प्रातः स्मरामि नृहरिं च अनन्तमाद्यम्
लक्ष्याश्रितांगममलं सुरसंघबन्धम् ।
यत्पादनिर्गतजलं जलमूर्ध्निधारी
श्रीशंकरेण सततं दुरितापहारि ॥१॥
प्रातःस्मरामि भुवनत्रयपालनाथ
स्तम्भं हिरण्यकशिपोः प्रविदारणाय ।
भित्वा नखैरजनि येन तमार्तबन्धुम्
प्रल्हादरक्षणपरं करुअणैकसिन्धुम् ॥२॥
प्रातः स्मरामि फणिराजफणातपत्रम्
पीताम्बरं त्रिनयनं कृतसच्चरित्रम् ।
चक्रं च शंखममलाब्जदादधानम्
दौर्भिः सुवर्णमणिभूषणराजमानम् ॥३॥
प्रातःस्मरामि सितकण्ठमपापशीलम्
क्षीरब्धिमध्यनिलयं ह्रतशत्रुजालम् ।
ब्रह्मात्मजादि मुनिभिः स्तुतमुग्ररुपम्
नारायणं मुररिपुं विविधस्वरुपम् ॥४॥
प्रातःस्मरामि धृतदैत्यवरांत्रमालम्
दीर्घस्वरप्रचकितारिव लोकजालम् ।
श्वासानिलक्षुभितवारिनिधि प्रकामम् ……………………………………..॥५॥
यः श्लोकपंचकमिदं प्रातर्नित्यं पठेन्नरः । तस्मै नरहरिः सर्वं मनोभिष्टं प्रयच्छति ॥६॥
Animesh’s Blog
Second last line is missing. It is as follows
ghorAsyalolarasanaM harimAptakAmam |
LikeLike