्येवैतदाह १८१ व्यानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्त १८२ उपप्राप्य तृतीयमुपयन्त्यभिप्रयान्ति प्राणस्य त्वा परस्पां चक्षुषस्तन्वम्पाहि श्रोत्रस्य त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्राणान्मा हिँ सीरित्येवैतदाह १८३ अपानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । — वेदा भवन्ति । केशानेवैनान्तत्करोति । अभितः कपालानि । कपालान्येव तत्करोति । अभितो रुक्मौ निदधाति । चक्षुषी एव तत्करोति । पश्चाच्चरुष्ठाली निदधाति । आस्यमेव तत्करोति । पश्चात्स्रुवं निदधाति । ग्रीवामेव तत्करोति । अभितश्शफौ निदधाति । अँ सा एव तत्करोति । स्रुचौ बाहू करोति । सात्मत्वायाभितो धवित्रे भवतः । पार्श्वे एव तत्करोति । मध्य उपयामो रज्ज्वोश्च वैणवानि भवन्ति । उदरमेव तत्करोति । पश्चादौष्ठ्यौ निदधाति । उपस्थमेव तत्करोति । अभितो मयूखा भवन्ति । जङ्घे ऊरू एव तत्करोति । अभितो धृष्टी निदधाति । पादा एव तत्करोति । मध्ये धवित्रम्निदधाति । नाभिमेव तत्करोति । उपर्यासन्दीम्निदधाति । उर एव तत्करोति । कृष्णाजिनेन प्रश्छादयति । ब्रह्मणो वा एतद्रू पम्यत्कृष्णाजिनं । ब्रह्मणैवैनम्प्रश्छादयति । मुञ्जैः प्रश्छादयति । ऊर्ग्वै मुञ्जा ऊर्जैवैनं प्रश्छादयति । दध्ना संसृजति सतेजस्त्वायाघातुक एनँ रुद्रो भवति हँ सवत्करोति । असौ वा आदित्यो हँ सा ए—परिषिञ्च्— १८३-१ — परिषिञ्चन्पर्येति वल्गुरसि वयोधाया इति । वय एवास्यैतदर्धयति १८४ शिशुर्जनधाया इति । रूपमेवास्यैतन्महिमानं व्याचष्टे । यदि वयाँ स्युपासीरन्घर्ममेताः प्रजा उपासिष्यन्त इति विद्यात् १८५ तस्माद्वयोभ्यः परिरक्षेतासृङ्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन समयति १८६ शञ्च वक्षि परि च वक्षीत्याशिषमेवाशास्ते १८७ सुमित्रा न आप इत्यप उत्सिञ्चन्ति । सुमित्रा एवैनां करोति १८८ दुर्मित्रास्तस्मै सन्त्व् इति यस्यामस्य दिशि द्वेष्यस्स्यात्तान्दिशम्परासिञ्चेद् । दुर्मित्रा एवैनाः करोत्ति १८९ एतत्ते घर्मान्नमेतत्पुरीषमिति । घृतं वै दधि । मध्व् इत्येतस्यान्नन् । तेनैवैनँ समर्धयति १९० तेन त्वं वर्धस्वेत्यन्नाद्येनैवैनँ समर्धयति १९२ वर्धिषीमहि च वयमा च प्यायिषीमहीत्याशिषमेवाशास्ते १९३ रन्तिर्नामासीति । एतद्वै रुद्र स्य शिवो नाम । — इति । आत्मन एवैतामाशिषमाशास्त १९४ इन्दुर्दक्षश्श्येन ऋतावा हिरण्यपक्षस् १९५-१ सोमपीथानु मेह्येधोऽस्येधि-षीमहीति । रुद्र मेव निरवदयन्ते । नैवैनँ शुचार्पयन्ति १९५-२ समिदसि समेधिषीमहीत्याशिषमेवाशास्ते १९६ पुनर्तेजो मयि धेहीति तेज एवात्मन्धत्त १९७ उदु त्यञ्जातवेदसमिति दशाहुतीर्जुहोति । दशाक्षरा विराडन्नं विराड् । विराज्येवान्नाद्ये प्रतितिष्ठति । किन्दीक्षया स्पृणोतीत्याहुः किमवान्तर-दीक्षयेति । आत्मानमेव दीक्षया स्पृणोति प्रजामवान्तरदीक्षया । द्वादश वा एष वर्षाणि दीक्षितो भवति यो ब्रह्मचारी । तस्य वा एषा दीष्का यदवान्तरदीक्षा । मेखलामाबध्नाते । दण्डमुपयश्छति । समिध आहरति । पुनरध्याहरति । औदुम्बरीर्भवन्ति । ऊर्ग्वा उदुम्बर । ऊर्जमेव ब्रह्म-चारिणि निदधाति । पर्णमयीर्भवन्ति । ब्रह्मवर्चसं वै पर्णो । ब्रह्मवर्चसमेव ब्रह्मचारिणि निदधाति । शमीमयीर्भवन्ति । तेजो वै शमी । तेज एव ब्रह्मचारिणि निदधाति १९८ अग्ने व्रतपते पृथिवी समिदिति प्रथमाँ समि-धमादधाति । अग्निर्वै देवानाम्पृथिव्यायां व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-१ वायो व्रतपते अन्तरिक्षस्समिदिति द्वितीयां समिधमादधाति । वायुर्वै देवानामन्तरिक्षे व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-२ सूर्य व्रतपते द्यौस्समिदिति तृतीयां समिधमादधाति । सूर्यो वै देवानाममुष्मिं ल्लोके व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति । नाभिव्याहरति नाभिप्रेक्षते । तेज एवात्मन्धत्ते । पर्वणि तिष्ठेद्दिवा आसीत नक्तँ सतेजस्त्वायाग्निनादित्येन च श्रीतमश्नाति । हविर्वै दीक्षितो । हविरेवात्ति । समाप्तेऽन्वाह । प्र वा इतरेभ्यो लोकेभ्यश्च्यवते यो ब्रह्मचारी । यदित ऊर्ध्वं समिध आदधात्य-मुष्मिंस्तेन लोके प्रतितिष्ठति । यदमुतोऽर्वाङ् प्रत्यादधात्यस्मिंस्तेन लोके प्रतितिष्ठति । यदा गर्मुतो विरोहति तदानुब्रूयाद् । धरिणो यदा यवमत्ति तदानुब्रूयात् । सूकरो यदा बिसमत्ति तदानुब्रूयाद् । रूपसमृद्धिमेवान्वाह । तेजसा वा एष प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन च व्यृद्ध्यते यो ब्रह्मचारी
यत्क्षीरौदनमभिव्याहरत्यभिप्रेक्षतेऽन्नाद्यमेवात्मन्धत्ते । अथो तेजस्वी प्रजा-वान्पशुमान्ब्रह्मवर्चस्यनूरधो भवति य एवं वेद १९९ आयुर्दा आयुर्मे देही-त्यायुरेवात्मन्दधते । — प्रवृज्यमान्— उपधाय मार्जयति । अ— तादेवाव्याधि १९९-१ प्राणदाः प्राणं मे देहीति प्राणमेवात्मन्दधते २०० व्यानदा व्यानं मे देहीति व्यानमेवात्मन्दधते २०१ अपानदा अपानं मे देहीत्यपानमेवात्मन्दधते २०२ चक्षुर्दाश्चक्षुर्मे देहीत्य्चक्षुरेवात्मन्दधते २०३ श्रोत्रदाश्श्रोत्रं मे देहीत्य्श्रोत्रमेवात्मन्दधते २०४ वर्चोदा वर्चो मे देहीति वर्च एवात्मन्दधत २०५ आयुषे नः पुनर्देहीत्यायुरेवात्मन्दधते २०६ अथोऽवि-स्रंसायैवाप्रदाहाय नमो रुद्र ?ायेति । रुद्रं वै देवा यज्ञान्निरभजन् । स धनुरवष्टभ्यातिष्ठत् । तस्येन्द्र ?ो वम्रिरूपेण धनुर्ज्यामश्छिनत् । स घृङ्ङ् अकरोत् । तस्यार्तिश्शिर उत्पिपेष । स प्रवर्ग्योऽभवद् । यन्महतीर्देवता वीर्यवतीस्तस्मान्महावीरो । यद्धनुर्घृङ्ङ् अकरोत्तस्माद्घर्मो । यत्प्रवृज्यते तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते रुद्र स्य शिर उपदधाति । नैनँ रुद्र आरुको भवति य एवं वेद । — शुक्रियाणां वा एतानि शुक्रियाणि । तच्छुक्रियाणां शुक्रियत्वं । तेभिर्देवाः पुरस्ताद्यज्ञस्य प्रावृञ्जत । यत्प्रावृञ्जत तस्मात्प्रवर्ग्याणि तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते मुख्यो ब्रह्मवर्चसी भवति । एष वाव तर्हि यज्ञ आसीद्यदेष ज्योति-ष्टोमस् । तद्यथा वा इदमग्नेर्जातादग्नयोऽन्ये विह्रियन्त एवमस्मादन्ये यज्ञ-क्रतवः प्रजायन्ते । तस्माज् ज्योतिष्टोमे प्रवृञ्ज्याद्यज्ञस्योर्ध्वत्वाय । नोक्थ्ये प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात्प्रजाञ्चास्य पशूंश्च निर्दहेत् । तस्मात्प्रजाकामाय पशुकामाय न प्रवृञ्ज्याद् । असौ वा आदित्यो रुद्र ?ो महावीरो । रुद्र ?ादेव प्रजाम्पशून्परिवृणक्ति । तस्माद्वाससा पत्नीम्प्र-श्छादयति प्रजाया अप्रदाहाय । सर्वतोपक्रमे प्रवृञ्ज्याद् २०७ भूर्भुवस्स्वर् २०८ नमो वाचे नमो वाचस्पतय इति । वाग्वै सरस्वती । या वागुदिता या चानुदिता तस्यै वाचे नम इति २०८-१ — नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्य इति २०८-२ — मा मामृषयो मन्त्रकृतो मन्त्रविदः परादुरिति २०८-३ — दैवीं वाचमुद्यासमिति दैवीमेव वाचं वदति २०८-४ शिवामजस्रामिति शिवामेवैनामजस्रां करोति २०९ जुष्टां देवेभ्य इति देवेभ्य एवैनां जुष्टां करोति २१० स्वधावतीम्पितृभ्य इति पितृभ्य एवैनां स्वधावतीङ् करोति २११ शुश्रूषेण्यां मनुष्येभ्य इति । मनुष्येभ्य एवैनां शुश्रूषेण्याङ् करोति २१२ तम्मा देवा अवन्तु शोभायै पितरोऽनुमदन्त्व् इत्यन्व् एनं देवा अवन्ति शोभायै पितरोऽनुमदन्ति २१३ सुचक्षा अहमक्षिभ्यां सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति यथायजुर् । अपवर्गेऽपि मार्जयन्ते २१४ शिवा नश्शन्तमा भव सुमृळीका सरस्वतीति । वाग्वै सरस्वती । वाचैव प्रयन्ति वाचोद्यन्ति २१५ ब्रह्मण उपस्तरणमसि ब्रह्मणे त्वोपस्तृणामीति प्रजाया एव पशूनामुपस्तरणं करोति २१६ ईळायै वास्त्व् असीति प्रतिष्ठित्या २१७ सा वात वाहि भेषजं वि वात वाहि यद्र प इति । प्राणो वै वायुः । प्राणमेवास्य भूयिष्ठं करोति २१८ आपो हि ष्ठा मयोभुव इति । — ऋचो यजूँ षि सामानीति । तद्वै त्रेधाविहितो यद्वेदः । — कल्पतेऽस्मै त्रेधा योगक्षेमः प्रजायाः पशूनां विशः । — अथैष व्रतं चरिष्यन्नरण्यम्परेत्य शुचौ भूम्यव-काशे ग्रामादश्छदिर्दर्शेऽध्यापयति । मृत्योर्वा एष गोष्ठो यद्ग्रामो । अथैष देवानां यदरण्यम् । अप पुनर्मृत्युं जयति य एवं वेद उदित आदित्ये पूर्वाह्णे पूर्वपक्ष उदगयनेऽधीयीतैतद्वै त्रिशुक्रियं । त्रिशुक्रियो भवति य एवं वेद नाभ्रेषु न समौहे न गवामन्ते न पर्वोपपर्वयोरात्मनोऽहिँ सायै । न मृतं द्विपदाञ्चतुष्पदाम्प्रत्यात्मनोऽहिँ सायै । न मृतं द्विपदां चतुष्पदां माँ समस्थि लोहितं चण्डालमशुचि वा दृष्ट्वामेध्यानि वा एतानि मेध्यत्वाय । न पूर्वे-द्युर्माँ समत्त्वा । न पूर्वेद्युरब्रह्मचर्यमुपेत्य । न तदहः पूर्वाह्णे केशश्मश्रू लोमनखानि वापयेन्नावलिखेन्नाञ्ज्यान्नाभ्यञ्ज्यान्न स्नायात्तेजसोऽनवभ्रँशाय । न ग्राम्याणाम्पशूनाँ सन्दर्शनेनाशान्तिकृतस्सँ सृजेत । — पात्राणि कारयेत् । तपो वै दीक्षा । तपसैवास्य प्रयुनक्ति । उत्तरतस्तिष्ठति । तस्मिन्मुख्यं महावीरं प्रजुनक्त्यन्वहमितरौ । गायत्रो वा एतेषाम्प्रथमस्त्रैष्टुभो द्वितीयो जागतस्तृतीयो । अन्वहमेव यथापूर्वं छन्दाँ सि युनक्ति । शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यस् । तस्य कपालानि कपालानि केशा वेदौ धवित्रे कर्णौ धवित्रदण्डौ नासिके रुक्मौ चक्षुषी । सौवर्णो दक्षिणं राजत उत्तरं महावीराः कण्ठा आस्यञ्चरुष्ठाली हनू शफा अनिष्टुब्धी अष्ठीवन्तौ दँ ष्ट्रा मयूखा दन्ता यद्घर्मे निदधाति जिह्वापयामो रज्ज्वोश्च वैणवानि स्नावानि पुरोळाशो मस्तिष्को । यदङ्गारैरभ्यूहति तन्माँ सं केशा वेदा आज्यं मज्जा पयसी मेद । ऋचो रूपँ यजूँ षि प्राणास्सामानि ज्योतीँ षि दिशश्श्रोत्रम् । एते च वै यज्ञश्शीर्षण्वांश् । छीर्षण्यो मुख्यो भवति य एवं वेद एतद्वा एतच्छिरो । नास्मादु — २१९ आहुस्ते भग चक्षुषी ताभ्यां विपश्य मामभीति । — तस्य सूर्य-चन्द्र मासाव् एव चक्षुषी २१९-१ — यदेतत्सारघम्मधु तेन रूपमनज्मि ते तेन रूपमनग्धि म इति रूपमेवास्यैतन्महिमानं व्याचष्टे । देवानां क्रतुभिर्देवाभ्यञ्जनैरभ्यञ्जे भगवन्नामासीति । एतद्वै रुद्र स्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेन देवाभ्यञ्जनैस्समनक्ति २२० तस्य त ऋचश्च यजूँ षि सामानि चेत्यृचो यजूँ षि सामानीत्येवैतदाह २२१ वागग्ना अन्यच्चक्षुस्सू-र्येऽन्यत्सूर्येऽन्यदग्ना अन्यदग्ना अन्यदग्ना अन्यदिति चक्षुषी एवास्यैतदुद्धर्षयति । अन्धो हि भगो । नास्यान्धाः प्रजा जायन्ते २२२ भगवान्भूयासमिति चक्षुरेवात्मन्धत्त २२३ ऐरोऽसि चक्षुरसि श्रोत्रमसि पुरन्धिर्नाम वागसीति । शास्त्येवैनन् । तस्माच्छिष्टाः प्रजा जायन्ते २२४ येन शतक्रतुर्भागमुपजुह्वे तेन त्वोपह्वये भगेति । रुद्रं वै देवा निरभजन् । स देवानायतयाभिपर्यावर्तत । ते देवा एतेन नामधेयेन प्रियेण धाम्नोपह्वयन्यत्प्रवर्ग्यस् । स्वेनैवैनं नामधेयेन प्रियेण धामनोपह्वयते २२५ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिं । दध्यङ् ह यन्मध्व् आथर्वणो वामश्वस्य शीर्ष्णा सुमतिमवोचत् । अग्निरीशे वासवयस्याग्निर्महस्सौभगस्य तान्यस्मभ्यं रासत इति । — अग्निर्वै रुद्र स् । स वासव्यस्सौभग — देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । ते देवा एतानव-काशानपश्यम्स् । तैरेतस्मिन्यज्ञे घर्मे रुचितेऽवैक्षत । ते देवा अभवन्परासुरा अभवन् । यत्प्रवर्ग्यमेतैरवकाशैरवेक्षते भवति प्रजावान्पशुमान्मधव्यो भवति २२६ दश प्राचीर्दश भासि दक्षिणेति दिशामवरुद्ध्यै । को ह तद्वेद यावन्त इमे लोकास् । सर्वानेव लोकानेतैरवकाशैरवरुन्धे २२७ दश प्राचीर्दश भासि दक्षिणा दश प्रतीचीर्दश भास्युदीचीर्दशोर्ध्वा भासि सुमनस्यमान इति । तेजो वै भास् । तेज एवस्यैतदुद्धर्षयति २२८ स नः प्रजां पशून्पाह्य-हृणियमान इति प्रजायाः पशूनाङ् गोपीथाय । प्रजावान् पशुमान्भवति य एवं वेद यः प्रवर्ग्योपनिषदं वेद । देवा वै महावीराद्रुचितादबिभयुस्सर्वान्नो-ऽयन्तेजसोद्धक्ष्यतीति २२९ ते प्रजापतिमुपाधावन् । स प्रजापतिरब्रवीद-न्येनैनमुपतिष्ठत शिवो भविष्यतीति ९२ — भूर्भुवस्स्वरिति २२९-१ — भुवोऽधायीति २२९-२ — नृम्णायि नृम्णमिति प्रजा वै नृम्णा पशवो नृम्णम् । प्रजाभ्यश्चैवैनमेतत्पशुभ्यश्च रुद्रं निरवदयते २२९-३ निधाय्योवा निधाय्योवेति वै साम्नोद्गायति । तेनैव निधौ प्रतितिष्ठत २३० ए स्वर्ज्योती३रिति । असौ वा आदित्य एतज् ज्योतिस् । तेनैवनं सम्र्धयति । एत वा एतस्य प्रियास्तन्वस् । ताभिरेवैनँ समर्धयति । एता वा एतस्यानिरुक्तास्स्तुतयस् । ताभिरेवैनमभिष्टुवन्ति । एता वा एतस्यानि रुक्तास्स्तुतयो यद्स्वर्ज्योतिस् । ताभिरेवैनमभिव्याहरन्ति । एतानि वा एतस्यानिरुक्तानि नामधेयानि भुवो नृम्णो निधिस्स्वर्ज्योतिस् । तमेव प्रत्यक्षमृध्नुवन्ति । अयं वै लोको गार्हपत्योऽसा आहवनीयो । यन्ति वा एतेऽस्माळ्लोकाद् । य एतं गार्हपत्ये हविष्टृत्य प्राञ्चमुद्धृत्यैतेनाहवनीये चरन्ति । त एतम्पुनस्सँ स्थाप्य प्रचरन्ति २३१ त्वमग्ने गृहपत इति गार्हपत्यमुपतिष्ठते । अस्मिन्नेव लोके प्रतितिष्ठति — । न्त । एष वा अपां योनिस्सयोनित्वाय । यङ् कामयते तेजस्वी भूयासम्ब्रह्मवर्चसी भूयासमिति तस्यैतमुदुह्य माध्यन्दिने सवने प्रवर्ग्येण चरेत । तेजो वै ब्रह्मवर्चसम्प्रवर्ग्यस् । तेज एव ब्रह्मवर्चसमवरुन्धे २३२ यदि प्रजुञ्ज्यादानुष्टुभोऽसीति चतुर्थम्पिण्डं कुर्याद् । वाग्वा अनुष्टुब् । वाचमेव यज्ञमुखे युनक्ति । द्वैधम्पात्राणि कारयेत् । तान्या सुत्यायास्तिष्ठेयुरयातयामत्वायाग्नीध्रे प्?वृञ्ज्याद् । आग्नीध्रे रोच्येताग्नीध्रेऽधिश्रियेताग्नीध्रायतनो वा एष । एतर्हि स्व एवास्मा आयतने रुचं दधाति । औत्तरवेदिके जुहोति । स्वर्गो वै लोक औत्तरवेदिकस्स्वर्गस्य लोकस्य समष्ट्या । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्ष्णत उपहोहत्याहवनीयम् । पात्राणि संचिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपँ हरेयुर् । असौ वा आदित्यो रुद्र ?ो महावीरस् । तेजस्वी ब्रह्मवर्चसी मनुष्येषु भवति । तदहर्गणे प्रवृञ्ज्याद्— —न प्रवर्ग्यस्य — — ब्रह्मवर्चसमवरुन्धे वैस्वदेवेषु — आह्णिकं वरुणप्रघ्षेष्वापराह्णिकं महाहविषि पौर्वाह्णिकँ शुनासीर्य आपराह्णिकम् । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्षिणत उपहोहत्याहवनीयम् । पात्राणि सञ्चिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपम्हरेयुर् । असौ वा आदित्यो रुद्र ?ो महावीरो वर्चो । ब्रह्मवर्चसमवरुन्धे । तदाहुरनवरुद्धम्वा असोमयजिनो ब्रह्मवर्चसम् । सप्रवर्ग्यं ज्योतिष्टोमं कुर्यात्स्व एव योनौ ब्रह्मवर्चसं दधाति । ब्रहमवर्चसी भवति गायत्युद्गातैतानि परिसामानि । प्रवर्ग्यस्य वा एतानि समृद्ध्यै गायति । शार्गम्भवति तदज्यमाणे गायति । तेजो वै शार्गन्तेजसैवैनँ समर्धयति । शुक्रचन्द्रे भवतस् । ते जातरूपयोर्गायतीऊअं वै शुक्रमसुअ चन्द्र न् । ताभ्यामेवैनं समर्धयति घर्मस्य तन्वौ भवतस् । ते अभीध्यमाने गायति । स्वयैव तन्वैनँ समर्धयति । — व्रतपक्षौ भवतस् । ते अधिह्रियमाणे गायति । रक्षांसि वा एतर्हि सर्वं घर्मं चमितोः । प्रामदो वज्रो व्रतपक्षौ रक्षसामपहत्या । अश्विनौ व्रते भवतस् । ते हुते गायति । स्वदयति । उपगायनमेवास्यैतद् । अथो न्येवस्मै ह्नुवते । राजनरौहिणे भवतस् । ते पुरोळाशयोर्गायति । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ चक्षुषी राःअनरौहिणे । चक्षुषोरेव चक्षुर्दधाति । आङ्गिरसम्भवति । तत्परिघर्म्य आरोप्यमाणे गायति । अङ्गिरसो वा इतस्स्वर्गं लोकमायंस् । त एतेन साम्नोर्ध्वास्स्वर्गं लोकमायन् । यदाङ्गिरसम्भवत्यारूढवत्स स्वर्गो लोकस्स्वर्गस्य लोकस्य समष्ट्यै २३३ तदाहुरृङ्मयो यजुर्मयस्साममयो घर्म इति यस्यैष प्रवृज्यमानः । प्रवर्ग्यः प्रवृञ्जन्ति सर्वमेवैनं सवीर्यं सयोनिँ सतनूमृद्ध्यै । स ऋद्धिं यजमान आर्श्छति । आयुषा वा एष वीर्येण ऋध्यते २३४ यस्य महावीरो भिद्यते य ऋते चिदभिश्रिष इति कर्मण्यया मृदा दृढीकरणेन वाश्रेषवताभिश्रिष्येत् २३५ — — यस्य महावीरः प्रवृज्यमानस्कन्देत् । प्राकारुको यजमाणस्स्याद् २३५-१ अस्कान्द्यौः पृथिवीमिति द्वाभ्यां जुहुयादनभिहोमाय । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । अपवा एतस्य वैद्युतः प्रवग्यः क्रन्दते यस्य महावीरे प्रवृज्यमाने स्तनयति । सा शुग्यजमानमृश्छति २३५-२ यदक्र-न्दोऽक्रन्ददग्निरिति द्वाभ्यां जुहुयाद् । अग्निर्वै क्रन्दस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । वज्रेण वा एतस्य प्रवर्ग्योऽभिहन्यते यस्य महावीरे प्रवृज्यमाने वर्षति । स प्रमायुको यजमानो भवति २३६ पर्जन्याय प्रगायतेदं वचः पर्जन्यायेति द्वाभ्यां जुहुयाद् । आपो वै पर्जन्यस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिस् । तमो वा एतस्य यज्ञं युवते यस्य महावीरे प्रवृज्यमाने सूर्यो-ऽस्तमेति । स आर्तिं यजमान आर्श्छति २३७ उदु त्यं जातवेदसं चित्रं देवानामुदगादिति द्वाभ्यां जुहुयाद् । असौ वा आदित्यो रुद्र ?ो महावीरस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्ति — — सैव तत्र प्रायश्चित्ती । रुद्र ?ो वा एतस्य पशूनभिमन्यते यस्य महावीरे प्रवृज्यमाने घर्मधुङ् निषीदति । ता — २३८ यस्माद्भीषा निषीदसि ततो नो अभयङ्कृधि । अभयन्नः पशुभ्यो नमो रुद्र ?ाय मीढुष इति द्वाभ्यां जुहुयाद् । अग्निर्वै रुद्र स् । स्वेनैवैनम्भागधेयेन प्रशत शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । मृत्युर्वा एतस्य प्रजा अभिमन्यते यस्य महावीरे प्रवृज्यमाने वयांसि श्वापदानि वापिधावन्त २३९ असृन्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन प्रशत शमयति — — आत्मनोऽहिँ सायै । — प्रवर्ग्येण प्रचरिषूअन् दीक्षितस्य — — प्रवर्ग्यँ सम्भरति । अजिने सम्भरत्यग्निर्वा — — सम्भरति शर्कराभिर्धृत्या अर्म्यैः कपालैर्— — — औदुम्बरासन्दी भवति । ऊर्ध्वा उदुम्बर ऊर्जैवैनाण् दाधार । मौञ्जाविवाना भवति । ऊर्ग्वै मुञ्जा । ऊर्जैवैनां दाधार । प्रादेशमात्रपादा भवति । एतावद्धिमे २३९-१ वि प्राणा — ऐनान्दाधार । कृष्णाजिनमास्तृणाति । कृष्णाजिनेन प्रश्छादयति । ब्रहम वा एतद्रू पं यत्कृष्णाजिनम् । ब्रह्मणैवैनां दाधार । प्रागुदग्गार्हपत्यात्खरं करोत्युदञ्चौ परौ खरौ करोति । अयं वै लोको गार्हपत्योऽसा आहवनीयो गार्हपत्ये हुतँ स्वर्गं लोकं गमयति । — ति । तद्बहिष्टात्— द्वाराण्यपिधाय प्रवर्ग्येण प्रचरति — णयाथो पाप-वसीयसस्य व्यावृत्यै — असौ वा आदित्यो रुद्र ?ो महावीर —

यत्क्षीरौदनमभिव्याहरत्यभिप्रेक्षतेऽन्नाद्यमेवात्मन्धत्ते । अथो तेजस्वी प्रजा-वान्पशुमान्ब्रह्मवर्चस्यनूरधो भवति य एवं वेद १९९ आयुर्दा आयुर्मे देही-त्यायुरेवात्मन्दधते । — प्रवृज्यमान्— उपधाय मार्जयति । अ— तादेवाव्याधि १९९-१ प्राणदाः प्राणं मे देहीति प्राणमेवात्मन्दधते २०० व्यानदा व्यानं मे देहीति व्यानमेवात्मन्दधते २०१ अपानदा अपानं मे देहीत्यपानमेवात्मन्दधते २०२ चक्षुर्दाश्चक्षुर्मे देहीत्य्चक्षुरेवात्मन्दधते २०३ श्रोत्रदाश्श्रोत्रं मे देहीत्य्श्रोत्रमेवात्मन्दधते २०४ वर्चोदा वर्चो मे देहीति वर्च एवात्मन्दधत २०५ आयुषे नः पुनर्देहीत्यायुरेवात्मन्दधते २०६ अथोऽवि-स्रंसायैवाप्रदाहाय नमो रुद्रा येति । रुद्रं वै देवा यज्ञान्निरभजन् । स धनुरवष्टभ्यातिष्ठत् । तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामश्छिनत् । स घृङ्ङ् अकरोत् । तस्यार्तिश्शिर उत्पिपेष । स प्रवर्ग्योऽभवद् । यन्महतीर्देवता वीर्यवतीस्तस्मान्महावीरो । यद्धनुर्घृङ्ङ् अकरोत्तस्माद्घर्मो । यत्प्रवृज्यते तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते रुद्र स्य शिर उपदधाति । नैनँ रुद्र आरुको भवति य एवं वेद । — शुक्रियाणां वा एतानि शुक्रियाणि । तच्छुक्रियाणां शुक्रियत्वं । तेभिर्देवाः पुरस्ताद्यज्ञस्य प्रावृञ्जत । यत्प्रावृञ्जत तस्मात्प्रवर्ग्याणि तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते मुख्यो ब्रह्मवर्चसी भवति । एष वाव तर्हि यज्ञ आसीद्यदेष ज्योति-ष्टोमस् । तद्यथा वा इदमग्नेर्जातादग्नयोऽन्ये विह्रियन्त एवमस्मादन्ये यज्ञ-क्रतवः प्रजायन्ते । तस्माज् ज्योतिष्टोमे प्रवृञ्ज्याद्यज्ञस्योर्ध्वत्वाय । नोक्थ्ये प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात्प्रजाञ्चास्य पशूंश्च निर्दहेत् । तस्मात्प्रजाकामाय पशुकामाय न प्रवृञ्ज्याद् । असौ वा आदित्यो रुद्रो महावीरो । रुद्रा देव प्रजाम्पशून्परिवृणक्ति । तस्माद्वाससा पत्नीम्प्र-श्छादयति प्रजाया अप्रदाहाय । सर्वतोपक्रमे प्रवृञ्ज्याद् २०७ भूर्भुवस्स्वर् २०८ नमो वाचे नमो वाचस्पतय इति । वाग्वै सरस्वती । या वागुदिता या चानुदिता तस्यै वाचे नम इति २०८-१ — नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्य इति २०८-२ — मा मामृषयो मन्त्रकृतो मन्त्रविदः परादुरिति २०८-३ — दैवीं वाचमुद्यासमिति दैवीमेव वाचं वदति २०८-४ शिवामजस्रामिति शिवामेवैनामजस्रां करोति २०९ जुष्टां देवेभ्य इति देवेभ्य एवैनां जुष्टां करोति २१० स्वधावतीम्पितृभ्य इति पितृभ्य एवैनां स्वधावतीङ् करोति २११ शुश्रूषेण्यां मनुष्येभ्य इति । मनुष्येभ्य एवैनां शुश्रूषेण्याङ् करोति २१२ तम्मा देवा अवन्तु शोभायै पितरोऽनुमदन्त्व् इत्यन्व् एनं देवा अवन्ति शोभायै पितरोऽनुमदन्ति २१३ सुचक्षा अहमक्षिभ्यां सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति यथायजुर् । अपवर्गेऽपि मार्जयन्ते २१४ शिवा नश्शन्तमा भव सुमृळीका सरस्वतीति । वाग्वै सरस्वती । वाचैव प्रयन्ति वाचोद्यन्ति २१५ ब्रह्मण उपस्तरणमसि ब्रह्मणे त्वोपस्तृणामीति प्रजाया एव पशूनामुपस्तरणं करोति २१६ ईळायै वास्त्व् असीति प्रतिष्ठित्या २१७ सा वात वाहि भेषजं वि वात वाहि यद्र प इति । प्राणो वै वायुः । प्राणमेवास्य भूयिष्ठं करोति २१८ आपो हि ष्ठा मयोभुव इति । — ऋचो यजूँ षि सामानीति । तद्वै त्रेधाविहितो यद्वेदः । — कल्पतेऽस्मै त्रेधा योगक्षेमः प्रजायाः पशूनां विशः । — अथैष व्रतं चरिष्यन्नरण्यम्परेत्य शुचौ भूम्यव-काशे ग्रामादश्छदिर्दर्शेऽध्यापयति । मृत्योर्वा एष गोष्ठो यद्ग्रामो । अथैष देवानां यदरण्यम् । अप पुनर्मृत्युं जयति य एवं वेद उदित आदित्ये पूर्वाह्णे पूर्वपक्ष उदगयनेऽधीयीतैतद्वै त्रिशुक्रियं । त्रिशुक्रियो भवति य एवं वेद नाभ्रेषु न समौहे न गवामन्ते न पर्वोपपर्वयोरात्मनोऽहिँ सायै । न मृतं द्विपदाञ्चतुष्पदाम्प्रत्यात्मनोऽहिँ सायै । न मृतं द्विपदां चतुष्पदां माँ समस्!थि लोहितं चण्डालमशुचि वा दृष्ट्वामेध्यानि वा एतानि मेध्यत्वाय । न पूर्वे-द्युर्माँ समत्त्वा । न पूर्वेद्युरब्रह्मचर्यमुपेत्य । न तदहः पूर्वाह्णे केशश्मश्रू लोमनखानि वापयेन्नावलिखेन्नाञ्ज्यान्नाभ्यञ्ज्यान्न स्नायात्तेजसोऽनवभ्रँशाय । न ग्राम्याणाम्पशूनाँ सन्दर्शनेनाशान्तिकृतस्सँ सृजेत । — पात्राणि कारयेत् । तपो वै दीक्षा । तपसैवास्य प्रयुनक्ति । उत्तरतस्तिष्ठति । तस्मिन्मुख्यं महावीरं प्रजुनक्त्यन्वहमितरौ । गायत्रो वा एतेषाम्प्रथमस्त्रैष्टुभो द्वितीयो जागतस्तृतीयो । अन्वहमेव यथापूर्वं छन्दाँ सि युनक्ति । शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यस् । तस्य कपालानि कपालानि केशा वेदौ धवित्रे कर्णौ धवित्रदण्डौ नासिके रुक्मौ चक्षुषी । सौवर्णो दक्षिणं राजत उत्तरं महावीराः कण्ठा आस्यञ्चरुष्ठाली हनू शफा अनिष्टुब्धी अष्ठीवन्तौ दँ ष्ट्रा मयूखा दन्ता यद्घर्मे निदधाति जिह्वापयामो रज्ज्वोश्च वैणवानि स्नावानि पुरोळाशो मस्तिष्को । यदङ्गारैरभ्यूहति तन्माँ सं केशा वेदा आज्यं मज्जा पयसी मेद । ऋचो रूपँ यजूँ षि प्राणास्सामानि ज्योतीँ षि दिशश्श्रोत्रम् । एते च वै यज्ञश्शीर्षण्वांश् । छीर्षण्यो मुख्यो भवति य एवं वेद एतद्वा एतच्छिरो । नास्मादु — २१९ आहुस्ते भग चक्षुषी ताभ्यां विपश्य मामभीति । — तस्य सूर्य-चन्द्र मासाव् एव चक्षुषी २१९-१ — यदेतत्सारघम्मधु तेन रूपमनज्मि ते तेन रूपमनग्धि म इति रूपमेवास्यैतन्महिमानं व्याचष्टे । देवानां क्रतुभिर्देवाभ्यञ्जनैरभ्यञ्जे भगवन्नामासीति । एतद्वै रुद्र स्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेन देवाभ्यञ्जनैस्समनक्ति २२० तस्य त ऋचश्च यजूँ षि सामानि चेत्यृचो यजूँ षि सामानीत्येवैतदाह २२१ वागग्ना अन्यच्चक्षुस्सू-र्येऽन्यत्सूर्येऽन्यदग्ना अन्यदग्ना अन्यदग्ना अन्यदिति चक्षुषी एवास्यैतदुद्धर्षयति । अन्धो हि भगो । नास्यान्धाः प्रजा जायन्ते २२२ भगवान्भूयासमिति चक्षुरेवात्मन्धत्त २२३ ऐरोऽसि चक्षुरसि श्रोत्रमसि पुरन्धिर्नाम वागसीति । शास्त्येवैनन् । तस्माच्छिष्टाः प्रजा जायन्ते २२४ येन शतक्रतुर्भागमुपजुह्वे तेन त्वोपह्वये भगेति । रुद्रं वै देवा निरभजन् । स देवानायतयाभिपर्यावर्तत । ते देवा एतेन नामधेयेन प्रियेण धाम्नोपह्वयन्यत्प्रवर्ग्यस् । स्वेनैवैनं नामधेयेन प्रियेण धामनोपह्वयते २२५ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिं । दध्यङ् ह यन्मध्व् आथर्वणो वामश्वस्य शीर्ष्णा सुमतिमवोचत् । अग्निरीशे वासवयस्याग्निर्महस्सौभगस्य तान्यस्मभ्यं रासत इति । — अग्निर्वै रुद्र स् । स वासव्यस्सौभग — देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । ते देवा एतानव-काशानपश्यम्स् । तैरेतस्मिन्यज्ञे घर्मे रुचितेऽवैक्षत । ते देवा अभवन्परासुरा अभवन् । यत्प्रवर्ग्यमेतैरवकाशैरवेक्षते भवति प्रजावान्पशुमान्मधव्यो भवति २२६ दश प्राचीर्दश भासि दक्षिणेति दिशामवरुद्ध्यै । को ह तद्वेद यावन्त इमे लोकास् । सर्वानेव लोकानेतैरवकाशैरवरुन्धे २२७ दश प्राचीर्दश भासि दक्षिणा दश प्रतीचीर्दश भास्युदीचीर्दशोर्ध्वा भासि सुमनस्यमान इति । तेजो वै भास् । तेज एवस्यैतदुद्धर्षयति २२८ स नः प्रजां पशून्पाह्य-हृणियमान इति प्रजायाः पशूनाङ् गोपीथाय । प्रजावान् पशुमान्भवति य एवं वेद यः प्रवर्ग्योपनिषदं वेद । देवा वै महावीराद्रुचितादबिभयुस्सर्वान्नो-ऽयन्तेजसोद्धक्ष्यतीति २२९ ते प्रजापतिमुपाधावन् । स प्रजापतिरब्रवीद-न्येनैनमुपतिष्ठत शिवो भविष्यतीति ९२ — भूर्भुवस्स्वरिति २२९-१ — भुवोऽधायीति २२९-२ — नृम्णायि नृम्णमिति प्रजा वै नृम्णा पशवो नृम्णम् । प्रजाभ्यश्चैवैनमेतत्पशुभ्यश्च रुद्रं निरवदयते २२९-३ निधाय्योवा निधाय्योवेति वै साम्नोद्गायति । तेनैव निधौ प्रतितिष्ठत २३० ए स्वर्ज्योती३रिति । असौ वा आदित्य एतज् ज्योतिस् । तेनैवनं सम्र्धयति । एत वा एतस्य प्रियास्तन्वस् । ताभिरेवैनँ समर्धयति । एता वा एतस्यानिरुक्तास्स्तुतयस् । ताभिरेवैनमभिष्टुवन्ति । एता वा एतस्यानि रुक्तास्स्तुतयो यद्स्वर्ज्योतिस् । ताभिरेवैनमभिव्याहरन्ति । एतानि वा एतस्यानिरुक्तानि नामधेयानि भुवो नृम्णो निधिस्स्वर्ज्योतिस् । तमेव प्रत्यक्षमृध्नुवन्ति । अयं वै लोको गार्हपत्योऽसा आहवनीयो । यन्ति वा एतेऽस्माळ्लोकाद् । य एतं गार्हपत्ये हविष्टृत्य प्राञ्चमुद्धृत्यैतेनाहवनीये चरन्ति । त एतम्पुनस्सँ स्थाप्य प्रचरन्ति २३१ त्वमग्ने गृहपत इति गार्हपत्यमुपतिष्ठते । अस्मिन्नेव लोके प्रतितिष्ठति — । न्त । एष वा अपां योनिस्सयोनित्वाय । यङ् कामयते तेजस्वी भूयासम्ब्रह्मवर्चसी भूयासमिति तस्यैतमुदुह्य माध्यन्दिने सवने प्रवर्ग्येण चरेत । तेजो वै ब्रह्मवर्चसम्प्रवर्ग्यस् । तेज एव ब्रह्मवर्चसमवरुन्धे २३२ यदि प्रजुञ्ज्यादानुष्टुभोऽसीति चतुर्थम्पिण्डं कुर्याद् । वाग्वा अनुष्टुब् । वाचमेव यज्ञमुखे युनक्ति । द्वैधम्पात्राणि कारयेत् । तान्या सुत्यायास्तिष्ठेयुरयातयामत्वायाग्नीध्रे प्र्वृञ्ज्याद् । आग्नीध्रे रोच्येताग्नीध्रेऽधिश्रियेताग्नीध्रायतनो वा एष । एतर्हि स्व एवास्मा आयतने रुचं दधाति । औत्तरवेदिके जुहोति । स्वर्गो वै लोक औत्तरवेदिकस्स्वर्गस्य लोकस्य समष्ट्या । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्ष्णत उपहोहत्याहवनीयम् । पात्राणि संचिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपँ हरेयुर् । असौ वा आदित्यो रुद्रो महावीरस् । तेजस्वी ब्रह्मवर्चसी मनुष्येषु भवति । तदहर्गणे प्रवृञ्ज्याद्— —न प्रवर्ग्यस्य — — ब्रह्मवर्चसमवरुन्धे वैस्वदेवेषु — आह्णिकं वरुणप्रघ्षेष्वापराह्णिकं महाहविषि पौर्वाह्णिकँ शुनासीर्य आपराह्णिकम् । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्षिणत उपहोहत्याहवनीयम् । पात्राणि सञ्चिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपम्हरेयुर् । असौ वा आदित्यो रुद्रो महावीरो वर्चो । ब्रह्मवर्चसमवरुन्धे । तदाहुरनवरुद्धम्वा असोमयजिनो ब्रह्मवर्चसम् । सप्रवर्ग्यं ज्योतिष्टोमं कुर्यात्स्व एव योनौ ब्रह्मवर्चसं दधाति । ब्रहमवर्चसी भवति गायत्युद्गातैतानि परिसामानि । प्रवर्ग्यस्य वा एतानि समृद्ध्यै गायति । शार्गम्भवति तदज्यमाणे गायति । तेजो वै शार्गन्तेजसैवैनँ समर्धयति । शुक्रचन्द्रे भवतस् । ते जातरूपयोर्गायतीऊअं वै शुक्रमसुअ चन्द्र न् । ताभ्यामेवैनं समर्धयति घर्मस्य तन्वौ भवतस् । ते अभीध्यमाने गायति । स्वयैव तन्वैनँ समर्धयति । — व्रतपक्षौ भवतस् । ते अधिह्रियमाणे गायति । रक्षांसि वा एतर्हि सर्वं घर्मं चमितोः । प्रामदो वज्रो व्रतपक्षौ रक्षसामपहत्या । अश्विनौ व्रते भवतस् । ते हुते गायति । स्वदयति । उपगायनमेवास्यैतद् । अथो न्येवस्मै ह्नुवते । राजनरौहिणे भवतस् । ते पुरोळाशयोर्गायति । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ चक्षुषी राःअनरौहिणे । चक्षुषोरेव चक्षुर्दधाति । आङ्गिरसम्भवति । तत्परिघर्म्य आरोप्यमाणे गायति । अङ्गिरसो वा इतस्स्वर्गं लोकमायंस् । त एतेन साम्नोर्ध्वास्स्वर्गं लोकमायन् । यदाङ्गिरसम्भवत्यारूढवत्स स्वर्गो लोकस्स्वर्गस्य लोकस्य समष्ट्यै २३३ तदाहुरृङ्मयो यजुर्मयस्साममयो घर्म इति यस्यैष प्रवृज्यमानः । प्रवर्ग्यः प्रवृञ्जन्ति सर्वमेवैनं सवीर्यं सयोनिँ सतनूमृद्ध्यै । स ऋद्धिं यजमान आर्श्छति । आयुषा वा एष वीर्येण ऋध्यते २३४ यस्य महावीरो भिद्यते य ऋते चिदभिश्रिष इति कर्मण्यया मृदा दृढीकरणेन वाश्रेषवताभिश्रिष्येत् २३५ — — यस्य महावीरः प्रवृज्यमानस्कन्देत् । प्राकारुको यजमाणस्स्याद् २३५-१ अस्कान्द्यौः पृथिवीमिति द्वाभ्यां जुहुयादनभिहोमाय । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । अपवा एतस्य वैद्युतः प्रवग्यः क्रन्दते यस्य महावीरे प्रवृज्यमाने स्तनयति । सा शुग्यजमानमृश्छति २३५-२ यदक्र-न्दोऽक्रन्ददग्निरिति द्वाभ्यां जुहुयाद् । अग्निर्वै क्रन्दस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । वज्रेण वा एतस्य प्रवर्ग्योऽभिहन्यते यस्य महावीरे प्रवृज्यमाने वर्षति । स प्रमायुको यजमानो भवति २३६ पर्जन्याय प्रगायतेदं वचः पर्जन्यायेति द्वाभ्यां जुहुयाद् । आपो वै पर्जन्यस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिस् । तमो वा एतस्य यज्ञं युवते यस्य महावीरे प्रवृज्यमाने सूर्यो-ऽस्तमेति । स आर्तिं यजमान आर्श्छति २३७ उदु त्यं जातवेदसं चित्रं देवानामुदगादिति द्वाभ्यां जुहुयाद् । असौ वा आदित्यो रुद्रो महावीरस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्ति — — सैव तत्र प्रायश्चित्ती । रुद्रो वा एतस्य पशूनभिमन्यते यस्य महावीरे प्रवृज्यमाने घर्मधुङ् निषीदति । ता — २३८ यस्माद्भीषा निषीदसि ततो नो अभयङ्कृधि । अभयन्नः पशुभ्यो नमो रुद्रा य मीढुष इति द्वाभ्यां जुहुयाद् । अग्निर्वै रुद्र स् । स्वेनैवैनम्भागधेयेन प्रशत शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । मृत्युर्वा एतस्य प्रजा अभिमन्यते यस्य महावीरे प्रवृज्यमाने वयांसि श्वापदानि वापिधावन्त २३९ असृन्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन प्रशत शमयति — — आत्मनोऽहिँ सायै । — प्रवर्ग्येण प्रचरिषूअन् दीक्षितस्य — — प्रवर्ग्यँ सम्भरति । अजिने सम्भरत्यग्निर्वा — — सम्भरति शर्कराभिर्धृत्या अर्म्यैः कपालैर्— — — औदुम्बरासन्दी भवति । ऊर्ध्वा उदुम्बर ऊर्जैवैनाण् दाधार । मौञ्जाविवाना भवति । ऊर्ग्वै मुञ्जा । ऊर्जैवैनां दाधार । प्रादेशमात्रपादा भवति । एतावद्धिमे २३९-१ वि प्राणा — ऐनान्दाधार । कृष्णाजिनमास्तृणाति । कृष्णाजिनेन प्रश्छादयति । ब्रहम वा एतद्रू पं यत्कृष्णाजिनम् । ब्रह्मणैवैनां दाधार । प्रागुदग्गार्हपत्यात्खरं करोत्युदञ्चौ परौ खरौ करोति । अयं वै लोको गार्हपत्योऽसा आहवनीयो गार्हपत्ये हुतँ स्वर्गं लोकं गमयति । — ति । तद्बहिष्टात्— द्वाराण्यपिधाय प्रवर्ग्येण प्रचरति — णयाथो पाप-वसीयसस्य व्यावृत्यै — असौ वा आदित्यो रुद्रो महावीर —

|| katha Aranyakam samAptaH  ||

Animesh’s blog

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s