​॥ श्रीप्रत्यङ्गिरासहस्रनामस्तोत्रं ॥


(श्रीरुद्रयामले तन्त्रे दशविद्या रहस्ये)

 ईश्वर उवाच ॥ 
श्रुणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरं । सहस्रनाम परमं प्रत्यङ्गिरायाः सिद्धये ॥ सहस्रनामपाठे यः सर्‍वत्र विजयी भवेत् । पराभवो न चास्यास्ति सभायां वासने रणे ॥ तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः । यथा भवति देवेशी साधकः शिव एव हि ॥ अश्वमेध सहस्राणि वाजपेयस्य कोटयः । सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥ भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप देवी समीरिता । प्रत्यङ्गिरा विनियोगः स्यात्सर्‍वसम्पत्ति हेतवे ॥ सर्‍वकार्येषु संसिद्धिः सर्‍वसम्पत्तिदा भवेत् । एवं ध्यात्वा पठेद्देवीं यदी छेदात्मनो हितं ॥ अथ ध्यानं ॥ 


आशांबरा मुक्तकचा घनच्छविर्‍ध्येया स चर्‍मासिकरा विभूषणा । दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥
 ओं अस्य श्री प्रत्यङ्गिरा सहस्रनाम महामन्त्रस्य, भैरव ऋषिः, अनुष्टुप छन्दः, श्री प्रत्यङ्गिरा देवता, ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं मम सर्‍वकार्य सिद्धयर्‍थे जपे पाठे विनियोगः । 

ओं देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा । सममासा धर्‍मिणी च समस्तसुरशेमुषी ॥ 1॥ सर्‍वसम्पत्तिजननी समधीः सिन्धु सेविनी । शंभुसीमन्तिनी सोमाराध्या च वसुधा रसा ॥ 2॥ रसा रसवती वेला वन्या च वनमालिनी । वनजाक्षी वनचरी वनी वनविनोदिनी ॥ 3॥ वेगिनी वेगदा वेगबला स्थानबलाधिका । कला कलाप्रिया कौलि कोमला कालकामिनी ॥ 4॥ कमला कमलाक्ष्या च मलस्या कमलावती । कुलीना कुटीला कान्ता कोकिला कुलभाषिणी ॥ 5॥ कीरकेलिः कला काली कपालिन्यपिकालिका । केशिनी च कुशावर्‍त्ता कौशांबी केशवप्रिया ॥ 6॥ काशी काशापहाकाशी शङ्काशा केशदायिनी । कुण्डली कुण्डलीस्था च कुण्डलाङ्गदमण्डिता ॥ 7॥ कुशापाशी कुमुदनी कुमुदप्रीतिवर्‍धिनी । कुन्दप्रिया कुन्दरुचिः कुरङ्गमदमोदिनी ॥ 8॥ कुरङ्गनयना कुन्दा कुरुवृन्दाभिनन्दिनी । कुसुंभकुसुमा किञ्चित्क्वणत्किङ्किणिका कटुः ॥ 9॥ कठोरा करणा कण्ठा कौमुदी कंबुकण्ठिनी । कपर्‍दिनी कपटिनी कठिनी कालकण्ठिका ॥ 10॥ किबृहस्ता कुमारी च कुरुन्दा कुसुमप्रिया । कुञ्जरस्था कुञ्जरता कुंभि कुंभस्तनद्वया ॥ 11॥ कुंभिगा करभोरुश्च कदलीदलशालिनी । कुपिता कोटरस्था च कङ्काली कन्दशेदरा ॥ 12॥ एकान्तवासिनी किञ्चित्कम्पमान शिरोरुहा । कादंबरी कदंबस्था कुङ्कुमी प्रेमधारिणी ॥ 13॥ कुटुंबिनी प्रियायुक्ता क्रतुः क्रतुकरी क्रिया । कात्यायनी कृत्तिका च कार्‍तिकेयप्रवर्‍त्तिनी ॥ 14॥ कामपत्नी कामधात्री कामेशी कामवन्दिता । कामरूपा कामगतिः कामाक्षी काममोहिता ॥ 15॥ खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खला । खरगा खरनासा च खरास्या खेलनप्रिया ॥ 16॥ खरांशुः खेटिनी खरखट्वाङ्गधारिणी । खलखण्डिनि विख्यातिः खण्डिता खण्डवी स्थिरा ॥ 17॥ खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खञ्जनी । गङ्गा गोदावरी गौरी गोमत्यापिच गौतमी ॥ 18॥ गया गौगजी गगना गारुडी गरुडध्वजा । गीता गीताप्रिया गायत्रि गोत्रक्षयकरी गदा ॥ 19॥ गिरिभूपालदुहिता गोगा गोकुलवर्‍धिनी । घनस्तनी घनरुचि घनारु घननिःस्वना ॥ 20॥ घूत्कारिणी घूतकरी घुघूकपरिवारिता । घण्टानादप्रिया घण्टा घनाघोट प्रवाहिनी ॥ 21॥ घोररूपा च घोरा च घूनीप्रीति घनाञ्जनी । घृताची घनमुष्टिश्च घटाघण्टा घटामृता ॥ 22॥ घटास्या घटानाद्यैश्च घातपातनिवारिणी । चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ॥ 23॥ चातुरी चपला चारुश्चला चेला चलाचला । चतुश्चिरन्तना चाका चिया चामी करच्छविः ॥ 24॥ चापिनी चपला चम्पूश्चिन्ता चिन्तामणिश्चिता । चातुर्‍वर्‍ण्यमयी चञ्चप्रच्चौरा चापा चमत्कृतिः ॥ 25॥ चक्रवर्‍ति वधूश्चक्रा चक्राङ्गा चक्रमोदिनी । चेतश्चरी चित्तवृति रचेता चेतनप्रदा ॥ 26॥ चाम्पेयी चम्पक प्रीतिश्चण्डी चण्डालवासिनी । चिरञ्जीवितदाचित्ता तरुमूलनिवासिनी ॥ 27॥ छरिकां छत्रमध्यस्था छिद्रा छेदकरी छिदा । छुच्छुन्दरी पालयित्री छुन्दरीभनिभस्वना ॥ 28॥ छलिनी छलवच्छिन्ना छिटिका छेककृत्तथा । छद्मिनी छान्दसी छाया छायाकृच्छ्रादिरित्यपि ॥ 29॥ जया च जयदा जातिजृंभिनी जामलायुता । जयापुष्पप्रिया जाया जाप्य जाप्यजगज्जनिः ॥ 30॥ जंबूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया । जन्तु जन्तुप्रधाना च जरत्कर्‍णा जरद्गवा ॥ 31॥ जाताप्रिया जीतनस्था जीमूतसदृशच्छविः । जन्याजनहिता जाया जंभ जंभिलशालिनी ॥ 32॥ जवदा जववद्वाहा जमानी ज्वरहा ज्वरी । झञ्झानीलमयी झञ्झाझणत्कार कराचला ॥ 33॥ झिण्टीशा झस्यकृत् झम्पायमत्रासनिवारिणी । टङ्कारस्था टङ्कधरा टङ्काराकारणा टसी ॥ 34॥ ठकुराठीत्कुतिश्चैव ठिण्ठीरवसनावृत्ता । ठण्ठानीलमयी ठण्ठाठणत्कार कराठसा ॥ 35॥ डाकिनी डामरा चैव डिण्डिमध्वनिनादिनी । ढक्काप्रियस्वना ढक्कातपिनी तापिनी तथा ॥ 36॥ तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया । तांरा तांरांबरा ताली तालीदलविभूषिणी ॥ 37॥ तुरङ्गा त्वरिता तोता तोतला तादिनी तुला । तापत्रयहरा तारा तालकेशीतमालिनी ॥ 38॥ तमालदलवच्छाया तालस्वनवती तमी । तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ॥ 39॥ तटस्यागिल तैलाक्ता तारिणी तपनद्युतिः । तिलोत्तमा तिलककृत्तारकादेशशेखरा ॥ 40॥ तिलपुष्पप्रिया तारा तारकेशकुटुंबिनी । स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्‍धिनी ॥ 41॥ स्थितिस्थैर्या स्थविष्ठा च स्थावतिः स्थूलविग्रहा । दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ॥ 42॥ देवी देववधू दैत्यदमिनी दन्तभूषणा । दयावती दमवती दमदा दाडिमस्तनी ॥ 43॥ दन्दशूकनिभा दैत्यदारिणी देवतानना । दोलाक्रीडा दयायुश्च दम्पती देवतामयी ॥ 44॥ दशा दीपस्थिता दोषा दोषहा दोषकारिणी । दुर्‍गा दुर्‍गार्‍तिशमनी दुर्‍गमा दुर्‍गवासिनी ॥ 45॥ दुर्‍गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी । दुर्‍वारा दुन्दुभिध्वाना दूरगा दूरवासिनी ॥ 46॥ दरदा दरहा दात्री दयादा दुहिता दशा । धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ 47॥ धीरा धीराधरित्री च धर्‍मदा धीरमानसा । धनुर्‍धरा च धमिनी धूर्‍त्ता धूर्‍त्तपरिग्रहा ॥ 48॥ धूमवर्‍णा धूमपानां धूमला धूममोदिनी । नलिनीनन्दनीरन्दा नन्दिनी नन्दबालिका ॥ 49॥ नवीना नर्‍मदा नर्‍मीनेमिर्‍नियमनिश्चया । निर्‍मला निगमाचरा निंनगा नग्निका निमिः ॥ 50॥ नाला निरन्तरानिघ्नी निर्लोपा निर्‍गुणा नतिः । नीलग्रीवा निरीहा च निरञ्जनजनी नवी ॥ 51॥ नवनीतप्रिया नारी नरकार्‍णवतारिणी । नारायणी निराकारा निपुणा निपुणप्रिया ॥ 52॥ निशा निद्रा नरेन्द्रस्थानमिता नमितापि च । निर्‍गुण्डिका च निर्‍गुण्डा निर्‍मांसा नासिकाभिधा ॥ 53॥ पताकिनी पताका चपलप्रीतिर्यशश्विनी । पीना पीनस्तना पत्नी पवनाशनशायिनी ॥ 54॥ परा पराकला पाका पाककृत्यरतिप्रिया । पवनस्था सुपवना तापसिप्रीतिवर्‍द्धिनी ॥ 55॥ पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्‍द्धिनी । पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ॥ 56॥ पुरन्दरप्रिया प्रीतिः पुरमार्‍गनिवासिनी । पेशा पाशकरा पाशबन्धहा पांशुलापशुः ॥ 57॥ पटः पटाशा परशुधारिणी पाशिनी तथा । पापघ्नी पतिपत्नी च पतिताऽपतितापि च ॥ 58॥ पिशाची च पिशाचघ्नी पिशिताशनतोषिता । पानदा पानपात्रा च पानदानकरोद्यता ॥ 59॥ पेषा प्रसिद्धिः पीयूषा पूर्‍णा पूर्‍णमनोरथा । पतद्गर्‍भा पतद्गात्रा पौनःपुण्यपिवापुरा ॥ 60॥ पङ्किला पङ्कमग्ना च पामीपा पञ्जरस्थिता । पञ्चमा पञ्चयामा च पञ्चता पञ्चमप्रिया ॥ 61॥ पञ्चमुद्रा पुण्डरीका पिङ्गला पिङ्गलोचना । प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ 62॥ प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा । फलिनी फलदात्री च फलश्री फणिभूषणा ॥ 63॥ फूत्कारकारिणी स्फारा फुल्लफुल्लांबुजासना । फिरङ्गहा स्फीतमतिः स्फितिः स्फीतिकरीतथा ॥ 64॥ वनमाया बलारातिर्‍बलिनी बलवर्‍द्धिनी । वेणुवाद्या वनचरी वीरा विजयिनीअपि ॥ 65॥ विद्या विद्याप्रदा विद्याबोधिनी वेददायिनी । बुधमाता च बुद्धा च वनमालावती वरा ॥ 66॥ वरदा वारुणी वीणा वीणावादनतत्परा । विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ 67॥ विद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता । वितन्द्रा विह्वला वेला विरावा विरतिज्वरा ॥ 68॥ विविधार्‍क करावीरा बिंबोष्ठी बिंबवत्सला । विन्ध्यस्था वीरवन्द्या च वरीयानपराचवित् ॥ 69॥ वेदान्त वेद्य वैद्या च वेदस्य विजयप्रदा । विरोधवर्‍द्धिनी वन्ध्या बन्धनिवारिणी ॥ 70॥ भयिनी भगमाला च भवानी भयभाविनी । भीमा भीमानना भैमी भङ्गुरा भीमदर्‍शना ॥ 71॥ भिल्ली भल्लधरा भीरु भेरुण्डीभी भयापहा । भगसर्‍पिण्यपि भगा भगरूपा भगालया ॥ 72॥ भगासना भगामोदा भेरी भङ्काररञ्जिनी । भीषणा भीषणारावा भगवत्यपिभूषणा ॥ 73॥ भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा । भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ 74॥ भ्रमरी भ्रामरीनीला भूपालमुकुटस्थिता । मता मनोहरमना मानिनी मोहनी मही ॥ 75॥ महालक्ष्मीर्‍मदक्षीबा मदीय मदिलालया । मदोद्धता मदङ्गस्था माधवी मधुमादिनी ॥ 76॥ मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता । मद्यपा मांसला मत्स्यमोदिनी मैथुनद्धता ॥ 77॥ मुद्रा मुद्रावती माता माया महिम मन्दिरा । महामाया महाविद्या महामारी महेश्वरी ॥ 78॥ महादेववधूर्‍मान्या मधुरा वीरमण्डला । मेदस्विनी मीलदश्रीर्‍महिषासुरमर्‍दिनी ॥ 79॥ मण्डपस्था मठस्था च मदिरागमगर्‍विता । मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ 80॥ मातङ्गिनी च मातङ्गी मतङ्गतनयापि च । मधुस्रवा मधुरसा मधूककुसुमप्रिया ॥ 81॥ यामिनी यामिनीनाथभूषायावकरञ्जिता । यवाङ्कुरप्रियामाया यवनी यवनाधिपा ॥ 82॥ यमघ्नी यमकन्या च यजमानस्वरूपिणी । यज्ञायज्वायजुर्यज्वा यशोनिकरकारिणी ॥ 83॥ यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्‍मकरी तथा । यशस्विनी यकारस्था यूपस्तंभनिवासिनी ॥ 84॥ रञ्जिता राजपत्नी च रमारेखा रवेरणी । रजोवती रजश्चित्रा रजनी रजनीपतिः ॥ 85॥ रागिणी राज्य नीराज्या राज्यदा राज्यवर्‍धिनी । राजन्वती राजनीतिस्तथा रजतवासिनी ॥ 86॥ रमणी रमणीया च रामा रामावती रती । रेतोवती रतोत्साहा रोगहृद्रोगकारिणी ॥ 87॥ रङ्गा रङ्गवती रागा रागज्ञा रागकृद्रणा । रञ्जिका रञ्जिकारञ्जा रञ्जिनी रक्तलोचना ॥ 88॥ रक्तचर्‍मधरा रञ्जा रक्तस्था रक्तवादिनी । रंभा रंभाफलप्रीति रंभोरु राघवप्रिया ॥ 89॥ रङ्गभृद्रङ्ग मधुर रोदसी रोदसीग्रहा । रोधकृद्रोध हन्त्री च रोगभृद्रोगशायिनी ॥ 90॥ वन्दी वन्दिस्तुता बन्ध बन्धूककुसुमाधरा । वन्दिता वन्दितामाता विन्दुरा वैन्दवी विधा ॥ 91॥ विङ्कि विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला । वदिर्‍विलग्नाविप्रा च विधिर्‍विधिकरी विधा ॥ 92॥ शङ्खिनी शङ्खवलया शङ्खमालावती शमी । शङ्खपात्राशिनीशङ्खा शङ्खा शङ्खगला शशी ॥ 93॥ शंवी शरावती श्यामा श्यामाङ्गी श्यामलोचना । श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ॥ 94॥ शमदा शमहन्त्री च शाकिनी शङ्कुशेखरा । शान्तिः शान्तिप्रदा शेषा शेषस्था शेषदायिनी ॥ 95॥ शेमुषी शोषिणीशीरी शौरिः शौर्या शरा शिरिः । शापहा शापहानीश शम्पा शपथदायिनी ॥ 96॥ श्रृङ्गिणी श्रृङ्गपलभुक् शङ्करी शङ्करीचया । शङ्का शङ्कापहा संस्था शाश्वती शीतला शिवा ॥ 97॥ शिवस्था शवभुक्ता वाशाववर्‍णा शिवोदरी । शायिनी शावशयना शिंशपा शिशुपालिनी ॥ 98॥ शवकुण्डलिनी शैवा शङ्करां शिशिराशिरा । शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ॥ 99॥ शयनीशङ्कुवा शक्तिः शन्तनुः शीलदायिनी । सिन्धु सरस्वतीसिन्धुः सुन्दरी सुन्दरानना ॥ 100॥ साधुः सिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती । सन्ततिः सम्पदा सम्पत्संविन्त्सरतिदायिनी ॥ 101॥ सपत्नी सरसा सारा सरस्वतिकरी स्वधा । सरःसमा समाना च समाराध्या समस्तदा ॥ 102॥ समिद्धा समदा सम्मा सम्मोहा समदर्‍शना । समितिः समिधा सीमा सावित्री सविधा सती ॥ 103॥ सवनी सवनादारा सावना समरा समी । सिमिरा सतता साध्वी सघ्रीचिन्त्यसहायिनी ॥ 104॥ हंसी हंसगतिर्‍हंसा हंसोज्ज्वल निचोलुयुक् । हलिनी हलदा हाला हरश्री हरवल्लभा ॥ 105॥ हेला हेलावती हेषा ह्रेषस्था ह्रेषवर्‍द्धिनी । हन्ता हन्तिर्‍हता हत्याहा हन्त तपहारिणी ॥ 106॥ हङ्कारी हन्तकृद्धङ्का हीहा हाता हताहता । हेमप्रदा हंसवती हारी हातरिसम्मता ॥ 107॥ होरी होत्री होलिका च होमा होमो हविर्‍हरिः । हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ॥ 108॥ लंबोदरी लंबकर्‍णा लंबिका लंबविग्रहा । लीला लोलावती लोला ललनी लालिता लता ॥ 109॥ ललामलोचना लोच्यलोलाक्षी लक्षणा लला । लम्पती लुम्पती लम्पा लोपामुद्रा ललन्तिनी ॥ 110॥ लन्तिका लंबिका लंबा लघिमा लघुमध्यमा । लघीयसी लघुदयी लूता लूतनिवारिणी ॥ 111॥ लोमभृल्लोम लोप्ता च लुलुती लुलुसंयती । लुलायस्था च लहरी लङ्कापुरपुरन्दरी ॥ 112॥ लक्ष्मीर्लक्ष्मीप्रदा लक्ष्ंया लक्षबलमतिप्रदा । क्षुण्णाक्षुपाक्षणाक्षीणा क्षमा क्षान्तिः क्षणावती ॥ 113॥ क्षामा क्षामोदरी क्षीमा क्षौमभृत्क्षत्रियाङ्गना । क्षया क्षयाकरी क्षीरा क्षीरदा क्षीरसागरा ॥ 114॥ क्षेमङ्करी क्षयकरी क्षयतत्क्षणदाक्षतिः । क्षुरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामाक्षरपातका ॥ 115॥ ॥ फलश्रुति ॥ मातुः सहस्रनामेदं प्रत्यङ्गिर्याः प्रदायकं ॥ 1॥ यः पठेत्प्रयतो नित्यं स एव स्यान्‍महेश्वरः । अनाचान्तः पठेन्नित्यं दरिद्रो धनदो भवेत् ॥ 2॥ मूकः स्याद्वाक्पतिर्‍देवि रोगी निरोगतां व्रजेत् । अपुत्रः पुत्रमाप्नोति त्रिषुलोकेषु विश्रुतं ॥ 3॥ वन्ध्यापि सूते तनयान्‍ गावश्च बहुदुग्धदाः । राजानः पादनंराः स्युस्तस्यदासा इव स्फुटाः ॥ 4॥ अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि । दर्‍शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ॥ 5॥ कर्‍ता हर्‍ता स्वयंवीरोजायते नात्रसंशयः । यं यं कामयते कामं तं तं प्राप्नोति निश्चितं ॥ 6॥ दुरितं न च तस्यास्ते नास्ति शोकाः कदाचन । चतुष्पथेऽर्‍धरात्रे च यः पठेत्साधकोत्तमः ॥ 7॥ एकाकी निर्‍भयो धीरो दशावर्‍तं स्तवोत्तमं । मनसा चिन्तितं कार्यं तस्य सिधिर्‍न संशयः ॥ 8॥ विना सहस्रनांना यो जपेन्‍मन्त्रं कदाचन । न सिद्धो जायते तस्य मन्त्रः कल्‍पशतैरपि ॥ 9॥ कुजवारे श्मशाने च मध्यान्‍हे योजपेदथ । शतावर्‍त्या सर्‍जयेत कर्‍ता हर्‍ता नृणामिह ॥ 10॥ रोगान्तर्‍धोनिशायान्ते पठिताम्मसि संस्थितः । सद्यो नीरोगतामेति यदि स्यान्निर्‍भयस्तदा ॥ 11॥ अर्‍द्धरात्रे श्मशाने वा शनिवारे जपेन्‍मनुं । अष्टोत्तरसहस्रं तद्दशवारं जपेत्ततः ॥ 12॥ सहस्रनाम चेत्तद्धि तदा याति स्वयं शिवा । महापवनरूपेण घोरगोमायुनादिनी ॥ 13॥ तदायदि न भीतिः स्यात्ततो द्रोहीति वा भवेत् । तदापशुबलिं दद्यात्स्वयं गृण्‍हाति चण्डिका ॥ 14॥ यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा । रोचनागुरुकस्तूरी कर्‍पूर मदचन्दनः ॥ 15॥ कुङ्कुम प्रथमाभ्यां तु लिखितं भूर्‍जपत्रके । शुभनक्षत्रयोगे तु कृत्रिमाकृत सत्क्रियः ॥ 16॥ कृत सम्पातनासिद्धि धारयेद्दक्षिणे करे । सहस्रानामस्वर्‍णस्थं कण्ठेवापी जितेन्द्रियः ॥ 17॥ तदायन्त्रे नमेन्‍मन्त्री क्रुद्धा सम्म्रियते नरः । यस्मै ददाति यः स्वस्ति स भवेद्धनदोपमः ॥ 18॥ दुष्टश्वापद जन्तूनां न भीः कुत्रापि जायते । बालकानामिमां रक्षां गर्‍भिणीनामपि ध्रुवं ॥ 19॥ मोहनं स्तभनाकर्‍षणमारणोच्चाटनानि च । यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ 20॥ नीलवस्त्रे विलिखतं ध्वजायां यदि तिष्ठति । तदा नष्टा भवत्येव प्रचण्डा परिवाहिनी ॥ 21॥ एतज्जप्तं महाभस्म ललाटे यदि धारयेत् । तद्दर्‍शनत एव स्युः प्राणिनस्तस्य किङ्कराः ॥ 22॥ राजपत्न्योऽपि वशगाः किमन्याः परयोषितः । एतज्जप्तं पिबेत्तोयं मासैकेन महाकविः ॥ 23॥ पण्डितश्च महादीक्षौ जायते नात्रसंशयः । शक्तिं सम्पूज्य देवेशि पठेत्स्तोत्रं वरं शुभं ॥ 24॥ इहलोके सुखंभुक्त्वा परत्र त्रिदिवं व्रजेत् । इतिनामसहस्रं तु प्रत्यङ्गिरा मनोहरं ॥ 25॥ गोप्यं गुप्ततमं लोके गोपनीयं स्वयोनिवत् ॥ 26॥ 
॥ इति श्रीरुद्रयामले तन्त्रे दशविद्या रहस्ये श्रीप्रत्यङ्गिरासहस्रनमस्तोत्रं सम्पूर्‍णं ॥

​॥ गुह्येश्वरीस्तोत्रम् ॥

On eve of mahAnavamI I’m posting a Buddhist stotra dedicated to the goddess of nepAla ‘bhagavatI guhyeshwarI’ who is none other then the guhyakAlI worshipped with mAhAchinakrama in nepAlamandala. The stotra is extracted from a Buddhist purAna text ‘ svayambhU purAna ‘ .

भगवति बहुरूपे निर्विकारे निरञ्जे 

निमितनिखिलरूपे निश्चयातीतरूपे। 

अखिलनिगमपारे नित्यनित्यस्वभावे 

चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ १॥

हसितमुखशशाङ्कं ज्योत्स्नया रात्रिभूतं 

दशशतकिरणोद्यद्वक्त्रमाध्यन्दिनं ते। 

अरुणवदनशोभा औदयी चास्तकाले 

चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ २॥

गलजठरपदेषु स्वर्गमर्त्याहिलोकाः 

सकलभगणदन्ता रोमराजी द्रुमास्ते। 

गिरय इव नितम्बा रक्तशुक्लाः समुद्रा-

श्चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ३॥

पवनदहनवेगाः श्वासप्रश्वास एव 

प्रलयप्रभवकालो मीलनोन्मीलनाभ्याम्। 

द्विदशतपनभूता भीमवक्त्रास्त्वदीया-

श्चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ४॥

अनुपमतनुदेहं व्याप्यमानं समन्ता-

न्निखिलनिगमसारं दर्शयन् देवि दिव्यम्। 

त्रिभुवनमखिलं ते दर्शितुमेति बुद्धि-

श्चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ५॥

विधिमुखविबुधास्ते किंकराः पादसंस्था 

मुकुटविधृतबुद्धे सर्वमार्गा हि शुद्धे। 

किमु तव महिमानं वर्णये गुह्यदेवि 

चरणकमलयुग्मं नौमि देवि त्वदीयम्॥ ६॥

अनुपठति समाप्तौ पूजने भक्तिमान् यो 

नुतिमति वितगोति स्पष्टमेवास्य बुद्धिः। 

सकलजनजनन्या भक्तिसम्पत्तिमुच्चैः

करतलवशगास्ताः सिद्धिपुष्टयौ लभन्ते॥ ७॥

श्री स्वयंभूपुराणोद्धृतं मञ्जुनाथकृतं

गुह्येश्वरीस्तोत्रं ॥ 

|| मैथिलसंप्रदायोक्त देवपूजा ||


|| मैथिलसंप्रदायोक्त देवपूजा ||

अक्षतान्गृहीत्वा यथोक्तन्ध्यायन् 
ॐ भूर्ब्भुवः स्वर्भगवन् ०………इहा गच्छ | इत्यावाह्य
ॐ भूर्ब्भुवः स्वर्भगवन् ०………इह तिष्ठ  || इति जलादौ पूजाधारे स्थापयित्वा पाद्यमादाय 
इदम्पाद्यम् ॐ ……..  नमः || इति दद्यात् तत 
एषोर्घ ॐ ……..  नमः || इत्यर्घन्दत्त्वा
इदमाचमनीयम् ॐ ……..  नमः || 
इदं स्नानीयं ॐ ……..  नमः || 
इदम् पुनाराचमनीयम् ॐ ……..  नमः || 
एष गन्धः ॐ ……..  नमः || 
इदमनुलेपनं ॐ ……..  नमः || वा 
इदं रक्तचन्दनं ॐ ……..  नमः || 
इदमक्षतम् ||  ॐ ……..  नमः || मन्त्र समुच्चार्य तद्विना वा 
इदम्मालयं ॐ …….. नमः || 
एतानि पुष्पाणि ॐ …….. नमः || 
इदम्पुष्पम् ॐ …….. नमः || इति वा 
इदम् त्रि   पुष्पाणि ॐ …….. नमः || 
एतान्यमुक पत्राणि ॐ …….. नमः || 
एष धूप: ॐ…….. नमः || 
एष : दीपः ॐ…….. नमः || 
इदं नैवेद्यम् ॐ…….. नमः || 
इदं नमस्कारं ॐ…….. नमः || 
प्रदक्षिणाम्  कृत्वा | प्रणम्य स्तुत्वा ध्यात्वा प्रार्थ्य ॐ भगवन् …………पूजितोसि प्रसीद प्रसीद क्षमस्व क्षमस्व  स्वस्थान गच्छ गच्छ || 
ॐ…… निर्माल्य देवता नामः …नमः इति निर्माल्यं क्षिपेदितिक्रमेण पाद्यार्घाचमनीयस्नानीय पुनराच मनी यानिगंधपुष्पधूपदीपनैवेद्यानिच पृथक्पृथक् दद्यात् ||

​|| काश्मीरसंप्रदायोक्त शाक्तेय होमपद्धति ||

स्थंडिले षटकोणे चतुष्कोणे वा वृत्तेऽर्द्धचंद्राकारेऽन्याकारे वा हस्तोर्ध्वे कुण्डे शोधनं क्षालानं  पावनं शोषणञ्च कृत्वा परितोहरशक्रादीन् देवान् न्यस्य मध्ये कुशाम्भासभ्युक्ष्य पुष्पगन्धाद्यै : सम्पूज्य तत्र  परदेवतां ध्यात्वा सूर्य्यकान्तादरणि काष्ठाच्छोत्रियागाराद्वा वह्निमाहृत्य हैमे शौल्बे मृण्मये वा पात्रे निधाय वह्नि प्रतिष्ठामन्त्रेणन्यस्य हृदय मंत्रेण सप्तघृताहुतिर्दत्वा कार्य्यानुसारेण रक्तातिरिक्ताकनकां हिरण्याद्या: सप्तजिह्वा: परिकल्प्य सम्प्रोक्षणमंत्रशुभं वर्णावर्तशब्दादिकं विचारयन्त: पूर्णाहुतिपर्य्यन्तं दक्षिणा भागस्थदधिदुग्धादीनां चुलुकं चुलुकं जुह्वति  तेषां प्रीता भगवती सर्वसिद्धिं संपादयति ||
( वैदिक अग्निप्रतिष्ठा मंत्रः – मनोजूतिर्जुषतामाजस्य० ||  )

|| परात्रिम्शिका|| 


श्रीदेव्य् उवाच 

अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् |
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || १ ||

एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो |
हृदयस्था तु या शक्तिः कौलिनी कुलनायिका || २ ||

ताम् मे कथय देवेश येन तृप्तिं व्रजाम्य् अहम् |

श्रीभैरव उवाच 

शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् || ३ ||

कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् |
कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः || ४ ||

अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः |
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ ||

पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु |
क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते || ६ ||

वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् |
तदूर्ध्वे शादिविख्यातम् पुरस्ताद् ब्रह्मपञ्चकम् || ७ ||

अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता |
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि || ८ ||

इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा |
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् |
तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः || ९ ||

एतन् ना योगिनीजातो ना रुद्रो लभते स्फुटम् |
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १० ||

अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् |
सद्यः सन्मुखताम् एति स्वदेहावेशलक्षणम् || ११ ||

मुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः |
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः || १२ ||

अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि |
प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् || १३ ||

सक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रसक्तिभिः |
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || १४ ||

त्रयेण मातरः सर्वा योगेस्वर्यो महाबलाः |
वीरा वीरेस्वराः सिद्धा बलवान् शाकिनीगणः || १५ ||

आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः |
यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम् || १६ ||

अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ ||

यत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति |
मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा || १८ ||

अदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः |
स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः || १९ ||

अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः |
शाकिनीकुलसामान्यो भवेद् योगं विनापि हि || २० ||

अविधिज्ञो विधानज्ञो जायते यजनं प्रति |
कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम् || २१ ||

शिवो विश्वद्यनन्तान्तः परं शक्तित्रयं मतम् |
तदन्तर् वर्ति यत्किंचिच् छुद्धमार्गे व्यवस्थितम् || २२ ||

अणुर् विशुद्धम् अचिराद् ऐस्वरं ज्ञानम् अश्नुते |
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः || २३ ||

सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः |
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः || २४ ||

तथा हृदयबीजस्थं जगद् एतच् चराचरम् |
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी || २५ ||

दीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता |
मूर्ध्नि वक्त्रे च हृदये गुह्ये मुर्तौ तथैव च || २६ ||

न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् |
एकैकेन दिशां बन्धं दशानाम् अपि कारयेत् || २७ ||

तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये |
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः || २८ ||

पुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा |
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || २९ ||

तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः |
सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् || ३० ||

सर्वतत्त्वसुसम्पूर्णाम् सर्वावयवशोभिताम् |
यजेद् देवीं महाभागा सप्तविंशतिमन्त्रिताम् || ३१ ||

ततः सुगन्धिपुष्पैश् च यथाशक्त्या समर्चयेत् |
पूजयेत् परया भक्त्या स्वात्मनं च निवेदयेत् || ३२ ||

एवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः |
कृतपूजाविधिः सम्यक् स्मरन् बीजम् प्रसिद्ध्यति || ३३ ||

आद्यन्तरहितम् बीजं विकसत् तिथिमध्यगम् |
हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यम् अभ्यस्येत् || ३४ ||

यान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् |
अज्ञः प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः || ३५ ||

एवं मन्त्रफलावप्तिर् इत्य् एतद् रुद्रयामलम् |
एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते || ३६||

|| महामहामाहेश्वर अभिनवगुप्ताचार्य कृत  क्रम स्तोत्रं ||


अयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनम् इदम् |

यद् अन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर् विभोः स्तोत्रे
शश्वत् प्रतिफलति चेतो गतभयम् || १ ||

विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा
स्तोता स्तोत्रे प्रकटयति भेदैकविषये |
विमृष्टश् च स्वात्मा निखिलविषयज्ञानसमये तदित्थं
त्वत्स्तोत्रे ऽहम् इह सततं यत्नरहितः || २ ||

अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाज् अनामृष्टः
स्वात्मेत्य् अपि हि न विना ऽमर्शनविधेः |
शिवश् चासौ स्वात्मा स्फुरद् अखिलभावैकसरसस् ततो ऽहम्
त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः || ३ ||

विचित्रैर् जात्यादिभ्रमणपरिपाटीपरिकरैर् अवाप्तम्
सार्वज्ञं हृदय यद् अयत्नेन भवता |
तद् अन्तस् त्वद्बोधप्रसरसरणीभूतमहसि स्फुटम् वाचि
प्राप्य प्रकटय विभोः स्तोत्रम् अधुना || ४ ||

विधुन्वानो बन्धाभिमतभवमार्गस्थितिम् इमां
रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् |
विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावान्
एतान् वरद मदमत्तो ऽस्मि सुखितः || ५ ||

भव प्राज्यैश्वर्यप्रथितबहुशक्तेर् भगवतो विचित्रं
चारित्रं हृदयम् अधिशेते यदि ततः |
कथं स्तोत्रं कुर्याद् अथ च कुरुते तेन सहसा
शिवैकात्म्यप्राप्तौ शिवनतिर् उपायः प्रथमकः || ६ ||

ज्वलद्रूपं भास्वत्पचनम् अथ दाहं प्रकटनम्
विमुच्यान्यद् वह्नेः किम् अपि घटते नैव हि वपुः |
स्तुवे संविद्रश्मीन् यदि निजनिजांस् तेन स नुतो भवेन्
नान्यः कश्चिद् भवति परमेशस्य विभवः || ७ ||

विचित्रारम्भत्वे गलितनियमे यः किल रसः
परिच्छेदाभावात् परमपरिपूर्णत्वम् असमम् |
स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर्
धर्मौघैः परचितिर् अनर्घोचितगुणा || ८ ||

इतीदृक्षैर् रूपैर् वरद विविधं ते किल वपुर् विभाति
स्वांशे ऽस्मिन् जगति गतभेदं भगवतः |
तद् एवैतत्स्तोतुं हृदयम् अथ गीर्बाह्यकरणप्रबन्धाश् च
स्युर् मे सततम् अपरित्यक्तरभसः || ९ ||

तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर्
विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः |
त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां
शशाङ्कार्काग्नीनां युगपद् उदयापायविभवाः || १० ||

अतश् चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः
शश्वद् व्रजति न विभेदं कथम् अपि |
तद् एतस्यां भूमाव् अकुलम् इति ते यत् किल पदं
तदेकाग्रीभूयान् मम हृदयभूर् भैरव विभो || ११ ||

अमुष्मात् संपूर्नात् वत रसमहोल्लाससरसान् निजां शक्तिं
भेदं गमयसि निजेच्छाप्रसरतः |
अनर्घं स्वातन्त्र्यं तव तदिदम् अत्यद्भुतमयीं
भवच्छक्तिं स्तुन्वन् विगलितभयो ऽहं शिवमयः || १२ ||

इदन्तावद् रूपं तव भगवतः शक्तिसरसं
क्रमाभावाद् एव प्रसभविगलत् कालकलनम् |
मनःशक्त्या वाचाप्य् अथ करणचक्रैर् बहिर् अथो घटाद्यैस्
तद्रूपं युगपद् अधितिष्ठेयम् अनिशम् || १३ ||

क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां
स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः |
क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं
भूयासं समधिशयितुं व्यग्रहृदयः || १४ ||

पुरा सृष्टिर् लीना हुतवहमयी यात्र विलसेत्
परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा |
हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं
सृष्ट्याख्या मम मनसि नित्यं विलसताम् || १५ ||

विसृष्टे भावांशे बहिर् अतिशयास्वादविरसे यदा
तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् |
तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद्
रक्तापानक्रमघटितगोष्ठीगतघृणम् || १६ ||

बहिर् वृत्तिं हातुं चितिभुवम् उदारां निवसितुं यदा
भावाभेदं प्रथयसि विनष्टोर्मिचपलः |
स्थितेर् नाशं देवी कलयति तदा सा तव विभो स्थितेः
सांसारिक्याः कलयतु विनाशं मम सदा || १७ ||

जगत्संहारेण प्रशमयितुकामः स्वरभसात्
स्वशङ्कातङ्काख्यं विधिम् अथ निषेधं प्रथयसि |
यमं सृष्ट्वेत्थं त्वं पुनर् अपि च शङ्कां विदलयन्
महादेवी सेयं मम भवभयं संदलयताम् || १८ ||

विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते
लोकाचारे गलितविभवे शास्त्रनियमे |
अनन्तं भोग्यौघं ग्रसितुम् अभितो लंपटरसा विभो
संहाराख्या मम हृदि भिदांशं प्रहरतु || १९ ||

तदित्थं देवीभिः सपदि दलिते भेदविभवे
विकल्पप्राणासौ प्रविलसति मातृस्थितिर् अलम् |
अतः संहारांशम् निजहृदि विमृश्य स्थितिमयी
प्रसन्ना स्यान् मृत्युप्रलयकरणी मे भगवती || २० ||

तदित्थं ते तिस्रो निजविभवविस्फारणवशाद् अवाप्ताः
षट्चक्रक्रमकृतपदं शक्तय इमाः |
क्रमाद् उन्मेषेण प्रविदधति चित्रां भवदशाम् इमाभ्यो
देवीभ्यः प्रवणहृदयः स्यां गतभयः || २१ ||

इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीम् इमां
बोधैकान्तद्रुतिरसमयीम् चापि विदधे |
तदित्थं संरोधं द्रुतिम् अथ विलुप्याशुभततीर्
यथेष्टं चाचारं भजति लसतां सा मम हृदि || २२ ||

क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीम् अवाप्तस्य
स्फारं निजनिजरुचा संहरति या |
इयं मार्त.ङ्दस्य स्थितिपदयुजः सारम् अखिलम् हठाद्
आकर्षन्ती कृशतु मम भेदं भवभयात् || २३ ||

समग्राम् अक्षालीं क्रमविरहिता सात्मनि मुहुर्
निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा |
परा दिव्यानन्दं कलयितुम् उदारादरवती प्रसन्ना मे
भूयात् हृदयपदवीं भूषयतु च || २४ ||

प्रमाणे संलीने शिवपदलसद्वैभववशात्
शरीरप्राणादिर् मितकृतकमातृस्थितिमयः |
यदा कालोपाधिः प्रलयपदम् आसादयति ते तदा देवी यासौ
लसति मम सा स्याच् छिवमयी || २५ ||

प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो
बहिर्लीनात्यन्तम् प्रसरति समाच्छादकतया |
ततो ऽप्य् अन्तःसारे गलितरभसाद् अक्रमतया महाकाली
सेयं मम कलयतां कालम् अखिलम् || २६ ||

ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं
विच्छिद्याशु स्थितिमतिरसात् संविदधति |
प्रमाणं मातारं मितिम् अथ समग्रं जगद् इदं स्थितां
क्रोडीकृत्य श्रयतु मम चित्तं चितिम् इमाम् || २७ ||

अनर्गलस्वात्ममये महेशे तिष्ठन्ति
यस्मिन् विभुशक्तयस् ताः |
तं शक्तिमन्तं प्रणमामि देवं
मन्थानसंज्ञं जगदेकसारम् || २८ ||

इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् आकर्ण्य देव
यदि मे व्रजसि प्रसादम् |
तेनाशु सर्वजनतां
निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः || २९ ||

षट्षष्टिनाम् एके वर्षे नवम्याम् असिते ऽहनि |
मया ऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ||

|| श्रीअभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ||